Skip to main content
Search
Ch. 7 KS 7.18
Full Chapter
KS • Chapter 7: Canto 7

KS 7.18

Canonical Ref: KS 7.18
Metrical Form: इन्द्रवज्रा
Sanskrit (Devanāgarī)
रेखाबिभक्तश्च विभक्तगात्र्याः किंचिन्मधूच्छिष्टविमृष्टरागः । कामप्यभिख्यां स्फुरितैरपुष्यदासन्नलावण्यफलोऽध्ररोष्ठः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): रेखेति । सुविभक्तगात्र्याः सुसंश्लिष्टावयवायाः पार्वत्या रेखया मध्यगतया विभक्तः सुश्लिष्टः किंचिदीषन्मधूच्छिष्टेन सिक्थकेन विमृष्टो विशेषेण निर्मलीकृतो रागो यस्य स तथोक्तः । `मधूच्छिष्टं तु सिक्थकम्` इति, `निर्णिक्तं शोधितं मृष्टम् ।` इति चामरः । अन्यत्रोक्तम्- `अलौहित्यापगमायाधरेषु सिक्थकलेपः क्रियते` । आसन्नं संनिहितं लावण्यफलं सौन्दर्यप्रयोजनं मुखचुम्बनादिरूपं यस्य स तथोक्तोऽधरोष्ठः स्फुरितैर्भाविशुभशंसिभिः स्पन्दैः कामप्यनिर्वाच्यार्माभख्यां शोभामपुष्यत्पुपोष । `अभिख्या नामशोभयोः` इत्यमरः अन्वयः: सुविभक्तगात्र्याः रेखाविभक्तः किञ्चिन्मधूच्छिष्टविमृष्टरागः आसन्नलावण्यफलः अधरोष्ठः स्फुरितैः काम् अपि अभिख्याम् अपुष्यत् ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
रेखाविभक्तश्
Lemma: रेखा
POS: f
रेखाविभक्तश्
Lemma: विभज्
POS: 1. Ā.
च
Lemma: च
POS: ind
विभक्तगात्र्याः
Lemma: विभज्
POS: 1. Ā.
विभक्तगात्र्याः
Lemma: गात्र
POS: adj
किंचिन्मधूच्छिष्टविमृष्टरागः
Lemma: कश्चित्
POS: pron
किंचिन्मधूच्छिष्टविमृष्टरागः
Lemma: मधूच्छिष्ट
POS: n
किंचिन्मधूच्छिष्टविमृष्टरागः
Lemma: विमृश्
POS: 6. Ā.
किंचिन्मधूच्छिष्टविमृष्टरागः
Lemma: राग
POS: m
कामप्य्
Lemma: क
POS: pron
कामप्य्
Lemma: अपि
POS: ind
अभिख्यां
Lemma: अभिख्या
POS: f
स्फुरितैर्
Lemma: स्फुरित
POS: n
अपुष्यद्
Lemma: पुष्
POS: 2. P. • Verb: अपुष्यत्
आसन्नलावण्यफलो
Lemma: आसद्
POS: 2. P.
आसन्नलावण्यफलो
Lemma: लावण्य
POS: n
आसन्नलावण्यफलो
Lemma: फल
POS: n
ऽधरोष्ठः
Lemma: अधरोष्ठ
POS: m
Canonical CTS URN Reference
Kumārasambhavam, KS 7.18. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 7.17) All Verses in Chapter 7 Next Verse (KS 7.19) →