Ṛtusaṁhāram • Chapter 01
Canto 1
प्रथमः सर्गः
Canto 1 of Ṛtusaṁhāram.
Total: 28 Verses
•
Citations: RS 1.1–28
•
1 Lexicon Terms
प्रचण्डसूर्यः स्पृहणीयचन्द्रमाः सदावगाहक्षतवारिसंचयः । दिनान्तरम्योऽभ्युपशान्तमन्मथो निदाघकालोऽयमुपागतः प्रिये ॥
व्याख्या / Traditional Commentary & Notes
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः):
इदानीं व्याख्यालेशः प्रारभ्यते। तत्रादौ ग्रीष्मऋतुवर्णनसूचकं प्रथमसर्गस्यादिमं काव्यमाह प्रचण्डेति॥ अथ व्याख्या — कविः शृङ्गाररसमुद्दिश्य स्वस्त्रियं ब्रूते - हे प्रिये वल्लभे निदाघकालो ग्रीष्मकालः समुपागतः उपस्थितः । कथंभूतो निदाघकालः - प्रचण्ड सोढुमशक्यः सूर्यो यत्र सः । पुनः कथंभूतः - स्पृहणीयः सर्वेषां वाञ्छनीयश्चन्द्रमा यत्र सः । पुनः कथंभूतः - सदा निरन्तरम्वगाहेन स्नानादिकरणेन क्षतः खण्डितोऽर्थात् शुष्को वारिसञ्चयस्तडागादिर्यत्र स तथा । पुनः कथंभूतः - दिनान्तरम्यः दिनस्यान्ता दिनान्ताः सन्ध्यावसरास्त एव रम्या यत्र सः । अथवा दिनान्ते रम्यो रमणीयो दिनान्तरम्यः । पुनः किंभूतः - अभ्युपशान्तः शान्तभावमुपगतो मन्मथः कामो यत्र सः । तथा `विशेषसूर्यः स्पृहणीयचन्द्रमाः` इति वा पाठः । तत्र विशेषोऽन्य्स्यापेक्षया विशेषतेजाः सूर्यो य़त्र सः । अनेन विशेषसुरतानर्हः कालोऽयमिति सूचितः ।
चन्द्रिकाटीका (मणिरामः):
प्रचण्डेति ॥ प्रचण्ड उग्रः सूर्यो दिवाकरो यस्मिन् स तथोक्तः । स्पृहणीयो वाज्छनीयश्चन्द्रमाश्चन्द्रो यस्मिन् स तथोक्तः । `हिमांशुश्चन्द्रमाश्चन्द्रः` इत्यमरः (अ.को.1|3|15) । सदा निरन्तरमवगाहेन निमज्जनपूवंकस्नानेन क्षतः क्षीणो वारिसञ्चयो जलसमूहो यस्मिन् तथोक्तः । दिनान्तः संध्याकालो रम्यो रमणीयो यस्मिन्स तथोक्तः । दिवसे सूर्यसत्त्वादौष्ण्यजनितमाकृलत्वं चन्द्रोदयादिना च शीतलत्वात् तस्य रम्यत्वम् । अभि समन्तात् शान्तो मन्मथः कन्दर्पो यस्मिन् स तथोक्तः । `वसन्ते द्विगुणः कामः` इति वसन्तापगमे कामोपशान्तिः । अयं निदाघकालो ग्रीष्मकाल उपागतः संप्राप्तः । हे प्रिये । वंशस्थवृत्तमेतत् — `जतौ तु वंशस्थमुदीरितं जरो` इति लक्षणात् ॥
निशाः शशाङ्कक्षतनीलराजयः क्वचिद्विचित्रं जलयन्त्रमन्दिरम् । मणिप्रकाराः सरसं च चन्दनं शुचौ प्रिये यान्ति जनस्य सेव्यताम् ॥
व्याख्या / Traditional Commentary & Notes
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः):
निशेति ॥ हे प्रिये शुचावाषाढे जनस्य लोकस्यैतानि वस्तूनि सेवनार्हः सेव्यस्तस्यभावः सेव्यता तां सेव्यतां सेव्यभावं यान्ति प्राप्नुवन्ति । एतानि वस्तूनि जनः सेवत इत्यर्थः । एतानि कानि — निशाः रात्रयः । किम्भूताः निशाः — शशाङ्केन चन्द्रेण क्षताः खण्डिताः नीलराजयोऽन्धकारश्रेणयो यासां ताः । पुनः — सरसं रसोपलक्षितं अर्थात् घृष्टं चन्दनं जनस्य सेव्यतां याति । ग्रीष्मर्तावेतानि वस्तूनि सुखदानि भवन्तीत्यर्थः ॥
चन्द्रिकाटीका (मणिरामः):
निशा इति ॥ हे प्रिये क्वचिच्छशाङ्केन चन्द्रमसा कर्त्रा क्षत्ता दूरीकृता नीलराजयस्तमः पङ्क्तयो यासां तास्तथोक्ता निशा रात्रयः । `निशा निशीथिनी रात्रिः` इत्यमरः (अ.को.1|4|4) । क्वचित् विचित्रं जलयन्त्रेण युक्तं मन्दिरं गृहं । क्वचिन्मणिप्रकारा मणिविशेषेणाश्चन्द्रकान्तादयः । क्वचित् सरसं सान्द्रं चन्दनञ्च शुचौ ग्रीष्मकाले जनस्य लोकस्य सेव्यतामुपभोगविषयतां यान्तीति वचनविपरिणामेनान्वयः
Morphemic Decomposition & Padaccheda
निशाः
निशा [f]
शशाङ्कक्षतनीलराजयः
शशाङ्क [m]
शशाङ्कक्षतनीलराजयः
क्षन् [8. Ā.]
शशाङ्कक्षतनीलराजयः
नीलराजि [f]
क्वचिद्विचित्रं
क्वचिद् [ind]
क्वचिद्विचित्रं
विचित्र [adj]
जलयन्त्रमन्दिरम्
जलयन्त्र [n]
जलयन्त्रमन्दिरम्
मन्दिर [n]
मणिप्रकाराः
मणि [m]
मणिप्रकाराः
प्रकार [m]
सरसं
सरस [adj]
च
च [ind]
चन्दनं
चन्दन [mn]
शुचौ
शुचि [m]
प्रिये
प्रिय [adj]
यान्ति
या [2. Ā.]
जनस्य
जन [m]
सेव्यताम्
सेव्यता [f]
सुवासितं हर्म्यतलं मनोहरं प्रियामुखोच्छ्वासविकम्पितं मधु । सुतन्त्रिगीतं मदनस्य दीपनं शुचौ निशीथेऽनुभवन्ति कामिनः ॥
व्याख्या / Traditional Commentary & Notes
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः):
सुवासितमिति ॥ कामिनो भोगिपुरुषाः शुचावाषाढे निशीथेऽर्धरात्रावेतानि वस्तून्यनुभवन्ति सेवन्ते । एतानि कानि — सुवासितं चन्दनकर्पूरादिवासोपलक्षितं हर्म्यतलं गृहोपरिभागम् सेवन्ते । किंभूतं हर्म्यतलं — मनोहरम् । पुनः प्रियामुखोच्छ्वासविकम्पितंमधु । प्रियायाः मुखोच्छ्वासः प्रियामुखोच्छ्वासः प्रियामुखोच्छ्वासस्तेन विकम्पितं विशेषेण कम्पयमानं मधु मद्यं सेवन्ते । पुनः सुतन्त्रि सुष्टु शोभना तन्त्री वीणा यत्र तत् सुतन्त्रि । ईदृशं गीतं गानं सेवन्ते । किंभूतं गीतम् — मदनस्य कामस्य दीपनं कामोद्दीप्तिकरमित्यर्थः ॥
चन्द्रिकाटीका (मणिरामः):
सुवासितमिति ॥ कामिनो विलासिनः शुचौ ग्रीष्मकाले निशीथे अर्धरात्रे । `अर्धरात्रनिशीथौ द्वौ` इत्यमरः (अ.को.1|4|7) । सुवासितं सुगन्धजलसेकादिना सुगन्धीकृतं मनोहरं सुन्दरं हर्म्यतलं प्रासादतलम् । प्रियामुखस्य कान्तावदनस्योच्छ्वासेन विकम्पितं मधु । मदनस्य कन्दर्पस्य दीपनमुद्दीपकं सुतन्त्रिणा गीतं गानं च । `गीतं गानमिमे समे` इत्यमरः (अ.को.1।6।28) । अनुभवन्ति आस्वादयन्तीत्यर्थः । एतेनापि ग्रीष्मकालस्य कामिनां मनोहरत्वमुक्तम् ॥
Morphemic Decomposition & Padaccheda
सुवासितं
सु [ind]
सुवासितं
वासय् [Denom. Ā.]
हर्म्यतलं
हर्म्य [n]
हर्म्यतलं
तल [mn]
मनोहरं
मनोहर [adj]
प्रियामुखोच्छ्वासविकम्पितं
प्रिया [f]
प्रियामुखोच्छ्वासविकम्पितं
मुख [n]
प्रियामुखोच्छ्वासविकम्पितं
उच्छ्वास [m]
प्रियामुखोच्छ्वासविकम्पितं
विकम्पय् [10. P.]
मधु
मधु [n]
सुतन्त्रिगीतं
सुतन्त्रि [adj]
सुतन्त्रिगीतं
गा [2. P.]
मदनस्य
मदन [mn]
दीपनं
दीपन [n]
शुचौ
शुचि [adj]
निशीथेऽनुभवन्ति
निशीथ [mn]
निशीथेऽनुभवन्ति
अनुभू [1. Ā.]
कामिनः
कामिन् [m]
नितम्बबिम्बैः सदुकूलमेखलैः स्तनैः सहाराभरणैः सचन्दनैः । शिरोरुहैः स्नानकषायवासितैः स्त्रियो निदाघं शमयन्ति कामिनाम् ॥
व्याख्या / Traditional Commentary & Notes
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः):
नितम्बेति ॥ स्त्रियः कामिनामेभिर्वस्तुभिः कृत्वा निदाघं तापं शमयन्ति । एभिः कैः — सुदुकूलमेखलैर्नितम्बबिम्बैः दुकूलञ्च मेक्खला च दुकूलमेखले ताभ्यां सह वर्तन्त इति तथा तैर्नितम्बबिम्बैः । कटिपश्चाद्भागा नितम्बास्त एव बिम्बाः बिम्बवच्चक्राकारा नितम्बबिम्बास्तैः । पुनः कैः — सहाराभरणैः स्तनैः । हारा मुक्तामयाश्चाभरणान्यलङ्काराणि च तथा तैः सह वर्तन्ते । अथवा हारा एवाभरणानि तैः सह वर्तन्त ईदृशैः स्तनैरुरोजैस्तापं शमयन्ति । किंभूतैः स्तनैः —सचन्दनैः चन्दनानुलिप्तैः । पुनः — स्नानकषायवाषितैः शिरोरुहैः स्नानस्य कषायेण कषायगन्धेन वासितास्तथा तैरथवा स्नानस्य स्नानार्थं वा कषायः क्वाथोऽर्थात् तैः वासितास्तथा । तैः शिरोरुहैः केशैः भृशं तापं शमयन्ति । एषां स्पर्शैः कामिनां कामोद्भवतापोपशान्तिजनको भवतीत्यर्थः ॥
चन्द्रिकाटीका (मणिरामः):
नितम्बेति ॥ स्त्रियो विलासिन्यो दुकूलानि वस्त्राणि मेखला रशनाश्च ताभिः सहितानि तैस्तथोक्तैर्नितम्बबिम्बैः कटिपश्चाद्भागैः । `पश्चान्नितम्बः स्त्रीकट्याः` इत्यमरः (अ.को.2|6|75) । हारा आभरणानि च तैः सहितास्तैस्तथोक्तैः स चन्दनैश्चन्दनलिप्तैः स्तनैः स्नाने स्नानकाले यः कषायो लापितसुगन्धिद्रव्यं तेन वासिताः सञ्जातवासास्तैस्तथोक्तैश्शिरोरुहैः केशैः कामिनां निदाघमूष्माणं शमयन्ति दूरीकुर्वन्तीत्यर्थः ॥
Morphemic Decomposition & Padaccheda
नितम्बबिम्बैः
नितम्ब [m]
नितम्बबिम्बैः
बिम्ब [mn]
सदुकूलमेखलैः
सदुकूल [adj]
सदुकूलमेखलैः
मेखला [f]
स्तनैः
स्तन [mn]
सहाराभरणैः
सहार [adj]
सहाराभरणैः
आभरण [n]
सचन्दनैः
सचन्दन [adj]
शिरोरुहैः
शिरोरुह [m]
स्नानकषायवासितैः
स्नान [n]
स्नानकषायवासितैः
कषाय [adj]
स्नानकषायवासितैः
वासय् [10. Ā.]
स्त्रियो
स्त्री [f]
निदाघं
निदाघ [m]
शमयन्ति
शमय् [10. Ā.]
कामिनाम्
कामिन् [m]
नितान्तलाक्षारसरागरञ्जितैर्नितम्बिनीनां चरणैः सनूपुरैः । पदे पदे हंसरुतानुकारिभिर्जनस्य चित्तं क्रियते समन्मथम् ॥
व्याख्या / Traditional Commentary & Notes
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः):
नितान्तेति ॥ नितम्बिनीनां चरणैः पादैः जनस्य चित्तं समन्मथं सकामं क्रियते । स्थूलः सुभगो वा नितम्बो विद्यते यासां तास्तथा तासां तरुणीनां मन्मथेन स्मरेण सह वर्तत इति समन्मथम् । किंभूतैश्चरणैः — नितान्तलाक्षारसरागरञ्जितैः । लाक्षाया रसो द्रव्यस्तस्य रागो रक्तत्वं लाक्षारसरागः । नितान्तमतिशयेन लाक्षारसरागस्तेन रञ्जिता अरुणत्वमापादितास्तथा तैः । पुनः किंभूतैश्चरणैः — सनूपुरैः नूपुरोपलक्षितैः । पुनः किंभूतैः — पदे पदे चरणयोर्न्यासे न्यासे हंसस्य रुतं शब्दमनुकुर्वन्तीति हंसरुतानुकारिणस्तैः । पदे पदे हंसस्वन इव शब्दायमानैः । अतोऽत्र स्त्रियोऽपि मनोहारिण्यो भवन्तीति भावः ॥
चन्द्रिकाटीका (मणिरामः):
नितान्तेति ॥ नितान्तमत्यन्तं लाक्षारसस्य रागेण रञ्जितास्तैस्तथोक्तैः सनूपुरैर्मञ्जीरसहितैः `मञ्जीरो नूपुरोऽस्त्रियाम्` इत्यमरः (अ.को.2|6|110) । पदे पदे प्रतिपदं हंसरुतं मरालशब्दमनुकुर्वन्ति तैस्तथोक्तैर्नितम्बिनीनां चरणैर्जनस्य लोकस्य चित्तमन्तःकरणं समन्मथं मदनसहितम् । `मदनो मन्मथो मारः` इत्यमरः (अ.को.1|1|27) । क्रियत इत्यर्थः ॥
Morphemic Decomposition & Padaccheda
नितान्तलाक्षारसरागरञ्जितैर्
नितान्त [adj]
नितान्तलाक्षारसरागरञ्जितैर्
लाक्षा [f]
नितान्तलाक्षारसरागरञ्जितैर्
रस [mn]
नितान्तलाक्षारसरागरञ्जितैर्
राग [m]
नितान्तलाक्षारसरागरञ्जितैर्
रञ्जय् [10. Ā.]
नितम्बिनीनां
नितम्बिनी [f]
चरणैः
चरण [mn]
सनूपुरैः
सनूपुर [adj]
पदे
पद [mn]
पदे
पद [mn]
हंसरुतानुकारिभिर्जनस्य
हंस [m]
हंसरुतानुकारिभिर्जनस्य
रुत [n]
हंसरुतानुकारिभिर्जनस्य
अनुकारिन् [adj]
हंसरुतानुकारिभिर्जनस्य
जन [m]
चित्तं
चित्त [n]
क्रियते
कृ [2. Ā.]
समन्मथम्
स [ind]
समन्मथम्
मन्मथ [m]
पयोधराश्चन्दनपङ्कचर्चितास्तुषारगौरार्पितहारशेखराः । नितम्बदेशाश्च सहेममेखलाः प्रकुर्वते कस्य मनो न सोत्सुकम् ॥
व्याख्या / Traditional Commentary & Notes
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः):
पयोधरेति ॥ पयोधराः स्तनाश्च पुनर्नितम्बदेशाः कटिपश्चाद्भागाः कस्य पुरुषस्य मनः सोत्सुकं नारीरमणलालसं न प्रकुर्वते । अपि तु सर्वस्य मनः सोत्सुकम् प्रकुर्वत इत्यर्थः । किंभूताः पयोधराः — चन्दनस्य पङ्कः कर्दमस्तेन चर्चिताः कृतलेपाः । पुनः किंभूताः — तुषारवद् हिमवद् गौरा धवलाः अर्पिता स्थापिता हाराः शेखरे अगरे उपरिप्रदेशे येषां तैः । किंभूता नितम्बदेशाः — हेम्नः सुवर्णस्य मेखलाभी रशनाभिः सह वर्तन्त इति सहेममेखलाः । अनेन स्त्रीणामस्यन्तरमणीयत्वं सूचितम् ॥
चन्द्रिकाटीका (मणिरामः):
पयोधरा इति ॥चन्दनस्य पङ्केन द्रवेण चर्चिताः लिप्ताः तुषारवद्गौराः शुब्रवर्णा अर्पिता हारशेखराः श्रेष्ठहारा येषु ते तयोक्ताः पयोधराः स्तनाः । सहेममेखलाः सुवर्णरशनासहिताः । `स्त्रीकट्यां मेखला काञ्ची सप्तकी रशना तथा` इत्यमरः (अ.को.2।6।209) । नितम्बदेशाः श्रोणीबन्धाश्च मनः सोत्सुकं सोत्कण्ठं न प्रकुर्वर्ते प्रकर्षेण न कुर्वन्ति अपि तु सर्वस्यापीत्यर्थः ॥
Morphemic Decomposition & Padaccheda
पयोधराश्चन्दनपङ्कचर्चितास्
पयोधर [m]
पयोधराश्चन्दनपङ्कचर्चितास्
चन्दन [mn]
पयोधराश्चन्दनपङ्कचर्चितास्
पङ्क [mn]
पयोधराश्चन्दनपङ्कचर्चितास्
चर्चय् [10. Ā.]
तुषारगौरार्पितहारशेखराः
तुषारगौर [m]
तुषारगौरार्पितहारशेखराः
अर्पय् [10. Ā.]
तुषारगौरार्पितहारशेखराः
हार [mn]
तुषारगौरार्पितहारशेखराः
शेखर [m]
नितम्बदेशाश्च
नितम्ब [m]
नितम्बदेशाश्च
देश [m]
नितम्बदेशाश्च
च [ind]
सहेममेखलाः
स [ind]
सहेममेखलाः
हेमन् [n]
सहेममेखलाः
मेखला [f]
प्रकुर्वते
प्रकृ [8. Ā.]
कस्य
क [pron]
मनो
मनस् [n]
न
न [ind]
सोत्सुकम्
स [ind]
सोत्सुकम्
उत्सुक [adj]
समुद्गतस्वेदचिताङ्गसंधयो विमुच्य वासांसि गुरूणि साम्प्रतम् । स्तनेषु तन्वंशुकमुन्नतस्तना निवेशयन्ति प्रमदाः सयौवनाः ॥
व्याख्या / Traditional Commentary & Notes
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः):
समुद्गतेति ॥ य पुनः सह यौवनेन तारुण्येन वर्तन्त इति सयौवनाः प्रमदाः । साम्प्रतं ग्रीष्मावसरे स्तनेषु अच्छ सूक्ष्मं च तदंशुकं वस्त्रञ्च अच्छांशुकं तन्निवेशयन्ति स्थापयन्ति । किं भूताः प्रमदाः — उन्नतस्तनाः उन्नताः स्तनाः यासां ताः । किं कृत्वा — गुरुणि स्थूलानि वासांसि वस्त्राणि विमुच्य मुक्त्वा । पुनः किंभूताः प्रमदाः — समुद्गत उत्पन्नो योऽसौ स्वेदः प्रस्वेदस्तेन चिता व्याप्ता अतएवार्द्राः सन्धयः कक्षादयो यासां ताः ।
चन्द्रिकाटीका (मणिरामः):
समुद्गतेति ॥ समुद्गतो निर्गतो यः स्वेदो घर्मस्तेन चिता व्याप्ता अङ्गसन्धयो बाहुमूलादयो यासां तास्तथोक्ताः सयौवनास्तारुण्यसहिता उन्नतस्तना उच्चकुचाः प्रमदाः स्त्रियः साम्प्रतमिदानीं गुरूणि जडानि वासांसि वस्त्राणि विमुच्य दूरीकृत्य स्तनेषु कुचेषु तनु सूक्ष्मम् अंशुकं वासः कञ्चुकादि निवेशयन्ति स्थापयन्तीत्यर्थः ॥
Morphemic Decomposition & Padaccheda
समुद्गतस्वेदचिताङ्गसंधयो
समुद्गम् [1. P.]
समुद्गतस्वेदचिताङ्गसंधयो
स्वेद [m]
समुद्गतस्वेदचिताङ्गसंधयो
चित [adj]
समुद्गतस्वेदचिताङ्गसंधयो
अङ्ग [n]
समुद्गतस्वेदचिताङ्गसंधयो
संधि [mf]
विमुच्य
विमुच् [6. Ā.]
वासांसि
वासस् [n]
गुरूणि
गुरु [adj]
साम्प्रतम्
सांप्रतम् [ind]
स्तनेषु
स्तन [mn]
तन्वंशुकमुन्नतस्तना
तनु [adj]
तन्वंशुकमुन्नतस्तना
अंशुक [mn]
तन्वंशुकमुन्नतस्तना
उन्नम् [1. Ā.]
तन्वंशुकमुन्नतस्तना
स्तन [mn]
निवेशयन्ति
निवेशय् [10. Ā.]
प्रमदाः
प्रमदा [f]
सयौवनाः
सयौवन [adj]
सचन्दनाम्बुव्यजनोद्भवानिलैः सहारयष्टिस्तनमण्डलार्पणैः । सवल्लकीकाकलिगीतनिस्वनैर्विबोध्यते सुप्त इवाद्य मन्मथः ॥
व्याख्या / Traditional Commentary & Notes
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः):
सचन्दनेति ॥ एभिर्वस्तुभिरद्य साम्प्रतं सुप्तो मन्मथः कामः प्रबोध्यते इव जागरुकः क्रियत इव । एभिः कैः — सचन्दनेन्दुव्यजनोद्भवानिलैः चन्दनञ्चेन्दुः कर्पूरश्च चन्दनेन्दू ताभ्यां सहिता ये व्यजनोद्भवानिलास्तालवृन्तजनितवायवस्तथा तैः अर्थाच्चन्दनचन्द्ररसाश्लिष्टव्यजनवातैः । किंभूतैः सचन्दनेन्दुव्यजनोद्भवानिलैः — सहारयष्टिस्तनमण्डलार्पितैः । हारयष्ट्या मुक्तामयहारेण सहितं यत्स्तनमण्डलं तस्मिन्नर्पितास्तापोपशान्त्यर्थं स्थापिता अर्थाद्विहितास्तथा तैः । पुनः कैः — सवल्लकीकाकलगीतिनिः सवनैः वल्लक्याः वीणायाः काकलेन सूक्ष्मध्वनिना सह या गीतिर्गानं तस्याः निःस्वनाः शब्दास्तथा तैः । `काकलीति कलः सूक्ष्मे` इत्यभिधानचिन्तामणौ (6|46) ग्रीष्मर्तौ चन्दन चन्द्र व्यजन वात सहारयष्टि तरुणी स्तन मण्डल वीणारागाः कामोद्दीप्तिकरा भवन्तीति भावः ॥
चन्द्रिकाटीका (मणिरामः):
सचन्दनेति ॥ चन्दनाम्बुना चन्दनजलेन चन्दनद्रवेणेति यावत् सहितं युक्तं यद् व्यजनं तदुद्भवास्तदुत्पन्ना येऽनिला वायवस्तैः हारयष्ट्या कुसुममालया सहितानि युक्तानि यानि स्तनमण्डलानि कुचमण्डलानि तेषाम् अर्पणैः वल्लक्या वीणया सहिताश्च ते काकलिनः सूक्ष्मकलाश्च ते गीतनिस्वना गाननिनादाश्च तैः । `वीणा तु वल्लकी` इत्यमरः (अ.को.1।7।4) । `काकली तु कले सूक्ष्मे` इत्यमरः (अ.को.1।7।2) । `गीतं गानमिमे समे` इत्यमरः (अ.को.1।6।28) । अद्य मन्मथः कामः सुप्त इव निद्रिइत इव राजेवेत्यर्थः । बिबोध्यते उद्बोध्यते ॥
Morphemic Decomposition & Padaccheda
सचन्दनाम्बुव्यजनोद्भवानिलैः
सचन्दन [adj]
सचन्दनाम्बुव्यजनोद्भवानिलैः
अम्बु [n]
सचन्दनाम्बुव्यजनोद्भवानिलैः
व्यजन [n]
सचन्दनाम्बुव्यजनोद्भवानिलैः
उद्भव [adj]
सचन्दनाम्बुव्यजनोद्भवानिलैः
अनिल [m]
सहारयष्टिस्तनमण्डलार्पणैः
सहार [adj]
सहारयष्टिस्तनमण्डलार्पणैः
यष्टि [fn]
सहारयष्टिस्तनमण्डलार्पणैः
स्तन [mn]
सहारयष्टिस्तनमण्डलार्पणैः
मण्डल [mfn]
सहारयष्टिस्तनमण्डलार्पणैः
अर्पण [adj]
विबोध्यते
विबोधय् [10. P.]
सुप्त
स्वप् [1. Ā.]
इवाद्य
इव [ind]
इवाद्य
अद्य [ind]
मन्मथः
मन्मथ [m]
सितेषु हर्म्येषु निशासु योषितां सुखप्रसुप्तानि मुखानि चन्द्रमाः । विलोक्य नूनं भृशमुत्सुकश्चिरं निशाक्षये याति ह्रियेव पाण्डुताम् ॥
व्याख्या / Traditional Commentary & Notes
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः):
सितेष्विति ॥ चन्द्रमा निशाक्षये निशायाः रात्रेः क्षयो विनाशो निशाक्षयस्तस्मिन् । रात्र्यन्ते ह्रिया लज्जयेव पाण्डुतां श्वेतत्वं याति प्राप्नोति । किं कृत्वा — निशासु रात्रिषु सितेषु श्वेतवर्णेषु हर्म्येषु अर्थात् सुधाधवलितेषु गृहोपरिभागेषु योषितां स्त्रीणां मुखानि वक्त्राणि विलोक्य दृष्ट्वा । किंभूतानि मुखानि — निर्यन्त्रणं यन्त्रणमर्गलाच्छादनादि तद्रहितं यथा भवति तथा । सुखप्रसुप्तानि सुखेन प्रसुप्तानि सुप्तामवस्थां गतानि सुखप्रसुप्तानि तानि । किंभूतश्चन्द्रः — उत्सुकः जेतुमुद्यतः । अन्योऽपि कमपि जेतुमुत्कण्ठितः पश्चात्तस्य गुणाधिक्यं विलोक्य विच्छायत्वं प्राप्नोतिति । किंतु चन्द्रादपि स्त्रीमुखानि निशान्तेषु सुन्दराणि लगन्तीति भावः ॥
चन्द्रिकाटीका (मणिरामः):
सितेष्विति ॥ चन्द्रमा निशासु रात्रिषु सितेषु धवलेषु हर्म्येषु प्रासादेषु योषितां स्त्रीणां सुखेन प्रसुप्तानि निद्रितानि मुखानि वदनानि चिरं चिरकालं विलोक्यावलोक्यभृशमत्युत्सुक उत्कण्ठितः सन्निशाक्षये रात्रिक्षये ह्रियेव लज्जयेव पाण्डुतां पाण्डुरतां याति गच्छति । नूनमिति वितर्के ॥
Morphemic Decomposition & Padaccheda
सितेषु
सित [adj]
हर्म्येषु
हर्म्य [n]
निशासु
निशा [f]
योषितां
योषित् [f]
सुखप्रसुप्तानि
सुख [n]
सुखप्रसुप्तानि
प्रस्वप् [2. Ā.]
मुखानि
मुख [n]
चन्द्रमाः
चन्द्रमस् [m]
विलोक्य
विलोकय् [10. Ā.]
नूनं
नूनम् [ind]
भृशम्
भृशम् [ind]
उत्सुकश्चिरं
उत्सुक [adj]
उत्सुकश्चिरं
चिरम् [ind]
निशाक्षये
निशा [f]
निशाक्षये
क्षय [m]
याति
या [2. Ā.]
ह्रियेव
ह्री [f]
ह्रियेव
इव [ind]
पाण्डुताम्
पाण्डुता [f]
असह्यवातोद्धतरेणुमण्डला प्रचण्डसूर्यातपतापिता मही । न शक्यते द्रष्टुमपि प्रवासिभिः प्रियावियोगानलदग्धमानसैः ॥
व्याख्या / Traditional Commentary & Notes
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः):
असह्येति ॥ मही प्रवासिभिः पान्थैर्द्रष्टुमपिन शक्यते न समर्थैर्भूयते । किंभूता मही — असह्यवातोद्धतरेणुमण्डला । असह्यो योऽसौ वातः असह्यवातः तेनोद्गतानि उच्छालितानि रेणुमण्डलानि रजः पूराणि यस्यां सा । पुनः किंभूता मही — प्रचण्डो रौद्रो योऽसौ सूर्यातपस्तेन तापिता तथा । किंभूतैः प्रवासिभिः — प्रियायाः स्त्रीयाया योऽसौ वियोगो विरहः स एवानलोऽग्निस्तेन दग्धं मानसं येषां ते तथा तैः । अनेन प्रवासिनामत्यन्ताप्रीतिकरोऽयमिति सूचितम् ॥
चन्द्रिकाटीका (मणिरामः):
असह्येति ॥ प्रियावियोगः कान्तावियोगः स एवानलोऽग्निस्तेन दग्धं भस्मीभूतं मानसमन्तःकरणं येषां तैस्तथोक्तैः प्रवासिभिर्विदेशवासिभिरसह्यः सोढुमशक्यो यो वातो वायुस्तेनोद्धतमूर्ध्वं क्षिप्तं रेणुमण्डलं यस्याः सा तथोक्ता । प्रचण्ड उग्रो यः सूर्यस्य तरणेरातपः उष्णं तेन तापिता सन्तापिता मही पृथ्वी द्रष्टुमपि न शक्यते गन्तुं न शक्यत इत्यत्र किं वक्तव्यमित्यर्थः ॥
Morphemic Decomposition & Padaccheda
असह्यवातोद्धतरेणुमण्डला
असह्य [adj]
असह्यवातोद्धतरेणुमण्डला
वात [m]
असह्यवातोद्धतरेणुमण्डला
उद्धन् [1. P.]
असह्यवातोद्धतरेणुमण्डला
रेणु [mn]
असह्यवातोद्धतरेणुमण्डला
मण्डल [mfn]
प्रचण्डसूर्यातपतापिता
प्रचण्ड [adj]
प्रचण्डसूर्यातपतापिता
सूर्य [m]
प्रचण्डसूर्यातपतापिता
आतप [m]
प्रचण्डसूर्यातपतापिता
तापय् [10. Ā.]
मही
मही [f]
न
न [ind]
शक्यते
शक् [4. P.]
द्रष्टुमपि
दृश् [6. P.]
द्रष्टुमपि
अपि [ind]
प्रवासिभिः
प्रवासिन् [adj]
प्रियावियोगानलदग्धमानसैः
प्रिया [f]
प्रियावियोगानलदग्धमानसैः
वियोग [m]
प्रियावियोगानलदग्धमानसैः
अनल [m]
प्रियावियोगानलदग्धमानसैः
दह् [2. P.]
प्रियावियोगानलदग्धमानसैः
मानस [n]
मृगाः प्रचण्डातपतापिता भृशं तृषा महत्या परिशुष्कतालवः । वनान्तरे तोयमिति प्रधाविता निरीक्ष्य भिन्नाञ्जनसंनिभं नभः ॥
व्याख्या / Traditional Commentary & Notes
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः):
मृगाः प्रचण्डेति ॥ मृगा वनान्तरे वनमध्ये भिन्नाञ्जनसन्निभं भिन्नं द्विधाकृतञ्च तदञ्जनञ्च भिन्नाजनं तेन सन्निभं सदृशं तथा तन्नभ आकाशप्रदेशं निरीक्ष्य दृष्ट्वा तोयमिति एतत्तोयं जलमस्तीति निश्चित्य प्रधाविताः । किंभूताः मृगाः — भृशमित्यर्थं प्रचण्डातपतापिताः प्रचण्डो रौद्रो योऽसावातपः प्रचण्डातपस्तेन तापिताः । पुनः किंभूताः मृगाः — महत्याऽतिवृद्धिं प्राप्तया तृषा कृत्वा परिशुष्कतालवः परिशुष्काणि तालूनि येषां ते तथा । अनेन मृगाणामप्ययं कालो दुःसहः किंपुनः कामिनामिति सूचितम् ॥
चन्द्रिकाटीका (मणिरामः):
मृगा इति ॥ भृशमत्यन्तं प्रचण्डस्तीक्ष्णतरो य आतपः उष्णं तेन तापिताः सन्तापिताः । महत्या तृषा पिपासया परिशुष्काः संशुष्कास्तालवो येषां ते तथोक्ता मृगा हरिणा भिन्नेनाञ्जनेन सन्निभं तुल्यं नभ आकाशं निरीक्ष्य वीक्ष्य तोयं जलमिति शङ्कया वनान्तरेऽन्यद्वने प्रधाविता दुद्रुवुः ॥
Morphemic Decomposition & Padaccheda
मृगाः
मृग [m]
प्रचण्डातपतापिता
प्रचण्ड [adj]
प्रचण्डातपतापिता
आतप [m]
प्रचण्डातपतापिता
तापय् [10. Ā.]
भृशं
भृशम् [ind]
तृषा
तृष् [f]
महत्या
महत् [adj]
परिशुष्कतालवः
परिशुष्क [n]
परिशुष्कतालवः
तालु [mn]
वनान्तरे
वन [n]
वनान्तरे
अन्तर [n]
तोयमिति
तोय [n]
तोयमिति
इति [ind]
प्रधाविता
प्रधाव् [1. Ā.]
निरीक्ष्य
निरीक्षय् [10. P.]
भिन्नाञ्जनसंनिभं
भिन्नाञ्जन [n]
भिन्नाञ्जनसंनिभं
संनिभ [adj]
नभः
नभस् [n]
सविभ्रमैः सस्मितजिह्मवीक्षितैर्विलासवत्यो मनसि प्रवासिनाम् । अनङ्गसंदीपनमाशु कुर्वते यथा प्रदोषाः शशिचारुभूषणाः ॥
व्याख्या / Traditional Commentary & Notes
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः):
सविभ्रमैरिति ॥ विलासवत्यो विलासो विद्यते यासां ता विलासवत्यो नार्य आशु शीघ्रं सविभ्रमैर्भ्रूविलाससहितैः सस्मितजिह्मं सहास्यकुटिलं यथा स्थात्तथा ईक्षितैर्दर्शनैः कृत्वा प्रसङ्गिनां स्त्रीणां प्रकर्षेण सङ्गः संयोगोऽस्त्येषामिति प्रसङ्गिनस्तेषाम् अर्थात् कामिनां मनसि चेतस्यनङ्गसन्दीपनं कामोद्दीप्तिं कुर्वते । क इव — यथा प्रदोषाः प्रसङ्गिनां मनसि अनङ्गसन्दीपनं कुर्वते । किंभूताः प्रदोषाः —शशी चन्द्र इव चारु मनोहरं भूषणं येषां ते तथा ॥
चन्द्रिकाटीका (मणिरामः):
सविभ्रमैरिति ॥ यथा शशिचारुभूषणः शश्येव चन्द्र एव चारु सुन्दर भूषणमेषां ते तथोक्ताः प्रदोषाः सन्ध्यासमयाः प्रवासिनां मन्स्यन्तःकरणेऽनङ्गसन्दीपनं कामसन्दीपनं कुर्वते । तथेत्यध्याहार्यम् । शशिचारुभूषणाः शशी चन्द्रस्तद्वच्चारुणि सुन्दराणि भूषणानि यासां तास्तथोक्ताः । विलासवत्यो विलासिन्यः सविभ्रमैर्विभ्रमसहितैः । सस्मितानि सहास्यानि जिह्यानि कुटिलानि वीक्षितानि निरीक्षणानि तैः कृत्वा प्रवासिनां मनस्याशु झटित्यनङ्गसन्दीपनं कामस्योद्दीपनं कुर्वत इत्यर्थः ॥
Morphemic Decomposition & Padaccheda
सविभ्रमैः
स [ind]
सविभ्रमैः
विभ्रम [m]
सस्मितजिह्मवीक्षितैर्
स [ind]
सस्मितजिह्मवीक्षितैर्
स्मित [n]
सस्मितजिह्मवीक्षितैर्
जिह्म [adj]
सस्मितजिह्मवीक्षितैर्
वीक्षित [n]
विलासवत्यो
विलासवत् [adj]
मनसि
मनस् [n]
प्रवासिनाम्
प्रवासिन् [adj]
अनङ्गसंदीपनमाशु
अनङ्ग [m]
अनङ्गसंदीपनमाशु
संदीपन [n]
अनङ्गसंदीपनमाशु
आशु [adj]
कुर्वते
कृ [2. Ā.]
यथा
यथा [ind]
प्रदोषाः
प्रदोष [m]
शशिचारुभूषणाः
शशिन् [m]
शशिचारुभूषणाः
चारु [adj]
शशिचारुभूषणाः
भूषण [n]
रवेर्मयूखैरभितापितो भृशं विदह्यमानः पथि तप्तपांसुभिः । अवाङ्मुखो जिह्मगतिः श्वसन्मुहुः फणी मयूरस्य तले निषीदति ॥
व्याख्या / Traditional Commentary & Notes
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः):
रवेर्मयूखैरिति ॥ फणी सर्पो मयूरस्य तले निषीदति तिष्ठति । कथंभूतः फणी — रवेः सूर्यस्य मयूखैः किरणैर्भृशमभितापितः सन्तापितः । पुनः किंभूतः फणी — पथि मार्गे तप्तांसुभिः तप्तरेणुभिर्विदह्यमानो विशेषेण दह्यमानः । पुनः किंभूतोऽवाक्फणः — अवाचोऽधोमुखाः फणा यस्य सोऽवाक्फणः । पुनः किंभूतो — जिह्मगतिः जिह्मा वक्रा मन्दा च गतिर्यस्य स जिह्मगतिः । `जिह्मो वक्रश्च मन्दश्च` । फणी मयूरेण सह स्वभावस्य वैरमपि न स्मरतीत्यर्थः ॥
चन्द्रिकाटीका (मणिरामः):
रवेरिति ॥ रवेः सूर्यस्य मयूखैः किरणैः । `किरणोऽस्रमयूखांशु गभस्तिघृणिरश्मयः` इत्यमरः (अ.को.1।3।37) । अभितापितः सन्तापितः। भृशमत्यन्तं पथि मार्गे तप्तपांसुभिरुष्णरजोभिर्विदह्यमानः अवाङ्मुखोऽधोमुखो जिह्मगतिः कुटिलगमनो मुहूर्वारं वारं श्वसञ्छ्वासोच्छ्वासं कुर्वन् फणी सर्पो मयूरस्य वर्हिणः । `मयूरो वर्हिणो वर्ही` इत्यमरः (अ.को.2।5।32) । तलेऽधोभागे निषीदत्यवतिष्ठत इत्यर्थः ॥
Morphemic Decomposition & Padaccheda
रवेर्मयूखैर्
रवि [m]
रवेर्मयूखैर्
मयूख [mn]
अभितापितो
अभितापय् [10. P.]
भृशं
भृशम् [ind]
विदह्यमानः
विदह् [4. Ā.]
पथि
पथिन् [m]
तप्तपांसुभिः
तप् [4. Ā.]
तप्तपांसुभिः
पांसु [m]
अवाङ्मुखो
अवाङ्मुख [adj]
जिह्मगतिः
जिह्म [adj]
जिह्मगतिः
गति [f]
श्वसन्मुहुः
श्वस् [1. Ā.]
श्वसन्मुहुः
मुहुर् [ind]
फणी
फणिन् [m]
मयूरस्य
मयूर [m]
तले
तल [mn]
निषीदति
निषद् [1. Ā.]
तृषा महत्या हतविक्रमोद्यमः श्वसन्मुहुर्दूरविदारिताननः । न हन्त्यदूरेऽपि गजान्मृगेश्वरो विलोलजिह्वश्चलिताग्रकेसरः ॥
व्याख्या / Traditional Commentary & Notes
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः):
तृषेति ॥ मृगाधिपः सिंहोऽदूरे समीपे गजान् हस्तिनो न हन्ति । किं भूतो मृगाधिपः — महत्याऽधिकतरया तृषा कृत्वा हृतो गतो विक्रमस्य पराक्रमस्योद्यमो यस्य सः अथवा विक्रमलक्षण उद्यमो यस्य सः । पुनः किंभूतः — मुहुवरिं वारं श्वसन् । पुनः किंभूतः — दूरविदारिताननः दूरमतिशयेन विदारितं प्रसारितं आननं मुखं येन सः । पुनः किंभूतः — विलोला चपला जिह्वा रसना यस्य सः । पुनः किंभूतः — स्खलिताग्रकेसरः स्खलिताश्चलिता अग्रकेसराः केसराग्राणि यस्य सः । ग्रीष्माधिक्यात् सिंहस्यापि पराक्रमः क्षीणत्वमापन्नः किं पुनः कामिनामिति भावः ॥
चन्द्रिकाटीका (मणिरामः):
तृषेति ॥ महत्या तृषा पिपासया हतो विक्रमस्य पराक्रमस्योद्यम उद्योगो यस्य स तथोक्तः । मुहुर्वारं वारं दूराद् विदारितं विस्तारितमाननं मुखं येन स तथोक्तः । विलोलजिह्वश्चलिताश्चञ्चला अग्रकेसरा अग्रसटा यस्य स तथोक्तो मृगेश्वरः सिंहः । `सिंहो मृगेन्द्रः पञ्चास्यः` इत्यमरः (अ.को.2।5।1) । अदूरेऽपि समीपे वर्तमानमिति शेषः । गजान् मातङ्गान् न हन्ति मारयतीत्यर्थः । न हि जायते स्वस्मिन् क्लेशिते परहनने प्रवृत्तिरिति भावः ॥
Morphemic Decomposition & Padaccheda
तृषा
तृष् [f]
महत्या
महत् [adj]
हतविक्रमोद्यमः
हन् [6. P.]
हतविक्रमोद्यमः
विक्रम [m]
हतविक्रमोद्यमः
उद्यम [m]
श्वसन्मुहुर्
श्वस् [1. Ā.]
श्वसन्मुहुर्
मुहुर् [ind]
दूरविदारिताननः
दूर [adj]
दूरविदारिताननः
विदारय् [10. Ā.]
दूरविदारिताननः
आनन [n]
न
न [ind]
हन्त्यदूरेऽपि
हन् [6. P.]
हन्त्यदूरेऽपि
अदूर [adj]
हन्त्यदूरेऽपि
अपि [ind]
गजान्मृगेश्वरो
गज [m]
गजान्मृगेश्वरो
मृगेश्वर [m]
विलोलजिह्वश्चलिताग्रकेसरः
विलोल [adj]
विलोलजिह्वश्चलिताग्रकेसरः
जिह्वा [f]
विलोलजिह्वश्चलिताग्रकेसरः
चल् [1. Ā.]
विलोलजिह्वश्चलिताग्रकेसरः
अग्र [n]
विलोलजिह्वश्चलिताग्रकेसरः
केसर [mn]
विशुष्ककण्ठोद्गतसीकराम्भसो गभस्तिभिर्भानुमतोऽनुतापिताः । प्रवृद्धतृष्णोपहता जलार्थिनो न दन्तिनः केसरिणोऽपि बिभ्यति ॥
व्याख्या / Traditional Commentary & Notes
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः):
विशुष्केति ॥ दन्तिनो गजाः केसरिणः सिंहादपि न बिभ्यति भयं न प्राप्नुवन्ति । किंभूता दन्तिनाः — विशुष्को योऽसौ कण्ठस्तस्मदाहृतानि आकृष्टानि अम्भसः शीकराणि शीकराम्भांसि शुण्डान्तःस्थलजललवा यैस्ते । `वमधुः करशीकरः` इति हैमः । पुनः किंभूताः — भानुमतः सूर्यस्यगभस्तिभिः किरणैरभितापिताः अभि समन्तात् तापिताः। पुनः — प्रवृद्धा वृद्धिं प्राप्ता या तृष्णा तयोपहता निरुद्योगाहतप्रायाः प्रवृद्धतृष्णोपहताः । पुनः किंभूतः — जलमर्थयन्ति याचयन्तीति जलार्थिनः । अनेन गजा अपि निस्तेजत्वात् सिंहान्नापसर्पन्तीति ग्रीष्मातिरेको वर्णितः ॥
चन्द्रिकाटीका (मणिरामः):
विशुष्केति ॥ विशुष्केण कण्ठेनाहृतं गृहीतं सीकराम्भस्तुषारजलं यैस्ते तथोक्ता भानुमतः किरणमालिनः सूर्यस्य गभस्तिभी रश्मिभिरनुतापिताः सन्तापिताः । प्रवृद्धतृष्णयात्यधिकपिपासयोपहताः पीडिताः । अतएव जलार्थिना जलकाङ्क्षिणो दन्तिनो गजाः केसरिणोऽपि सिंहादपि न बिभ्यति भयं न प्राप्नुवन्तीत्यर्थः ॥
Morphemic Decomposition & Padaccheda
विशुष्ककण्ठोद्गतसीकराम्भसो
विशुष्क [adj]
विशुष्ककण्ठोद्गतसीकराम्भसो
कण्ठ [m]
विशुष्ककण्ठोद्गतसीकराम्भसो
उद्गम् [6. P.]
विशुष्ककण्ठोद्गतसीकराम्भसो
सीकर [m]
विशुष्ककण्ठोद्गतसीकराम्भसो
अम्भस् [n]
गभस्तिभिर्
गभस्ति [m]
भानुमतो
भानुमन्त् [m]
ऽनुतापिताः
अनुतापय् [10. P.]
प्रवृद्धतृष्णोपहता
प्रवृध् [1. Ā.]
प्रवृद्धतृष्णोपहता
तृष्णा [f]
प्रवृद्धतृष्णोपहता
उपहन् [2. P.]
जलार्थिनो
जल [n]
जलार्थिनो
अर्थिन् [adj]
न
न [ind]
दन्तिनः
दन्तिन् [m]
केसरिणोऽपि
केसरिन् [m]
केसरिणोऽपि
अपि [ind]
बिभ्यति
भी [1. Ā.]
हुताग्निकल्पैः सवितुर्गभस्तिभिः कलापिनः क्लान्तशरीरचेतसः । न भोगिनं घ्नन्ति समीपवर्तिनं कलापचक्रेषु निवेशिताननम् ॥
व्याख्या / Traditional Commentary & Notes
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः):
हुता ॥ कलापिनो मयूरा भोगिनं सर्पं न घ्नन्ति । किं भूताः कलापिनः — सवितुः सूर्यस्य मरीचिभिरुस्रैः क्लान्तं खेदोपहतं शरीरस्य चेतो येषां ते तथा । किं भूतैः मरीचिभिः — हुताग्निकल्पैः हुतश्चासावग्निश्च हुताग्निः ईषद्धुताग्निवदिति हुताग्निकल्पास्तैः । ईषदपरिसमाप्तौ कल्पब्देश्यदेशीयरः (पा. 5।3।67) हुतो योऽसौ अग्निर्हुताग्निस्तेन कल्पास्तुल्यास्तैः । किं भूतं भोगिनं — समीपे वर्तते यः सः समीपवर्ती तम् । पुनः — कलापचक्रेषु बहिर्मण्डलेषु निवेशितं स्थापितम् आननं येन तं निवेशिताननम् । अत्र मयूरा अपि हततेजसो जाता इत्यर्थः ॥
चन्द्रिकाटीका (मणिरामः):
हुताग्निकल्पैरिति ॥ सवितुः सूर्यस्य हुताग्निकल्पैर्हुतश्चसावग्निश्च तत्कल्पैस्तत्सदृशैः । तद्वदत्यन्तप्रचण्डैरिति यावत् । गभस्तिभिरंशुभिः क्लान्तं म्लानं शरीरं वपुश्चेतश्च येषां ते तथोक्ताः कलापिनो मयूराः कलापचक्रेषु बर्हमण्डलेषु निवेशितं प्रवेशितमाननं मुखं येन तत्तथोक्तं समीपवर्तिनं भोगिनं सर्गं न घ्नन्ति । न मारयन्तीत्यर्थः ॥
Morphemic Decomposition & Padaccheda
हुताग्निकल्पैः
हु [3. Ā.]
हुताग्निकल्पैः
अग्नि [m]
हुताग्निकल्पैः
कल्प [adj]
सवितुर्गभस्तिभिः
सवितृ [m]
सवितुर्गभस्तिभिः
गभस्ति [m]
कलापिनः
कलापिन् [m]
क्लान्तशरीरचेतसः
क्लम् [4. Ā.]
क्लान्तशरीरचेतसः
शरीर [n]
क्लान्तशरीरचेतसः
चेतस् [n]
न
न [ind]
भोगिनं
भोगिन् [m]
घ्नन्ति
हन् [6. P.]
समीपवर्तिनं
समीप [n]
समीपवर्तिनं
वर्तिन् [adj]
कलापचक्रेषु
कलाप [mn]
कलापचक्रेषु
चक्र [n]
निवेशिताननम्
निवेशय् [10. Ā.]
निवेशिताननम्
आनन [n]
सभद्रमुस्तं परिशुष्ककर्दमं सरः खनन्नायतपोतृमण्डलैः । रवेर्मयूखैरभितापितो भृशं वराहयूथो विशतीव भूतलम् ॥
व्याख्या / Traditional Commentary & Notes
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः):
सभद्रेति ॥ ॥ वराहयूथः वराहाणां शूकराणां यूथः समूहो भूतलं पृथ्वीतलं विशतीव प्रवेशं करोतीव । किं कुर्वन् । आयता दीर्घा ये पोतृमण्डला मुखाग्रमण्डलास्तथा तैः सरः खनन् । कथं भूतं सारः — सभद्रमुस्तम् । भद्रमुस्तेन गुन्द्रया सह वर्तते इति तत् । पुनः कथं भूतं — परि सामस्त्येन पाण्डुः श्वेतवर्णः अर्थाच्छुष्कः कर्दमो पङ्को यत्र तत् तथा तत् । कथं भूतः वराहयूथः — प्रदीप्ता सोढुमशक्या भाः कान्तिर्यस्य स प्रदीप्तभास्तेन रविणा सूर्येण अभितापितः ॥
चन्द्रिकाटीका (मणिरामः):
सभद्रेति ॥ भद्रमुस्तेन `भद्रमोथा` इति प्रसिद्धेन सहितं परिशुष्कः कर्दमः पङ्को यस्मिस्तत्तथोक्तं सरः सरोवरमायतानि दीर्घाणि यानि पोतृमण्डानि तैः कृत्वा खनन् । खेः सूर्यस्य मयूखैः किरणैभृशंअत्यन्तमभितापितः सन्तापितो वराहयूथः सूकर समूहः । `वराहः सूकरो धृष्टिः` इत्यमरः (अ.को.2।5।3) । भूतलं भूगर्भं विशतौव प्रविशतीवेत्युतप्रेक्षा ॥
Morphemic Decomposition & Padaccheda
सभद्रमुस्तं
सभद्रमुस्त [adj]
परिशुष्ककर्दमं
परिशुष्क [n]
परिशुष्ककर्दमं
कर्दम [mn]
सरः
सरस् [n]
खनन्न्
खन् [2. P.]
आयतपोतृमण्डलैः
आयम् [6. P.]
आयतपोतृमण्डलैः
पोतृ [m]
आयतपोतृमण्डलैः
मण्डल [mfn]
रवेर्मयूखैरभितापितो
रवि [m]
रवेर्मयूखैरभितापितो
मयूख [mn]
रवेर्मयूखैरभितापितो
अभितापय् [10. P.]
भृशं
भृशम् [ind]
वराहयूथो
वराह [m]
वराहयूथो
यूथ [mn]
विशतीव
विश् [4. P.]
विशतीव
इव [ind]
भूतलम्
भू [f]
भूतलम्
तल [mn]
विवस्वता तीक्ष्णतरांशुमालिना सपङ्कतोयात्सरसोऽभितापितः । उत्प्लुत्य भेकस्तृषितस्य भोगिनः फणातपत्रस्य तले निषीदति ॥
व्याख्या / Traditional Commentary & Notes
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः):
विवस्वता ॥ भेको मण्डूकस्तृषितस्य तृषाकान्तस्य भोगिनः सर्पस्य फणातपत्रस्य फणैवातपत्रं छत्रं फणातपत्रं तस्य तले निषीदत्युपविशति । किं कृत्वा — सरसतडागादुत्प्लुतस्य निःसृत्य । किं विशिष्टात् सरसः — हि निश्चयं विवस्वता सूर्येणसह्ययोयात् असह्यं सोढुमशक्यम् अर्थात् तप्तं तोयं यस्य तत् तथा तस्मात् । किं भूतेन विवस्वता — तीक्ष्णतरांशुमालिना । अतिशयेन तीक्ष्णग्रीष्मत्वात् तीव्रा येऽंशवः किरणास्तीक्ष्णतरांशवस्तान् मलते धारयतीति तथा तेन । मल मल्लधारणे धातुः (भ्वादि 494-495) । कथं भूतो भेकोऽभितापितो विवस्वतेत्यनुवर्त्तनीयम् । अनेन घर्म्मेबाहूल्यं सूचितम् ॥
चन्द्रिकाटीका (मणिरामः):
विवस्वतेति ॥ तीक्ष्णतरैः प्रचण्डतरैरंशुभिः किरणैर्मलिते शोभते तथोक्तेन विवस्वता सूर्येणाभितापितो भेको मण्डूकः । `भेको मण्डूकवर्षाभूः` इत्यमरः (अ.को.1।10।24) । पङ्कतोयेन कर्दमजलेन सहितं युक्तं तस्मात् तथोक्तात् सरसः सरोवरादुत्प्लुतस्य तृषितस्य भोगिनः पन्नगस्य । `डरगः पन्नगो भोगी` इत्यमरः (अ.को.1।8।8) । फणैवातपत्रं छत्रं तस्य तलेऽधोभागे निषीदति । तिष्ठतीत्यर्थः ।
Morphemic Decomposition & Padaccheda
विवस्वता
विवस्वन्त् [m]
तीक्ष्णतरांशुमालिना
तीक्ष्णतर [adj]
तीक्ष्णतरांशुमालिना
अंशु [m]
तीक्ष्णतरांशुमालिना
मालिन् [adj]
सपङ्कतोयात्
स [ind]
सपङ्कतोयात्
पङ्क [mn]
सपङ्कतोयात्
तोय [n]
सरसो
सरस् [n]
ऽभितापितः
अभितापय् [10. P.]
उत्प्लुत्य
उत्प्लु [1. P.]
भेकस्तृषितस्य
भेक [m]
भेकस्तृषितस्य
तृषित [adj]
भोगिनः
भोगिन् [m]
फणातपत्रस्य
फण [m]
फणातपत्रस्य
आतपत्र [n]
तले
तल [mn]
निषीदति
निषद् [1. Ā.]
समुद्धृताशेषमृणालजालकं विपन्नमीनं द्रुतभीतसारसम् । परस्परोत्पीडनसंहतैर्गजैः कृतं सरः सान्द्रविमर्दकर्दमम् ॥
व्याख्या / Traditional Commentary & Notes
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः):
समुद्धृतेति ॥ गजैर्हस्तिभिः सरः तडागः सान्द्रः सघनो विमर्देनावगाहेन कर्दमो यत्र तदीदृशं तत् कृतम् । किं भूतं सरः — समुद्धतान्युत्पातितान्यशेषमृणालानां समस्तकमलतन्तूनां जालकानि समूहानि यस्मात् तत् । पुनः किं भूतं — विपन्ना स्वेदखिन्ना उपविष्टा वा मीना यत्र तद्विपन्नमीनं । अद्भुतवीतासारसं निषन्नमीनं च तदद्भुतवीतरारसञ्च तत् । किंभूतैर्गजैः — परस्परमुत्पीडनेन संहता एकत्रीभूताः परस्परोत्पीडनसंहतास्तैः ॥
चन्द्रिकाटीका (मणिरामः):
समुद्धृतेति ॥ समुद्धृतं निष्कासितमशेषं सम्पूर्णं मृणालजालकं विससमूहो यस्मात् तत् तथोक्तं विपन्नमीनं समापन्नमीनं । द्रुताः पलायिता भीताश्च ते सारसाश्च यस्मात् तत् तथोक्तं सरः सरोवरं परस्परोत्पीडने संहतैः संलग्नैर्गजैः सान्द्रो निविडो विमर्दः सङ्ग्रामः कर्दम: पङ्कश्च यस्मिन् तत् तथा । यद्वा सान्द्रो निविडो विमर्देन सङ्ग्रामेण कर्दमः पङ्को यस्मिन् तत् तथाभूतमित्यर्थः ॥
Morphemic Decomposition & Padaccheda
समुद्धृताशेषमृणालजालकं
समुद्धृ [2. P.]
समुद्धृताशेषमृणालजालकं
अशेष [m]
समुद्धृताशेषमृणालजालकं
मृणाल [mn]
समुद्धृताशेषमृणालजालकं
जालक [n]
विपन्नमीनं
विपद् [4. P.]
विपन्नमीनं
मीन [m]
द्रुतभीतसारसम्
द्रु [1. Ā.]
द्रुतभीतसारसम्
भी [1. Ā.]
द्रुतभीतसारसम्
सारस [m]
परस्परोत्पीडनसंहतैर्गजैः
परस्पर [adj]
परस्परोत्पीडनसंहतैर्गजैः
उत्पीडन [n]
परस्परोत्पीडनसंहतैर्गजैः
संहन् [2. P.]
परस्परोत्पीडनसंहतैर्गजैः
गज [m]
कृतं
कृ [2. Ā.]
सरः
सरस् [n]
सान्द्रविमर्दकर्दमम्
सान्द्र [adj]
सान्द्रविमर्दकर्दमम्
विमर्द [m]
सान्द्रविमर्दकर्दमम्
कर्दम [mn]
रविप्रभोद्भिन्नशिरोमणिप्रभो विलोलजिह्वाद्वयलीढमारुतः । विषाग्निसूर्यातपतापितः फणी न हन्ति मण्डूककुलं तृषाकुलः ॥
व्याख्या / Traditional Commentary & Notes
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः):
रवीति ॥ फणी सपा मण्डूककुलं मण्डूकानां कुलं वंशतस्तं न हन्ति। किंभूतः फणी — रवेः सूर्यस्य प्रभा कान्तिस्तयोद्भिन्ना उत्प्राबल्येन भिन्ना भेदं प्राप्ता शिरोमणिप्रभा शिरस्थमणिप्रभा यस्य स तथा । पुनः किं भूतः — विलोलं चपलञ्च तज्जिह्वाद्वयं च विलोलजिह्वाद्वयं तेन लीढः आस्वादितो मारुतो वायुर्येन सः। पुनः किंभूतः — विषवत्तीव्रोऽग्निर्बहूष्णो योऽसौ सूर्यातपस्तेन तापितः । पुनः किंभूतः — तृषा तृष्णयाकुलो व्याप्तः । अनेनातिघर्माधिक्यं सुचितम् ॥
चन्द्रिकाटीका (मणिरामः):
रवीति ॥ रविप्रभया सूर्यकान्त्योद्भिन्ना निर्गता शिरोमणेर्मूर्धन्यमणेः प्रभा कान्तिर्यस्य स तथोक्तः । विलोलेन चञ्चलेन जिह्वाद्वयेन लीढ आलीढो मारुतः पवनो येन स तथोक्तः । विषाग्निसूर्यातपतापितो विषं गरलमग्निर्दावानलः सूर्यातप उष्णं तैस्तापितोऽत एव तृषाकुलः फणी सर्पो मण्डूककुलं भेकसमूहं न हन्ति न मारयतीत्यर्थः ॥
Morphemic Decomposition & Padaccheda
रविप्रभोद्भिन्नशिरोमणिप्रभो
रवि [m]
रविप्रभोद्भिन्नशिरोमणिप्रभो
प्रभा [f]
रविप्रभोद्भिन्नशिरोमणिप्रभो
उद्भिद् [7. Ā.]
रविप्रभोद्भिन्नशिरोमणिप्रभो
शिरोमणि [m]
रविप्रभोद्भिन्नशिरोमणिप्रभो
प्रभा [f]
विलोलजिह्वाद्वयलीढमारुतः
विलोल [adj]
विलोलजिह्वाद्वयलीढमारुतः
जिह्वा [f]
विलोलजिह्वाद्वयलीढमारुतः
द्वय [n]
विलोलजिह्वाद्वयलीढमारुतः
लिह् [4. P.]
विलोलजिह्वाद्वयलीढमारुतः
मारुत [m]
विषाग्निसूर्यातपतापितः
विषाग्नि [m]
विषाग्निसूर्यातपतापितः
सूर्य [m]
विषाग्निसूर्यातपतापितः
आतप [m]
विषाग्निसूर्यातपतापितः
तापय् [10. Ā.]
फणी
फणिन् [m]
न
न [ind]
हन्ति
हन् [6. P.]
मण्डूककुलं
मण्डूक [m]
मण्डूककुलं
कुल [n]
तृषाकुलः
तृषा [f]
तृषाकुलः
आकुल [adj]
सफेनलालावृतवक्त्रसम्पुटं विनिःसृतालोहितजिह्वमुन्मुखम् । तृषाकुलं निःसृतमद्रिगह्वरादवेक्षमाणं महिषीकुलं जलम् ॥
व्याख्या / Traditional Commentary & Notes
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः):
सफेनेति ॥ महिष्याः कुलं महिषीकुलमदिग्रह्वरात् । अर्द्रेः पर्वतस्य गह्वरः कन्दरा तस्मान्निःसृतं निर्गतं । किं भूतं महिषीकुलम् — सफेनञ्च तल्लालाकुलञ्च सफेनलालाकुलमीदृशं वक्त्रसम्पुटं मुखसङ्कोचं सम्पुटं यस्य तत् । पुनः किंभूतम् — विनिर्याता मुखाद् बहिर्निर्गता आ समन्तात् लोहिता रक्ता जिह्वा यस्य तत् । पुनः किंभूतम् — उन्मुखं उद् ऊर्ध्वीकृतं मुखं येन तत् । पुनः — तृषा तृष्णया आकुलं व्याप्तं । पुनः किं — जलमवेक्षमाणम् अवेक्षते इत्यवेक्ष्यमाणम् । वंशस्थवृत्तानीमानि। तल्लक्षणं — `जतौ तु वंशस्थ मुदीरितं जरौ ॥
चन्द्रिकाटीका (मणिरामः):
सफेनेति ॥ सफेनं लोलं चञ्चलमायतं दीर्घं, वक्त्रसम्पुटं मुखसम्पुटं यस्य तत् तथोक्तम् । विनिःसृता निर्गता आसमन्ताल्लोहिता रक्ता जिह्वा यस्य तत् तथोक्तमुन्मुखमूर्ध्वमुखम् तृषा पिपासमाकुलं व्याकुलमतएव जलं सलिलमवेक्ष्यमाणं निरीक्षमाणं महिषीकुलमद्रिगह्वराद् गिरिगह्वरान्निःसृतं निर्गलमित्यर्थः । `अद्रिगोत्रगिरिर्ग्रावा` इत्यमरः (अ.को.2।3।1)
Morphemic Decomposition & Padaccheda
सफेनलालावृतवक्त्रसम्पुटं
सफेन [adj]
सफेनलालावृतवक्त्रसम्पुटं
लाला [f]
सफेनलालावृतवक्त्रसम्पुटं
आवृ [5. Ā.]
सफेनलालावृतवक्त्रसम्पुटं
वक्त्र [n]
सफेनलालावृतवक्त्रसम्पुटं
सम्पुट [mn]
विनिःसृतालोहितजिह्वमुन्मुखम्
विनिःसृ [1. Ā.]
विनिःसृतालोहितजिह्वमुन्मुखम्
आलोहित [adj]
विनिःसृतालोहितजिह्वमुन्मुखम्
जिह्वा [f]
विनिःसृतालोहितजिह्वमुन्मुखम्
उन्मुख [adj]
तृषाकुलं
तृषा [f]
तृषाकुलं
आकुल [adj]
निःसृतमद्रिगह्वरादवेक्षमाणं
निःसृ [1. Ā.]
निःसृतमद्रिगह्वरादवेक्षमाणं
अद्रि [m]
निःसृतमद्रिगह्वरादवेक्षमाणं
गह्वर [n]
निःसृतमद्रिगह्वरादवेक्षमाणं
अवेक्ष् [1. P.]
महिषीकुलं
महिषी [f]
महिषीकुलं
कुल [n]
जलम्
जल [n]
पटुतरदवदाहोच्छुष्कसस्य प्ररोहाः परुषपवनवेगोत्क्षिप्तसंशुष्कपर्णाः । दिनकरपरितापक्षीणतोयाः समन्ताद्विदधति भयमुच्चैर्वीक्ष्यमाणा वनान्ताः ॥
व्याख्या / Traditional Commentary & Notes
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः):
पटुतरेति ॥ वनानामन्ताः वनान्ताः प्रान्ता वीक्ष्यमाणाः सन्तः उच्चैरतिशयेन भयं विदधति भयं कुर्वन्तीत्यर्थः । किं भूताः वनान्ताः — पटुतरोऽधिको योऽसौ दवदाहो दवाग्निसम्बन्धी दाहस्तेन प्लुष्टा दग्धाः सस्यानां शष्पाणां प्ररोहा येषु ते । पुनः किं भूताः — परुषः कठोरो योऽसौ पवनो वायुस्तस्य वेगाधिक्यं तेनोत्क्षिप्तानि उच्छालितानि शुष्कपर्णानि येषां ते । पुनः किं भूताः — समन्तात् सर्वथा दिनकरस्य सूर्यस्य परितापः तस्मात् क्षीणानि स्वल्पीभूतानि शुष्काणि वा तोयानि येषु ते ॥
चन्द्रिकाटीका (मणिरामः):
पटुतरेति ॥ पटुतरोऽतिसमर्थो यो दवो दावस्तस्य दावोच्छुष्काः दहनोच्छुष्काः सस्यप्ररोहाः सस्याङ्कुरा येषु ते तथोक्ताः । परुषो निष्ठुरो यः पवनो वायुस्तस्य वेगेनोत्क्षिप्तान्युर्ध्वक्षिप्तानि संशुष्कानि पर्णानि पत्राणि येषु ते तथोक्ताः । समन्तादितस्ततो दिनकरस्य परितापेनातपेन क्षीणानि तोयानि येषु ते तथोक्ताः उच्चैरुच्चप्रदेशतो वीक्ष्यमाणा अवलोक्यमाना वनान्ता अरण्यप्रान्ता भयं विदधतीत्यर्थः । मालिनीवृत्तमेतत् । तल्लक्षणं तु `ननमययुतेयं मालिनी भोगिर्लोकैः` इति ॥
Morphemic Decomposition & Padaccheda
पटुतरदवदाहोच्छुष्कसस्यप्ररोहाः
पटुतर [adj]
पटुतरदवदाहोच्छुष्कसस्यप्ररोहाः
दव [m]
पटुतरदवदाहोच्छुष्कसस्यप्ररोहाः
दाह [m]
पटुतरदवदाहोच्छुष्कसस्यप्ररोहाः
उच्छुष्क [adj]
पटुतरदवदाहोच्छुष्कसस्यप्ररोहाः
सस्य [mn]
पटुतरदवदाहोच्छुष्कसस्यप्ररोहाः
प्ररोह [m]
परुषपवनवेगोत्क्षिप्तसंशुष्कपर्णाः
परुष [adj]
परुषपवनवेगोत्क्षिप्तसंशुष्कपर्णाः
पवन [m]
परुषपवनवेगोत्क्षिप्तसंशुष्कपर्णाः
वेग [m]
परुषपवनवेगोत्क्षिप्तसंशुष्कपर्णाः
उत्क्षिप् [6. P.]
परुषपवनवेगोत्क्षिप्तसंशुष्कपर्णाः
संशुष्क [adj]
परुषपवनवेगोत्क्षिप्तसंशुष्कपर्णाः
पर्ण [mn]
दिनकरपरितापक्षीणतोयाः
दिनकर [m]
दिनकरपरितापक्षीणतोयाः
परिताप [m]
दिनकरपरितापक्षीणतोयाः
क्षि [9. Ā.]
दिनकरपरितापक्षीणतोयाः
तोय [n]
समन्ताद्विदधति
समन्तात् [ind]
समन्ताद्विदधति
विधा [3. Ā.]
भयमुच्चैर्
भय [n]
भयमुच्चैर्
उच्चैस् [ind]
वीक्ष्यमाणा
वीक्ष् [4. P.]
वनान्ताः
वनान्त [m]
श्वसिति विहगवर्गः शीर्णपर्णद्रुमस्थः कपिकुलमुपयाति क्लान्तमद्रेर्निकुञ्जम् । भ्रमति गवययूथः सर्वतस्तोयमिच्छञ्शरभकुलमजिह्मं प्रोद्धरत्यम्बु कूपात् ॥
व्याख्या / Traditional Commentary & Notes
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः):
श्वसितीति ॥ विहगवर्गः विहगानां वर्गः पक्षिणां वर्गः । सजातीयसमूहो वर्गः। शीर्णानि पतितानि पर्णानि येषां ते एवंविधा ये द्रुमा वृक्षास्तेषामन्तर्मध्ये वसति । पुनः क्लान्तं खेदखिन्नं कपिकुलं कपीनां वानराणां कुलं कपिकुलम् । अर्द्रेः पर्व्तस्य निकुञ्जं वनमुपयाति वनं गच्छतीत्यर्थः । पुनर्गवयानामरण्यगवानां युथः समूहस्तोयं जलमिच्छन् सन् । सर्वतः सर्वस्यां दिशि भ्रमति । पुनः शरभाणामष्टापदजीवानां कुलमजिह्मं कुटिलं यथा स्यात् तथा कूपादम्बु पानीयं प्रोद्धरति निष्कासयतीत्यर्थः ॥
चन्द्रिकाटीका (मणिरामः):
श्वसितीति ॥ शीर्णानि गलितानि पर्णानि पत्राणि यस्य स तादृशो यो द्रुमो वृक्षस्तत्र तिष्ठतीति स तथोक्तो विहगवर्गः पक्षिसमुदायः। श्वसिति श्वासोच्छ्वासं करोति । क्लान्तं म्लानं कपिकुलं वानरसमूहोऽर्द्रेः पर्वतस्य निकुञ्जं लतागृहम् । `निकुञ्जकुञ्जौ वा क्लीवे` इत्यमरः (अ.को.2।3।9) । उपयाति गच्छतीत्यर्थः । गवया गोसदृशमृगविशेषास्तेषां यूथः समुदायस्तोयं जलमिच्छन् सर्वत इतस्ततो भ्रमति । अजिह्मकुटिलं शरभानां कुलं शरभा अषटटापदपशुविशेषास्तेषां कुलं समुदायः कूपादम्बु जलं प्रोद्धरति गृह्णातीत्यर्थः ॥
Morphemic Decomposition & Padaccheda
श्वसिति
श्वस् [1. Ā.]
विहगवर्गः
विहग [m]
विहगवर्गः
वर्ग [m]
शीर्णपर्णद्रुमस्थः
शृ [9. Ā.]
शीर्णपर्णद्रुमस्थः
पर्ण [mn]
शीर्णपर्णद्रुमस्थः
द्रुम [m]
शीर्णपर्णद्रुमस्थः
स्थ [adj]
कपिकुलमुपयाति
कपि [m]
कपिकुलमुपयाति
कुल [n]
कपिकुलमुपयाति
उपया [2. P.]
क्लान्तमद्रेर्
क्लम् [4. Ā.]
क्लान्तमद्रेर्
अद्रि [m]
निकुञ्जम्
निकुञ्ज [m]
भ्रमति
भ्रम् [4. Ā.]
गवययूथः
गवय [m]
गवययूथः
यूथ [mn]
सर्वतस्तोयमिच्छञ्शरभकुलमजिह्मं
सर्वतस् [ind]
सर्वतस्तोयमिच्छञ्शरभकुलमजिह्मं
तोय [n]
सर्वतस्तोयमिच्छञ्शरभकुलमजिह्मं
इष् [1. P.]
सर्वतस्तोयमिच्छञ्शरभकुलमजिह्मं
शरभ [m]
सर्वतस्तोयमिच्छञ्शरभकुलमजिह्मं
कुल [n]
सर्वतस्तोयमिच्छञ्शरभकुलमजिह्मं
अजिह्म [adj]
प्रोद्धरत्यम्बु
प्रोद्धृ [1. P.]
प्रोद्धरत्यम्बु
अम्बु [n]
कूपात्
कूप [mn]
विकचनवकुसुम्भस्वच्छसिन्दूरभासा प्रबलपवनवेगोद्भूतवेगेन तूर्णम् । तटविटपलताग्रालिङ्गनव्याकुलेन दिशि दिशि परिदग्धा भूमयः पावकेन ॥
व्याख्या / Traditional Commentary & Notes
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः):
विकचेति ॥ पावकेन दवाग्निना दिशि दिशि भूमयः परि सामस्त्येन दग्धाः परिदग्धाः । किंभूतेन पावकेन — विकचं विकसितं यन्नवं नूतनं कुसुम्भं पुनर्यत् स्वच्छं निर्मलं सिन्दूरं तद्वद् भाः कान्तिर्यस्य तेन । पुनः किं भूतेन — तूर्णं शीघ्रम् प्रबलो योऽसौ पवनस्तेनोद्धूतः प्रकटितो वेगो यस्य तेन । पुनः किं भूतेन — तनवः कृशाः सुक्ष्माः विकचाः विकस्वराश्च ये लताग्रा लतानामग्रप्रदेशाश्च तनुविकचलताग्रास्तेषामालिङ्गनं तत्र व्याकुलस्तेन । `तरुविटपलता` इति वा पाठः । तत्र तरुणां विटपाः शाखाश्च लताग्राश्च तेषामालिङ्गनं तेन व्याकुलो भयकृत् तेन ॥
चन्द्रिकाटीका (मणिरामः):
विकचेति ॥ विकचः प्रफुल्लो नवो नूतनः कुसुम्भस्तद्वत् स्वच्छो निर्मलो यः सिन्दूरस्तस्य भा इव भाः कान्तिर्यस्य तेन तथोक्तेन । प्रबलस्य पवनस्य वेगेनोद्भूतः सम्भूतो वेगो यस्य तेन तथोक्तेन । तटविटपानां तीरस्थवृक्षशाखानां लताग्राणां चालिङ्गनेन परिरम्भणेन व्याकुल आकुलस्तेन तथोक्तेन पावकेन वह्निना दिशि दिशि प्रतिदिशं तूर्णं सत्वरं भूमयः परिदग्धाः संदग्धा इत्यर्थः ॥
Morphemic Decomposition & Padaccheda
विकचनवकुसुम्भस्वच्छसिन्दूरभासा
विकच [adj]
विकचनवकुसुम्भस्वच्छसिन्दूरभासा
नवन् [adj]
विकचनवकुसुम्भस्वच्छसिन्दूरभासा
कुसुम्भ [mn]
विकचनवकुसुम्भस्वच्छसिन्दूरभासा
स्वच्छ [adj]
विकचनवकुसुम्भस्वच्छसिन्दूरभासा
सिन्दूर [mn]
विकचनवकुसुम्भस्वच्छसिन्दूरभासा
भास् [fn]
प्रबलपवनवेगोद्भूतवेगेन
प्रबल [adj]
प्रबलपवनवेगोद्भूतवेगेन
पवन [m]
प्रबलपवनवेगोद्भूतवेगेन
वेग [m]
प्रबलपवनवेगोद्भूतवेगेन
उद्भू [1. P.]
प्रबलपवनवेगोद्भूतवेगेन
वेग [m]
तूर्णम्
तूर्णम् [ind]
तटविटपलताग्रालिङ्गनव्याकुलेन
तट [mn]
तटविटपलताग्रालिङ्गनव्याकुलेन
विटप [mn]
तटविटपलताग्रालिङ्गनव्याकुलेन
लता [f]
तटविटपलताग्रालिङ्गनव्याकुलेन
अग्र [n]
तटविटपलताग्रालिङ्गनव्याकुलेन
आलिङ्गन [fn]
तटविटपलताग्रालिङ्गनव्याकुलेन
व्याकुल [adj]
दिशि
दिश् [f]
दिशि
दिश् [f]
परिदग्धा
परिदह् [1. P.]
भूमयः
भूमि [f]
पावकेन
पावक [m]
ज्वलति पवनवृद्धः पर्वतानां दरीषु स्फुटति पटुनिनादैः शुष्कवंशस्थलीषु । प्रसरति तृणमध्ये लब्धवृद्धिः क्षणेन ग्लपयति मृगवर्गं प्रान्तलग्नो दवाग्निः ॥
व्याख्या / Traditional Commentary & Notes
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः):
ज्वलतीति ॥ हि निश्चितं वह्निर्मृगाणां वर्गः समूहस्तं तपयति । किं भूतो वह्निः प्रान्तेषु लग्नः वनान्तेषु लग्नः । पुनः किं भूतः — पवनविद्धः सन् वायुप्रेरितः सन् । पर्वतानां दरीषु गुहासु पतति । पुनः किं भूतः पटुनिनादः सन् प्रकटरवः सन् । शुष्कवंशस्थलीषु शुष्का वंशा वेणुवृक्षा यत्रेदृश्यो याः स्थल्यः स्थलभूमयः तथा तासु स्फुटति । स्फुट स्फुट इति शब्दं करोतीत्यर्थः । तृणमध्ये क्षणेन लब्धवृद्धिः प्राप्तारिकः सन् प्रसरति ॥
चन्द्रिकाटीका (मणिरामः):
ज्वलतीति ॥ पवनेन वायुना वृद्धो वृद्धि प्राप्तो दवाग्निर्दावानलः । `दवदावौ वनानिलौ` इत्यमरः (अ.को.3।3।217) । पर्वतानां दरीषु कन्दरेषु ज्वलति । तथा शुष्का वंशा वेणवो यासु ताः स्थल्योऽकृत्रिमभूमयस्तासु पटुतरध्वनिभिः स्फुटति विकासभावमाप्नोति । तथा क्षणेन क्षणादेव लब्धा प्राप्ता बुद्धिर्येन तथोक्तः संस्तृणमध्ये प्रसरति । तथा प्रान्तलग्नः सन् मृगवर्गं हरिणसमूहं ग्लपयति व्याकुलं करोतीत्यर्थः ॥
Morphemic Decomposition & Padaccheda
ज्वलति
ज्वल् [1. Ā.]
पवनवृद्धः
पवन [m]
पवनवृद्धः
वृध् [6. P.]
पर्वतानां
पर्वत [mn]
दरीषु
दरी [f]
स्फुटति
स्फुट् [6. Ā.]
पटुनिनादैः
पटु [adj]
पटुनिनादैः
निनाद [m]
शुष्कवंशस्थलीषु
शुष्क [adj]
शुष्कवंशस्थलीषु
वंश [m]
शुष्कवंशस्थलीषु
स्थली [f]
प्रसरति
प्रसृ [3. Ā.]
तृणमध्ये
तृण [n]
तृणमध्ये
मध्य [n]
लब्धवृद्धिः
लभ् [1. P.]
लब्धवृद्धिः
वृद्धि [f]
क्षणेन
क्षण [m]
ग्लपयति
ग्लपय् [10. Ā.]
मृगवर्गं
मृग [m]
मृगवर्गं
वर्ग [m]
प्रान्तलग्नो
प्रान्त [mn]
प्रान्तलग्नो
लग् [1. P.]
दवाग्निः
दव [m]
दवाग्निः
अग्नि [m]
बहुतर इव जातः शाल्मलीनां वनेषु स्फुरति कनकगौरः कोटरेषु द्रुमाणाम् । परिणतदलशाखानुत्पतन्प्रांशुवृक्षान्भ्रमति पवनधूतः सर्वतोऽग्निर्वनान्ते ॥
व्याख्या / Traditional Commentary & Notes
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः):
बहुतर इति ॥ अग्निः पवनधूतः पवनप्रेरितः सन् वनान्ते वनस्यान्तः वनान्तस्तस्मिन् भ्रमति । किं भूतः अग्निः — शाल्मलीनां शाल्मलीवृक्षाणां वनेषूत्प्रेक्षते । पदुतरोऽतिशयेन प्रकटितसाधवो जात इव । पुनर्द्रुमाणं वृक्षाणं कोटिरेषु कनकवद्गौरो गौरवर्ण स्फुरति लगति । किं कुर्वन् — शुष्काश्च ते वृक्षाश्च शुष्कवृक्षास्तान् निर्दहन् प्रज्वालयन्। किंविशिषटान् शुष्कवृक्षान् परिहृतदलशाखान् परिहृतानि गतानि दलानि पत्राणि शाखा विटपाश्च येषां ते तथा तान् ॥
चन्द्रिकाटीका (मणिरामः):
बहुतर इति ॥ अग्निः शाल्मलीनां वनेषु बहुतरः प्रचुररूपो जात इव स्फुरति । द्रूमाणं कोटरेषु शाखागह्वरेषु कनकगौरः काञ्चनगौरः स्फुरति । पवनेन वायुना धूतः कम्पितः सन् अतएव परिणताः परिपक्वा दलानि पर्णानि शाखाश्च येषां तान् तथोक्तान् प्रांशुवृक्षानुन्नतद्रुमान् उत्पतन् सन् सर्वतः समन्ततो वनान्ते भ्रमति भ्रमणं करोतीत्यर्थः ॥
Morphemic Decomposition & Padaccheda
बहुतर
बहुतर [adj]
इव
इव [ind]
जातः
जन् [4. P.]
शाल्मलीनां
शाल्मली [f]
वनेषु
वन [n]
स्फुरति
स्फुर् [6. Ā.]
कनकगौरः
कनक [n]
कनकगौरः
गौर [adj]
कोटरेषु
कोटर [mn]
द्रुमाणाम्
द्रुम [m]
परिणतदलशाखानुत्पतन्प्रांशुवृक्षान्भ्रमति
परिणम् [1. Ā.]
परिणतदलशाखानुत्पतन्प्रांशुवृक्षान्भ्रमति
दल [mn]
परिणतदलशाखानुत्पतन्प्रांशुवृक्षान्भ्रमति
शाखा [f]
परिणतदलशाखानुत्पतन्प्रांशुवृक्षान्भ्रमति
उत्पत् [1. Ā.]
परिणतदलशाखानुत्पतन्प्रांशुवृक्षान्भ्रमति
प्रांशु [adj]
परिणतदलशाखानुत्पतन्प्रांशुवृक्षान्भ्रमति
वृक्ष [m]
परिणतदलशाखानुत्पतन्प्रांशुवृक्षान्भ्रमति
भ्रम् [4. Ā.]
पवनधूतः
पवन [m]
पवनधूतः
धू [6. Ā.]
सर्वतोऽग्निर्वनान्ते
सर्वतस् [ind]
सर्वतोऽग्निर्वनान्ते
अग्नि [m]
सर्वतोऽग्निर्वनान्ते
वनान्त [m]
गजगवयमृगेन्द्रा वह्निसंतप्तदेहाः सुहृद इव समेता द्वंद्वभावं विहाय । हुतवहपरिखेदादाशु निर्गत्य कक्षाद्विपुलपुलिनदेशां निम्नगां संविशन्ति ॥
व्याख्या / Traditional Commentary & Notes
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः):
गजेति ॥ गजाश्च गवया वनगवाश्च मृगेन्द्राः सिंहाश्च गजगवयमृगेन्द्राः हुतवहपरिखेदात् हुतवहस्याग्नेः परिखेदः परितापस्तस्मात् । द्वन्द्वस्य वैरस्य भावो द्वन्द्वभावः शत्रुत्वं विहाय त्यक्त्वा आशु शीघ्रं निम्नगां नदीमाश्रयन्ते । किं कृत्वा — कक्षात् तृणप्रदेशान्निर्गत्य । कीदृशाः — वह्निसंतप्तदेहाः वह्निसंतप्ता देहा येषां ते । पुनः — सुहृदो मित्राणीव समेताः मिलिताः । किं भूतां निम्नगाम् — विपुलो विस्तीर्णः पुलिनस्य देशः प्रदेशो यस्यां सा तथा ताम् ॥
चन्द्रिकाटीका (मणिरामः):
गजेति ॥ वह्निना दावाग्निना सन्तप्तो देहः शरीरं येषां ते तथोक्ता अत एव द्वन्द्वभावं वैरभावं विहाय त्यक्त्वा सुहृदो मित्राणीव समेता सङ्गताः गजगवयमृगेन्द्रा गजो इभः गवयो गोसदृशो मृगविशेषः मृगेन्द्रः सिंहश्च ते हुतवहस्य वहनेः परिखेदात् सन्तापात् यद्वा हुतवहस्य परिखेदो यत्र तस्मात्तथोक्तात् । कक्षाद् गिरिगह्वरादाशु झटिति निर्गत्य विपुलो महान् पुलिनदेशस्तीरप्रान्तो यस्यास्तां तथोक्तं निम्नगां नदीं संविशन्ति आश्रयन्त इत्यर्थः ॥
Morphemic Decomposition & Padaccheda
गजगवयमृगेन्द्रा
गज [m]
गजगवयमृगेन्द्रा
गवय [m]
गजगवयमृगेन्द्रा
मृगेन्द्र [m]
वह्निसंतप्तदेहाः
वह्नि [m]
वह्निसंतप्तदेहाः
संतप् [4. Ā.]
वह्निसंतप्तदेहाः
देह [mn]
सुहृद
सुहृद् [m]
इव
इव [ind]
समेता
समे [2. P.]
द्वंद्वभावं
द्वंद्व [mn]
द्वंद्वभावं
भाव [m]
विहाय
विहा [3. Ā.]
हुतवहपरिखेदाद्
हुतवह [m]
हुतवहपरिखेदाद्
परिखेद [m]
आशु
आशु [adj]
निर्गत्य
निर्गम् [6. P.]
कक्षाद्विपुलपुलिनदेशां
कक्ष [m]
कक्षाद्विपुलपुलिनदेशां
विपुल [adj]
कक्षाद्विपुलपुलिनदेशां
पुलिन [mn]
कक्षाद्विपुलपुलिनदेशां
देश [m]
निम्नगां
निम्नगा [f]
संविशन्ति
संविश् [6. Ā.]
कमलवनचिताम्बुः पाटलामोदरम्यः सुखसलिलनिषेकः सेव्यचन्द्रांशुहारः । व्रजतु तव निदाघः कामिनीभिः समेतो निशि सुललितगीते हर्म्यपृष्ठे सुखेन ॥
व्याख्या / Traditional Commentary & Notes
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः):
कमलेति ॥ कविर्भोजराजं प्रति वदति — हे राजन तव निदाघो ग्रीष्मः। हर्म्यपृष्ठे गृहपरिभोगे । सुखेन कामिनीभिर्ललनाभिः समेतं सार्द्धम् । व्रजतु गच्छतु । कैः — निशि रात्रौ सुललितगीतैः । सु अतिशयेन ललितानि मनोहराणि यानि गीतानि तैः । किंभूतो निदाघः — कमलवनैः पङ्कजकाननैः निश्चितं व्याप्तमम्बु यत्र सः। पुनः कीदृशः — पाटलानामामोदः परिमलः तेन रम्यो रमणीयः । पुनः कीदृशः — सुखः सुखदायी सलिलनिषेको जलसेवनं स्नानादिर्यत्र स सुखसलिलनिषेकः । पुनः कीदृशः — सेव्यः सेवनीयश्चन्द्रांशुमयो हारो यत्र सः । अत्रेतानि वस्तूनि ग्रीष्मतापहारीणि भवन्तीति भावः । यदुक्तम् — `स्नानं सुशीतं सलिलं सरोजं सरोवरः शीतकरः सुगन्धः । सन्ध्या स्त्रियः सेकतिकी तटानि, ग्रीष्मेऽतिहर्षाय भवन्त्यभूरि ॥` मालिनीवृत्तानीमानि सप्तकाव्यानि । तल्लक्षणं — `ननमयययुतेयं मालिनी भोगिलोकैः` इति । श्रीमान् कीर्तिवरसूरिगुणाकराणां पट्टेऽनुवै अमरकीर्तिर्विनिर्मितायां । श्रीमद्विशेषकमहानद्यकाव्यवृत्तौ सर्गोऽजनि प्रथम एष नृपाभिरम्यः ॥ इति श्रीमान्नागपूरीय तपागच्छीय भट्टारक श्री अमर कीर्तिसूरिकृतायां श्रीकालिदासकृत विशेषकाव्यटीकायां ग्रीष्मऋतुवर्णनो नाम प्रथमः सर्गः ॥
चन्द्रिकाटीका (मणिरामः):
कमलेति ॥ सुललितमतिरमणीयं गीतं गानं यस्यास्तस्याः सम्बोधनं हि सुललितगीते। कमलानां पङ्कजानां वनेन समुदायेन चितं व्याप्तमम्बु जलं यस्मिन् स तथोक्तः । पाटलानां पाटलकुसुमानामामोदो गन्धो रम्यो रमणीयो यस्मिन् स तथोक्तः । यद्वा पाटलामोदेन रम्यो रमणीय इति । सुखः सुखकरः सलिलस्य निषेकः स्नानं यस्मिन् स तथोक्तः । सेव्याः सेवितुं योग्याश्चन्दरस्यांशवः किरणा हाराः कुसुममालाश्च यस्मिन् स तथोक्तः । कामिनीभिः समेतो युक्तो निदाघो निदाघकालो निशि रात्रौ हर्म्यपृष्ठे प्रासादतले सुखेन तव व्रजतु गच्छत्वित्यर्थः ॥ इति श्रीभारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया समेता कवि श्रीकालिदास कविवराग्रणीकृतावृतुसंहारे महाकाव्ये ग्रीष्मवर्णनं नाम प्रथमः सर्गः ॥
Morphemic Decomposition & Padaccheda
कमलवनचिताम्बुः
कमल [mn]
कमलवनचिताम्बुः
वन [n]
कमलवनचिताम्बुः
चि [1. Ā.]
कमलवनचिताम्बुः
अम्बु [n]
पाटलामोदरम्यः
पाटला [f]
पाटलामोदरम्यः
आमोद [m]
पाटलामोदरम्यः
रम्य [adj]
सुखसलिलनिषेकः
सुख [adj]
सुखसलिलनिषेकः
सलिल [n]
सुखसलिलनिषेकः
निषेक [m]
सेव्यचन्द्रांशुहारः
सेव् [4. P.]
सेव्यचन्द्रांशुहारः
चन्द्र [m]
सेव्यचन्द्रांशुहारः
अंशु [m]
सेव्यचन्द्रांशुहारः
हार [mn]
व्रजतु
व्रज् [1. Ā.]
तव
त्वद् [pron]
निदाघः
निदाघ [m]
कामिनीभिः
कामिनी [f]
समेतो
समे [2. P.]
निशि
निश् [f]
सुललितगीते
सु [ind]
सुललितगीते
लल् [1. Ā.]
सुललितगीते
गीत [n]
हर्म्यपृष्ठे
हर्म्य [n]
हर्म्यपृष्ठे
पृष्ठ [n]
सुखेन
सुख [n]