Skip to main content
Search
Full Chapter
KS • Chapter 7: Canto 7

KS 7.5

Canonical Ref: KS 7.5
Metrical Form: इन्द्रवज्रा
Sanskrit (Devanāgarī)
अङ्काद्ययावङ्कमुदीरिताशीः सा मण्डनान्मण्डनमन्वभुङ्क्त । संबन्धिभिन्नोऽपि गिरेः कुलस्य स्नेहस्तदेकायतनं जगाम ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): अङ्कादिति । सा पार्वत्युदीरिताशीः प्रयुक्ताशीर्वादा सत्यङ्कादङ्कमुत्सङ्ग ययौ । मण्डनान्मण्डनान्तरमन्यन्मण्डनमन्वभुङ्क्त । तदा सर्वे बन्धवः प्रत्येकमेव तामङ्कमारोप्य मण्डनं प्रायच्छन्नित्यर्थः । तच्च स्नेहनिबन्धनमेवेत्याह-संबन्धिभिन्नः स्वपुत्रादिभिर्भिन्नो विभक्तोऽपि गिरेः कुलस्य वंशस्य स्नेहस्तदेकायतनं सैवैकमायतनं स्थानं तज्जगाम । तदिति छेदेऽप्ययमेवार्थः । विधेयप्राधान्यान्नपुंसकत्वमिति । सर्वे बन्धवः स्वापत्येभ्योऽपि तस्यामधिकं स्निह्यन्तीति तात्पर्यार्थः अन्वयः: सा उदीरिताशीः (सती) अङ्कात् अङ्कं ययौ, मण्डनात् मण्‍डनम् अन्वभुङ्क्त, सम्बन्धिभिन्नोऽपि गिरेः कुलस्य स्नेहः तदेकायतनं जगाम ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
अङ्काद्
Lemma: अङ्क
POS: mn
ययाव्
Lemma: या
POS: 2. Ā. • Verb: ययौ
अङ्कम्
Lemma: अङ्क
POS: mn
उदीरिताशीः
Lemma: उदीरय्
POS: 10. P.
उदीरिताशीः
Lemma: आशी
POS: f
सा
Lemma: तद्
POS: pron
मण्डनान्
Lemma: मण्डन
POS: n
मण्डनम्
Lemma: मण्डन
POS: n
अन्वभुङ्क्त
Lemma: अनुभुज्
POS: 7. Ā. • Verb: अन्वभुङ्क्त
संबन्धिभिन्नो
Lemma: सम्बन्धिन्
POS: adj
संबन्धिभिन्नो
Lemma: भिद्
POS: 6. P.
ऽपि
Lemma: अपि
POS: ind
गिरेः
Lemma: गिरि
POS: m
कुलस्य
Lemma: कुल
POS: n
स्नेहस्
Lemma: स्नेह
POS: mn
तदेकायतनं
Lemma: तद्
POS: pron
तदेकायतनं
Lemma: एक
POS: pron
तदेकायतनं
Lemma: आयतन
POS: n
जगाम
Lemma: गम्
POS: 6. Ā. • Verb: जगाम
Canonical CTS URN Reference
Kumārasambhavam, KS 7.5. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.4) All Verses in Chapter 7 Next Verse (KS 7.6) →