Skip to main content
Search
Full Chapter
RS • Chapter 1: Canto 1

RS 1.9

Canonical Ref: RS 1.9
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
सितेषु हर्म्येषु निशासु योषितां सुखप्रसुप्तानि मुखानि चन्द्रमाः । विलोक्य नूनं भृशमुत्सुकश्चिरं निशाक्षये याति ह्रियेव पाण्डुताम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): सितेष्विति ॥ चन्द्रमा निशाक्षये निशायाः रात्रेः क्षयो विनाशो निशाक्षयस्तस्मिन् । रात्र्यन्ते ह्रिया लज्जयेव पाण्डुतां श्वेतत्वं याति प्राप्नोति । किं कृत्वा — निशासु रात्रिषु सितेषु श्वेतवर्णेषु हर्म्येषु अर्थात् सुधाधवलितेषु गृहोपरिभागेषु योषितां स्त्रीणां मुखानि वक्त्राणि विलोक्य दृष्ट्वा । किंभूतानि मुखानि — निर्यन्त्रणं यन्त्रणमर्गलाच्छादनादि तद्रहितं यथा भवति तथा । सुखप्रसुप्तानि सुखेन प्रसुप्तानि सुप्तामवस्थां गतानि सुखप्रसुप्तानि तानि । किंभूतश्चन्द्रः — उत्सुकः जेतुमुद्यतः । अन्योऽपि कमपि जेतुमुत्कण्ठितः पश्चात्तस्य गुणाधिक्यं विलोक्य विच्छायत्वं प्राप्नोतिति । किंतु चन्द्रादपि स्त्रीमुखानि निशान्तेषु सुन्दराणि लगन्तीति भावः ॥ चन्द्रिकाटीका (मणिरामः): सितेष्विति ॥ चन्द्रमा निशासु रात्रिषु सितेषु धवलेषु हर्म्येषु प्रासादेषु योषितां स्त्रीणां सुखेन प्रसुप्तानि निद्रितानि मुखानि वदनानि चिरं चिरकालं विलोक्यावलोक्यभृशमत्युत्सुक उत्कण्ठितः सन्निशाक्षये रात्रिक्षये ह्रियेव लज्जयेव पाण्डुतां पाण्डुरतां याति गच्छति । नूनमिति वितर्के ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
सितेषु
Lemma: सित
POS: adj
हर्म्येषु
Lemma: हर्म्य
POS: n
निशासु
Lemma: निशा
POS: f
योषितां
Lemma: योषित्
POS: f
सुखप्रसुप्तानि
Lemma: सुख
POS: n
सुखप्रसुप्तानि
Lemma: प्रस्वप्
POS: 2. Ā.
मुखानि
Lemma: मुख
POS: n
चन्द्रमाः
Lemma: चन्द्रमस्
POS: m
विलोक्य
Lemma: विलोकय्
POS: 10. Ā.
नूनं
Lemma: नूनम्
POS: ind
भृशम्
Lemma: भृशम्
POS: ind
उत्सुकश्चिरं
Lemma: उत्सुक
POS: adj
उत्सुकश्चिरं
Lemma: चिरम्
POS: ind
निशाक्षये
Lemma: निशा
POS: f
निशाक्षये
Lemma: क्षय
POS: m
याति
Lemma: या
POS: 2. Ā. • Verb: याति
ह्रियेव
Lemma: ह्री
POS: f
ह्रियेव
Lemma: इव
POS: ind
पाण्डुताम्
Lemma: पाण्डुता
POS: f
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 1.9. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 1.8) All Verses in Chapter 1 Next Verse (RS 1.10) →