Skip to main content
Search
Full Chapter
RS • Chapter 1: Canto 1

RS 1.2

Canonical Ref: RS 1.2
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
निशाः शशाङ्कक्षतनीलराजयः क्वचिद्विचित्रं जलयन्त्रमन्दिरम् । मणिप्रकाराः सरसं च चन्दनं शुचौ प्रिये यान्ति जनस्य सेव्यताम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): निशेति ॥ हे प्रिये शुचावाषाढे जनस्य लोकस्यैतानि वस्तूनि सेवनार्हः सेव्यस्तस्यभावः सेव्यता तां सेव्यतां सेव्यभावं यान्ति प्राप्नुवन्ति । एतानि वस्तूनि जनः सेवत इत्यर्थः । एतानि कानि — निशाः रात्रयः । किम्भूताः निशाः — शशाङ्केन चन्द्रेण क्षताः खण्डिताः नीलराजयोऽन्धकारश्रेणयो यासां ताः । पुनः — सरसं रसोपलक्षितं अर्थात् घृष्टं चन्दनं जनस्य सेव्यतां याति । ग्रीष्मर्तावेतानि वस्तूनि सुखदानि भवन्तीत्यर्थः ॥ चन्द्रिकाटीका (मणिरामः): निशा इति ॥ हे प्रिये क्वचिच्छशाङ्केन चन्द्रमसा कर्त्रा क्षत्ता दूरीकृता नीलराजयस्तमः पङ्क्तयो यासां तास्तथोक्ता निशा रात्रयः । `निशा निशीथिनी रात्रिः` इत्यमरः (अ.को.1|4|4) । क्वचित् विचित्रं जलयन्त्रेण युक्तं मन्दिरं गृहं । क्वचिन्मणिप्रकारा मणिविशेषेणाश्चन्द्रकान्तादयः । क्वचित् सरसं सान्द्रं चन्दनञ्च शुचौ ग्रीष्मकाले जनस्य लोकस्य सेव्यतामुपभोगविषयतां यान्तीति वचनविपरिणामेनान्वयः

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
निशाः
Lemma: निशा
POS: f
शशाङ्कक्षतनीलराजयः
Lemma: शशाङ्क
POS: m
शशाङ्कक्षतनीलराजयः
Lemma: क्षन्
POS: 8. Ā.
शशाङ्कक्षतनीलराजयः
Lemma: नीलराजि
POS: f
क्वचिद्विचित्रं
Lemma: क्वचिद्
POS: ind
क्वचिद्विचित्रं
Lemma: विचित्र
POS: adj
जलयन्त्रमन्दिरम्
Lemma: जलयन्त्र
POS: n
जलयन्त्रमन्दिरम्
Lemma: मन्दिर
POS: n
मणिप्रकाराः
Lemma: मणि
POS: m
मणिप्रकाराः
Lemma: प्रकार
POS: m
सरसं
Lemma: सरस
POS: adj
च
Lemma: च
POS: ind
चन्दनं
Lemma: चन्दन
POS: mn
शुचौ
Lemma: शुचि
POS: m
प्रिये
Lemma: प्रिय
POS: adj
यान्ति
Lemma: या
POS: 2. Ā. • Verb: यान्ति
जनस्य
Lemma: जन
POS: m
सेव्यताम्
Lemma: सेव्यता
POS: f
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 1.2. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 1.1) All Verses in Chapter 1 Next Verse (RS 1.3) →