Skip to main content
Search
Full Chapter
RS • Chapter 1: Canto 1

RS 1.8

Canonical Ref: RS 1.8
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
सचन्दनाम्बुव्यजनोद्भवानिलैः सहारयष्टिस्तनमण्डलार्पणैः । सवल्लकीकाकलिगीतनिस्वनैर्विबोध्यते सुप्त इवाद्य मन्मथः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): सचन्दनेति ॥ एभिर्वस्तुभिरद्य साम्प्रतं सुप्तो मन्मथः कामः प्रबोध्यते इव जागरुकः क्रियत इव । एभिः कैः — सचन्दनेन्दुव्यजनोद्भवानिलैः चन्दनञ्चेन्दुः कर्पूरश्च चन्दनेन्दू ताभ्यां सहिता ये व्यजनोद्भवानिलास्तालवृन्तजनितवायवस्तथा तैः अर्थाच्चन्दनचन्द्ररसाश्लिष्टव्यजनवातैः । किंभूतैः सचन्दनेन्दुव्यजनोद्भवानिलैः — सहारयष्टिस्तनमण्डलार्पितैः । हारयष्ट्या मुक्तामयहारेण सहितं यत्स्तनमण्डलं तस्मिन्नर्पितास्तापोपशान्त्यर्थं स्थापिता अर्थाद्विहितास्तथा तैः । पुनः कैः — सवल्लकीकाकलगीतिनिः सवनैः वल्लक्याः वीणायाः काकलेन सूक्ष्मध्वनिना सह या गीतिर्गानं तस्याः निःस्वनाः शब्दास्तथा तैः । `काकलीति कलः सूक्ष्मे` इत्यभिधानचिन्तामणौ (6|46) ग्रीष्मर्तौ चन्दन चन्द्र व्यजन वात सहारयष्टि तरुणी स्तन मण्डल वीणारागाः कामोद्दीप्तिकरा भवन्तीति भावः ॥ चन्द्रिकाटीका (मणिरामः): सचन्दनेति ॥ चन्दनाम्बुना चन्दनजलेन चन्दनद्रवेणेति यावत् सहितं युक्तं यद् व्यजनं तदुद्भवास्तदुत्पन्ना येऽनिला वायवस्तैः हारयष्ट्या कुसुममालया सहितानि युक्तानि यानि स्तनमण्डलानि कुचमण्डलानि तेषाम् अर्पणैः वल्लक्या वीणया सहिताश्च ते काकलिनः सूक्ष्मकलाश्च ते गीतनिस्वना गाननिनादाश्च तैः । `वीणा तु वल्लकी` इत्यमरः (अ.को.1।7।4) । `काकली तु कले सूक्ष्मे` इत्यमरः (अ.को.1।7।2) । `गीतं गानमिमे समे` इत्यमरः (अ.को.1।6।28) । अद्य मन्मथः कामः सुप्त इव निद्रिइत इव राजेवेत्यर्थः । बिबोध्यते उद्बोध्यते ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
सचन्दनाम्बुव्यजनोद्भवानिलैः
Lemma: सचन्दन
POS: adj
सचन्दनाम्बुव्यजनोद्भवानिलैः
Lemma: अम्बु
POS: n
सचन्दनाम्बुव्यजनोद्भवानिलैः
Lemma: व्यजन
POS: n
सचन्दनाम्बुव्यजनोद्भवानिलैः
Lemma: उद्भव
POS: adj
सचन्दनाम्बुव्यजनोद्भवानिलैः
Lemma: अनिल
POS: m
सहारयष्टिस्तनमण्डलार्पणैः
Lemma: सहार
POS: adj
सहारयष्टिस्तनमण्डलार्पणैः
Lemma: यष्टि
POS: fn
सहारयष्टिस्तनमण्डलार्पणैः
Lemma: स्तन
POS: mn
सहारयष्टिस्तनमण्डलार्पणैः
Lemma: मण्डल
POS: mfn
सहारयष्टिस्तनमण्डलार्पणैः
Lemma: अर्पण
POS: adj
विबोध्यते
Lemma: विबोधय्
POS: 10. P. • Verb: विबोध्यते
सुप्त
Lemma: स्वप्
POS: 1. Ā.
इवाद्य
Lemma: इव
POS: ind
इवाद्य
Lemma: अद्य
POS: ind
मन्मथः
Lemma: मन्मथ
POS: m
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 1.8. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 1.7) All Verses in Chapter 1 Next Verse (RS 1.9) →