Skip to main content
Search
Ch. 1 RS 1.10
Full Chapter
RS • Chapter 1: Canto 1

RS 1.10

Canonical Ref: RS 1.10
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
असह्यवातोद्धतरेणुमण्डला प्रचण्डसूर्यातपतापिता मही । न शक्यते द्रष्टुमपि प्रवासिभिः प्रियावियोगानलदग्धमानसैः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): असह्येति ॥ मही प्रवासिभिः पान्थैर्द्रष्टुमपिन शक्यते न समर्थैर्भूयते । किंभूता मही — असह्यवातोद्धतरेणुमण्डला । असह्यो योऽसौ वातः असह्यवातः तेनोद्गतानि उच्छालितानि रेणुमण्डलानि रजः पूराणि यस्यां सा । पुनः किंभूता मही — प्रचण्डो रौद्रो योऽसौ सूर्यातपस्तेन तापिता तथा । किंभूतैः प्रवासिभिः — प्रियायाः स्त्रीयाया योऽसौ वियोगो विरहः स एवानलोऽग्निस्तेन दग्धं मानसं येषां ते तथा तैः । अनेन प्रवासिनामत्यन्ताप्रीतिकरोऽयमिति सूचितम् ॥ चन्द्रिकाटीका (मणिरामः): असह्येति ॥ प्रियावियोगः कान्तावियोगः स एवानलोऽग्निस्तेन दग्धं भस्मीभूतं मानसमन्तःकरणं येषां तैस्तथोक्तैः प्रवासिभिर्विदेशवासिभिरसह्यः सोढुमशक्यो यो वातो वायुस्तेनोद्धतमूर्ध्वं क्षिप्तं रेणुमण्डलं यस्याः सा तथोक्ता । प्रचण्ड उग्रो यः सूर्यस्य तरणेरातपः उष्णं तेन तापिता सन्तापिता मही पृथ्वी द्रष्टुमपि न शक्यते गन्तुं न शक्यत इत्यत्र किं वक्तव्यमित्यर्थः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
असह्यवातोद्धतरेणुमण्डला
Lemma: असह्य
POS: adj
असह्यवातोद्धतरेणुमण्डला
Lemma: वात
POS: m
असह्यवातोद्धतरेणुमण्डला
Lemma: उद्धन्
POS: 1. P.
असह्यवातोद्धतरेणुमण्डला
Lemma: रेणु
POS: mn
असह्यवातोद्धतरेणुमण्डला
Lemma: मण्डल
POS: mfn
प्रचण्डसूर्यातपतापिता
Lemma: प्रचण्ड
POS: adj
प्रचण्डसूर्यातपतापिता
Lemma: सूर्य
POS: m
प्रचण्डसूर्यातपतापिता
Lemma: आतप
POS: m
प्रचण्डसूर्यातपतापिता
Lemma: तापय्
POS: 10. Ā.
मही
Lemma: मही
POS: f
न
Lemma: न
POS: ind
शक्यते
Lemma: शक्
POS: 4. P. • Verb: शक्यते
द्रष्टुमपि
Lemma: दृश्
POS: 6. P.
द्रष्टुमपि
Lemma: अपि
POS: ind
प्रवासिभिः
Lemma: प्रवासिन्
POS: adj
प्रियावियोगानलदग्धमानसैः
Lemma: प्रिया
POS: f
प्रियावियोगानलदग्धमानसैः
Lemma: वियोग
POS: m
प्रियावियोगानलदग्धमानसैः
Lemma: अनल
POS: m
प्रियावियोगानलदग्धमानसैः
Lemma: दह्
POS: 2. P.
प्रियावियोगानलदग्धमानसैः
Lemma: मानस
POS: n
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 1.10. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 1.9) All Verses in Chapter 1 Next Verse (RS 1.11) →