Skip to main content
Search
Full Chapter
RS • Chapter 1: Canto 1

RS 1.3

Canonical Ref: RS 1.3
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
सुवासितं हर्म्यतलं मनोहरं प्रियामुखोच्छ्वासविकम्पितं मधु । सुतन्त्रिगीतं मदनस्य दीपनं शुचौ निशीथेऽनुभवन्ति कामिनः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): सुवासितमिति ॥ कामिनो भोगिपुरुषाः शुचावाषाढे निशीथेऽर्धरात्रावेतानि वस्तून्यनुभवन्ति सेवन्ते । एतानि कानि — सुवासितं चन्दनकर्पूरादिवासोपलक्षितं हर्म्यतलं गृहोपरिभागम् सेवन्ते । किंभूतं हर्म्यतलं — मनोहरम् । पुनः प्रियामुखोच्छ्वासविकम्पितंमधु । प्रियायाः मुखोच्छ्वासः प्रियामुखोच्छ्वासः प्रियामुखोच्छ्वासस्तेन विकम्पितं विशेषेण कम्पयमानं मधु मद्यं सेवन्ते । पुनः सुतन्त्रि सुष्टु शोभना तन्त्री वीणा यत्र तत् सुतन्त्रि । ईदृशं गीतं गानं सेवन्ते । किंभूतं गीतम् — मदनस्य कामस्य दीपनं कामोद्दीप्तिकरमित्यर्थः ॥ चन्द्रिकाटीका (मणिरामः): सुवासितमिति ॥ कामिनो विलासिनः शुचौ ग्रीष्मकाले निशीथे अर्धरात्रे । `अर्धरात्रनिशीथौ द्वौ` इत्यमरः (अ.को.1|4|7) । सुवासितं सुगन्धजलसेकादिना सुगन्धीकृतं मनोहरं सुन्दरं हर्म्यतलं प्रासादतलम् । प्रियामुखस्य कान्तावदनस्योच्छ्वासेन विकम्पितं मधु । मदनस्य कन्दर्पस्य दीपनमुद्दीपकं सुतन्त्रिणा गीतं गानं च । `गीतं गानमिमे समे` इत्यमरः (अ.को.1।6।28) । अनुभवन्ति आस्वादयन्तीत्यर्थः । एतेनापि ग्रीष्मकालस्य कामिनां मनोहरत्वमुक्तम् ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
सुवासितं
Lemma: सु
POS: ind
सुवासितं
Lemma: वासय्
POS: Denom. Ā.
हर्म्यतलं
Lemma: हर्म्य
POS: n
हर्म्यतलं
Lemma: तल
POS: mn
मनोहरं
Lemma: मनोहर
POS: adj
प्रियामुखोच्छ्वासविकम्पितं
Lemma: प्रिया
POS: f
प्रियामुखोच्छ्वासविकम्पितं
Lemma: मुख
POS: n
प्रियामुखोच्छ्वासविकम्पितं
Lemma: उच्छ्वास
POS: m
प्रियामुखोच्छ्वासविकम्पितं
Lemma: विकम्पय्
POS: 10. P.
मधु
Lemma: मधु
POS: n
सुतन्त्रिगीतं
Lemma: सुतन्त्रि
POS: adj
सुतन्त्रिगीतं
Lemma: गा
POS: 2. P.
मदनस्य
Lemma: मदन
POS: mn
दीपनं
Lemma: दीपन
POS: n
शुचौ
Lemma: शुचि
POS: adj
निशीथेऽनुभवन्ति
Lemma: निशीथ
POS: mn
निशीथेऽनुभवन्ति
Lemma: अनुभू
POS: 1. Ā. • Verb: अनुभवन्ति
कामिनः
Lemma: कामिन्
POS: m
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 1.3. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 1.2) All Verses in Chapter 1 Next Verse (RS 1.4) →