Skip to main content
Search
Full Chapter
RS • Chapter 1: Canto 1

RS 1.6

Canonical Ref: RS 1.6
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
पयोधराश्चन्दनपङ्कचर्चितास्तुषारगौरार्पितहारशेखराः । नितम्बदेशाश्च सहेममेखलाः प्रकुर्वते कस्य मनो न सोत्सुकम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): पयोधरेति ॥ पयोधराः स्तनाश्च पुनर्नितम्बदेशाः कटिपश्चाद्भागाः कस्य पुरुषस्य मनः सोत्सुकं नारीरमणलालसं न प्रकुर्वते । अपि तु सर्वस्य मनः सोत्सुकम् प्रकुर्वत इत्यर्थः । किंभूताः पयोधराः — चन्दनस्य पङ्कः कर्दमस्तेन चर्चिताः कृतलेपाः । पुनः किंभूताः — तुषारवद् हिमवद् गौरा धवलाः अर्पिता स्थापिता हाराः शेखरे अगरे उपरिप्रदेशे येषां तैः । किंभूता नितम्बदेशाः — हेम्नः सुवर्णस्य मेखलाभी रशनाभिः सह वर्तन्त इति सहेममेखलाः । अनेन स्त्रीणामस्यन्तरमणीयत्वं सूचितम् ॥ चन्द्रिकाटीका (मणिरामः): पयोधरा इति ॥चन्दनस्य पङ्केन द्रवेण चर्चिताः लिप्ताः तुषारवद्गौराः शुब्रवर्णा अर्पिता हारशेखराः श्रेष्ठहारा येषु ते तयोक्ताः पयोधराः स्तनाः । सहेममेखलाः सुवर्णरशनासहिताः । `स्त्रीकट्यां मेखला काञ्ची सप्तकी रशना तथा` इत्यमरः (अ.को.2।6।209) । नितम्बदेशाः श्रोणीबन्धाश्च मनः सोत्सुकं सोत्कण्ठं न प्रकुर्वर्ते प्रकर्षेण न कुर्वन्ति अपि तु सर्वस्यापीत्यर्थः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
पयोधराश्चन्दनपङ्कचर्चितास्
Lemma: पयोधर
POS: m
पयोधराश्चन्दनपङ्कचर्चितास्
Lemma: चन्दन
POS: mn
पयोधराश्चन्दनपङ्कचर्चितास्
Lemma: पङ्क
POS: mn
पयोधराश्चन्दनपङ्कचर्चितास्
Lemma: चर्चय्
POS: 10. Ā.
तुषारगौरार्पितहारशेखराः
Lemma: तुषारगौर
POS: m
तुषारगौरार्पितहारशेखराः
Lemma: अर्पय्
POS: 10. Ā.
तुषारगौरार्पितहारशेखराः
Lemma: हार
POS: mn
तुषारगौरार्पितहारशेखराः
Lemma: शेखर
POS: m
नितम्बदेशाश्च
Lemma: नितम्ब
POS: m
नितम्बदेशाश्च
Lemma: देश
POS: m
नितम्बदेशाश्च
Lemma: च
POS: ind
सहेममेखलाः
Lemma: स
POS: ind
सहेममेखलाः
Lemma: हेमन्
POS: n
सहेममेखलाः
Lemma: मेखला
POS: f
प्रकुर्वते
Lemma: प्रकृ
POS: 8. Ā. • Verb: प्रकुर्वते
कस्य
Lemma: क
POS: pron
मनो
Lemma: मनस्
POS: n
न
Lemma: न
POS: ind
सोत्सुकम्
Lemma: स
POS: ind
सोत्सुकम्
Lemma: उत्सुक
POS: adj
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 1.6. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 1.5) All Verses in Chapter 1 Next Verse (RS 1.7) →