Skip to main content
Search
Full Chapter
KS • Chapter 7: Canto 7

KS 7.6

Canonical Ref: KS 7.6
Metrical Form: इन्द्रवज्रा
Sanskrit (Devanāgarī)
मैत्रे मुहूर्ते शशलाञ्छनेन योगं गतासूत्तरफल्गुनीषु । तस्याः शरीरे प्रतिकर्म चक्रुर्बन्धुस्त्रियो याः पतिपुत्रवत्यः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): मैत्र इति । अथ मैत्रे मित्रदैवत्ये मुहूर्ते । उदयमुहूर्तात्तृतीयमुहूर्त इत्यर्थः । `आर्द्रः सार्द्रस्तथा मैत्रः शुभो वासव एव च` । इति वृहस्पतिस्मरणात् । उत्तरफल्गुनीषु फल्गुनीनक्षत्रे । `फल्गुनी प्रोष्ठपदानां च नक्षत्रे` इत्येकस्मिन्नपि बहृवचनम् । शशलाञ्छनेन चन्द्रेण योगं गतासु सतीषु तस्याः पार्वत्याः शरीरे बन्धुस्त्रियः प्रतिकर्म प्रसाधनम् । `प्रतिकर्म प्रसाधनम्` इत्यमरः (अ.को.2|6|100) । चक्रुः । कीदृश्यः । याः पतिपुत्रवत्यः । जीवद्भर्तृका जीवदपत्याश्चेत्यर्थः अन्वयः: मैत्रे मुहूर्ते उत्तरफल्गुनीषु शशलाञ्छनेन योगं गतासु तस्याः शरीरे याः पतिपुत्रवत्यः बन्धुस्त्रियः ताः प्रतिकर्म चक्रुः ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
मैत्रे
Lemma: मैत्र
POS: adj
मुहूर्ते
Lemma: मुहूर्त
POS: mn
शशलाञ्छनेन
Lemma: शशलाञ्छन
POS: m
योगं
Lemma: योग
POS: m
गतासूत्तरफल्गुनीषु
Lemma: गम्
POS: 6. Ā.
गतासूत्तरफल्गुनीषु
Lemma: उत्तर
POS: adj
गतासूत्तरफल्गुनीषु
Lemma: फल्गुनी
POS: f
तस्याः
Lemma: तद्
POS: pron
शरीरे
Lemma: शरीर
POS: n
प्रतिकर्म
Lemma: प्रतिकर्मन्
POS: n
चक्रुर्
Lemma: कृ
POS: 2. Ā. • Verb: चक्रुः
बन्धुस्त्रियो
Lemma: बन्धु
POS: m
बन्धुस्त्रियो
Lemma: स्त्री
POS: f
याः
Lemma: यद्
POS: pron
पतिपुत्रवत्यः
Lemma: पति
POS: m
पतिपुत्रवत्यः
Lemma: पुत्रवत्
POS: adj
Canonical CTS URN Reference
Kumārasambhavam, KS 7.6. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.5) All Verses in Chapter 7 Next Verse (KS 7.7) →