Skip to main content
Search
Ch. 7 KS 7.28
Full Chapter
KS • Chapter 7: Canto 7

KS 7.28

Canonical Ref: KS 7.28
Metrical Form: उपजातिः
Sanskrit (Devanāgarī)
अखण्डितं प्रेम लभस्व पत्युरित्युच्यते ताभिरुमा स्म नम्रा । तया तु तस्यार्धशरीरभाजा पश्चात्कृताः स्निग्धजनाशिषोऽ पि ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): अखण्डितमिति । नम्रा प्रणतोमा ताभिः सतीभिः पत्युः शिवस्याखण्जितमक्षतं प्रेम लभस्व प्राप्नुहीत्युच्यते स्म अभिहिता । `लट्स्मे` इति भूतार्थे लट् । तस्य हरस्य । अर्धं शरीरस्यार्धशरीरम् । `अर्धनपुंसकम्` इति समासः । तद्भजतीत्यर्धशरीरभाजा तथा गौर्या तु स्निग्धजनाशिषो बन्धुजनाशीर्वादा अपि पश्चात्कृता अधरीकृताः । ततोऽप्यधिकफललाभादिति भावः अन्वयः: नम्रा उमा ताभिः `पत्युः अखण्डितं प्रेम लभस्व` इति उच्यते स्म । तस्य अर्धशरीरभाजा तया तु स्निग्धजनाशिषः अपि पश्चात्कृताः ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
अखण्डितं
Lemma: अखण्डित
POS: adj
प्रेम
Lemma: प्रेमन्
POS: mn
लभस्व
Lemma: लभ्
POS: 1. P. • Verb: लभस्व
पत्युर्
Lemma: पति
POS: m
इत्य्
Lemma: इति
POS: ind
उच्यते
Lemma: वच्
POS: 2. P. • Verb: उच्यते
ताभिर्
Lemma: तद्
POS: pron
उमा
Lemma: उमा
POS: f
स्म
Lemma: स्म
POS: ind
नम्रा
Lemma: नम्र
POS: adj
तया
Lemma: तद्
POS: pron
तु
Lemma: तु
POS: ind
तस्यार्धशरीरभाजा
Lemma: तद्
POS: pron
तस्यार्धशरीरभाजा
Lemma: अर्ध
POS: adj
तस्यार्धशरीरभाजा
Lemma: शरीर
POS: n
तस्यार्धशरीरभाजा
Lemma: भाज्
POS: adj
पश्चात्कृताः
Lemma: पश्चात्कृत
POS: adj
स्निग्धजनाशिषो
Lemma: स्निग्ध
POS: adj
स्निग्धजनाशिषो
Lemma: जन
POS: m
स्निग्धजनाशिषो
Lemma: आशिस्
POS: f
ऽपि
Lemma: अपि
POS: ind
Canonical CTS URN Reference
Kumārasambhavam, KS 7.28. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.27) All Verses in Chapter 7 Next Verse (KS 7.29) →