Skip to main content
Search
Full Chapter
RS • Chapter 1: Canto 1

RS 1.7

Canonical Ref: RS 1.7
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
समुद्गतस्वेदचिताङ्गसंधयो विमुच्य वासांसि गुरूणि साम्प्रतम् । स्तनेषु तन्वंशुकमुन्नतस्तना निवेशयन्ति प्रमदाः सयौवनाः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): समुद्गतेति ॥ य पुनः सह यौवनेन तारुण्येन वर्तन्त इति सयौवनाः प्रमदाः । साम्प्रतं ग्रीष्मावसरे स्तनेषु अच्छ सूक्ष्मं च तदंशुकं वस्त्रञ्च अच्छांशुकं तन्निवेशयन्ति स्थापयन्ति । किं भूताः प्रमदाः — उन्नतस्तनाः उन्नताः स्तनाः यासां ताः । किं कृत्वा — गुरुणि स्थूलानि वासांसि वस्त्राणि विमुच्य मुक्त्वा । पुनः किंभूताः प्रमदाः — समुद्गत उत्पन्नो योऽसौ स्वेदः प्रस्वेदस्तेन चिता व्याप्ता अतएवार्द्राः सन्धयः कक्षादयो यासां ताः । चन्द्रिकाटीका (मणिरामः): समुद्गतेति ॥ समुद्गतो निर्गतो यः स्वेदो घर्मस्तेन चिता व्याप्ता अङ्गसन्धयो बाहुमूलादयो यासां तास्तथोक्ताः सयौवनास्तारुण्यसहिता उन्नतस्तना उच्चकुचाः प्रमदाः स्त्रियः साम्प्रतमिदानीं गुरूणि जडानि वासांसि वस्त्राणि विमुच्य दूरीकृत्य स्तनेषु कुचेषु तनु सूक्ष्मम् अंशुकं वासः कञ्चुकादि निवेशयन्ति स्थापयन्तीत्यर्थः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
समुद्गतस्वेदचिताङ्गसंधयो
Lemma: समुद्गम्
POS: 1. P.
समुद्गतस्वेदचिताङ्गसंधयो
Lemma: स्वेद
POS: m
समुद्गतस्वेदचिताङ्गसंधयो
Lemma: चित
POS: adj
समुद्गतस्वेदचिताङ्गसंधयो
Lemma: अङ्ग
POS: n
समुद्गतस्वेदचिताङ्गसंधयो
Lemma: संधि
POS: mf
विमुच्य
Lemma: विमुच्
POS: 6. Ā.
वासांसि
Lemma: वासस्
POS: n
गुरूणि
Lemma: गुरु
POS: adj
साम्प्रतम्
Lemma: सांप्रतम्
POS: ind
स्तनेषु
Lemma: स्तन
POS: mn
तन्वंशुकमुन्नतस्तना
Lemma: तनु
POS: adj
तन्वंशुकमुन्नतस्तना
Lemma: अंशुक
POS: mn
तन्वंशुकमुन्नतस्तना
Lemma: उन्नम्
POS: 1. Ā.
तन्वंशुकमुन्नतस्तना
Lemma: स्तन
POS: mn
निवेशयन्ति
Lemma: निवेशय्
POS: 10. Ā. • Verb: निवेशयन्ति
प्रमदाः
Lemma: प्रमदा
POS: f
सयौवनाः
Lemma: सयौवन
POS: adj
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 1.7. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 1.6) All Verses in Chapter 1 Next Verse (RS 1.8) →