Skip to main content
Search
Full Chapter
RS • Chapter 1: Canto 1

RS 1.4

Canonical Ref: RS 1.4
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
नितम्बबिम्बैः सदुकूलमेखलैः स्तनैः सहाराभरणैः सचन्दनैः । शिरोरुहैः स्नानकषायवासितैः स्त्रियो निदाघं शमयन्ति कामिनाम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): नितम्बेति ॥ स्त्रियः कामिनामेभिर्वस्तुभिः कृत्वा निदाघं तापं शमयन्ति । एभिः कैः — सुदुकूलमेखलैर्नितम्बबिम्बैः दुकूलञ्च मेक्खला च दुकूलमेखले ताभ्यां सह वर्तन्त इति तथा तैर्नितम्बबिम्बैः । कटिपश्चाद्भागा नितम्बास्त एव बिम्बाः बिम्बवच्चक्राकारा नितम्बबिम्बास्तैः । पुनः कैः — सहाराभरणैः स्तनैः । हारा मुक्तामयाश्चाभरणान्यलङ्काराणि च तथा तैः सह वर्तन्ते । अथवा हारा एवाभरणानि तैः सह वर्तन्त ईदृशैः स्तनैरुरोजैस्तापं शमयन्ति । किंभूतैः स्तनैः —सचन्दनैः चन्दनानुलिप्तैः । पुनः — स्नानकषायवाषितैः शिरोरुहैः स्नानस्य कषायेण कषायगन्धेन वासितास्तथा तैरथवा स्नानस्य स्नानार्थं वा कषायः क्वाथोऽर्थात् तैः वासितास्तथा । तैः शिरोरुहैः केशैः भृशं तापं शमयन्ति । एषां स्पर्शैः कामिनां कामोद्भवतापोपशान्तिजनको भवतीत्यर्थः ॥ चन्द्रिकाटीका (मणिरामः): नितम्बेति ॥ स्त्रियो विलासिन्यो दुकूलानि वस्त्राणि मेखला रशनाश्च ताभिः सहितानि तैस्तथोक्तैर्नितम्बबिम्बैः कटिपश्चाद्भागैः । `पश्चान्नितम्बः स्त्रीकट्याः` इत्यमरः (अ.को.2|6|75) । हारा आभरणानि च तैः सहितास्तैस्तथोक्तैः स चन्दनैश्चन्दनलिप्तैः स्तनैः स्नाने स्नानकाले यः कषायो लापितसुगन्धिद्रव्यं तेन वासिताः सञ्जातवासास्तैस्तथोक्तैश्शिरोरुहैः केशैः कामिनां निदाघमूष्माणं शमयन्ति दूरीकुर्वन्तीत्यर्थः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
नितम्बबिम्बैः
Lemma: नितम्ब
POS: m
नितम्बबिम्बैः
Lemma: बिम्ब
POS: mn
सदुकूलमेखलैः
Lemma: सदुकूल
POS: adj
सदुकूलमेखलैः
Lemma: मेखला
POS: f
स्तनैः
Lemma: स्तन
POS: mn
सहाराभरणैः
Lemma: सहार
POS: adj
सहाराभरणैः
Lemma: आभरण
POS: n
सचन्दनैः
Lemma: सचन्दन
POS: adj
शिरोरुहैः
Lemma: शिरोरुह
POS: m
स्नानकषायवासितैः
Lemma: स्नान
POS: n
स्नानकषायवासितैः
Lemma: कषाय
POS: adj
स्नानकषायवासितैः
Lemma: वासय्
POS: 10. Ā.
स्त्रियो
Lemma: स्त्री
POS: f
निदाघं
Lemma: निदाघ
POS: m
शमयन्ति
Lemma: शमय्
POS: 10. Ā. • Verb: शमयन्ति
कामिनाम्
Lemma: कामिन्
POS: m
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 1.4. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 1.3) All Verses in Chapter 1 Next Verse (RS 1.5) →