Skip to main content
Search
Full Chapter
RS • Chapter 1: Canto 1

RS 1.5

Canonical Ref: RS 1.5
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
नितान्तलाक्षारसरागरञ्जितैर्नितम्बिनीनां चरणैः सनूपुरैः । पदे पदे हंसरुतानुकारिभिर्जनस्य चित्तं क्रियते समन्मथम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): नितान्तेति ॥ नितम्बिनीनां चरणैः पादैः जनस्य चित्तं समन्मथं सकामं क्रियते । स्थूलः सुभगो वा नितम्बो विद्यते यासां तास्तथा तासां तरुणीनां मन्मथेन स्मरेण सह वर्तत इति समन्मथम् । किंभूतैश्चरणैः — नितान्तलाक्षारसरागरञ्जितैः । लाक्षाया रसो द्रव्यस्तस्य रागो रक्तत्वं लाक्षारसरागः । नितान्तमतिशयेन लाक्षारसरागस्तेन रञ्जिता अरुणत्वमापादितास्तथा तैः । पुनः किंभूतैश्चरणैः — सनूपुरैः नूपुरोपलक्षितैः । पुनः किंभूतैः — पदे पदे चरणयोर्न्यासे न्यासे हंसस्य रुतं शब्दमनुकुर्वन्तीति हंसरुतानुकारिणस्तैः । पदे पदे हंसस्वन इव शब्दायमानैः । अतोऽत्र स्त्रियोऽपि मनोहारिण्यो भवन्तीति भावः ॥ चन्द्रिकाटीका (मणिरामः): नितान्तेति ॥ नितान्तमत्यन्तं लाक्षारसस्य रागेण रञ्जितास्तैस्तथोक्तैः सनूपुरैर्मञ्जीरसहितैः `मञ्जीरो नूपुरोऽस्त्रियाम्` इत्यमरः (अ.को.2|6|110) । पदे पदे प्रतिपदं हंसरुतं मरालशब्दमनुकुर्वन्ति तैस्तथोक्तैर्नितम्बिनीनां चरणैर्जनस्य लोकस्य चित्तमन्तःकरणं समन्मथं मदनसहितम् । `मदनो मन्मथो मारः` इत्यमरः (अ.को.1|1|27) । क्रियत इत्यर्थः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
नितान्तलाक्षारसरागरञ्जितैर्
Lemma: नितान्त
POS: adj
नितान्तलाक्षारसरागरञ्जितैर्
Lemma: लाक्षा
POS: f
नितान्तलाक्षारसरागरञ्जितैर्
Lemma: रस
POS: mn
नितान्तलाक्षारसरागरञ्जितैर्
Lemma: राग
POS: m
नितान्तलाक्षारसरागरञ्जितैर्
Lemma: रञ्जय्
POS: 10. Ā.
नितम्बिनीनां
Lemma: नितम्बिनी
POS: f
चरणैः
Lemma: चरण
POS: mn
सनूपुरैः
Lemma: सनूपुर
POS: adj
पदे
Lemma: पद
POS: mn
पदे
Lemma: पद
POS: mn
हंसरुतानुकारिभिर्जनस्य
Lemma: हंस
POS: m
हंसरुतानुकारिभिर्जनस्य
Lemma: रुत
POS: n
हंसरुतानुकारिभिर्जनस्य
Lemma: अनुकारिन्
POS: adj
हंसरुतानुकारिभिर्जनस्य
Lemma: जन
POS: m
चित्तं
Lemma: चित्त
POS: n
क्रियते
Lemma: कृ
POS: 2. Ā. • Verb: क्रियते
समन्मथम्
Lemma: स
POS: ind
समन्मथम्
Lemma: मन्मथ
POS: m
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 1.5. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 1.4) All Verses in Chapter 1 Next Verse (RS 1.6) →