Skip to main content
Search
Ch. 1 RS 1.26
Full Chapter
RS • Chapter 1: Canto 1

RS 1.26

Canonical Ref: RS 1.26
Metrical Form: मालिनी
Sanskrit (Devanāgarī)
बहुतर इव जातः शाल्मलीनां वनेषु स्फुरति कनकगौरः कोटरेषु द्रुमाणाम् । परिणतदलशाखानुत्पतन्प्रांशुवृक्षान्भ्रमति पवनधूतः सर्वतोऽग्निर्वनान्ते ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): बहुतर इति ॥ अग्निः पवनधूतः पवनप्रेरितः सन् वनान्ते वनस्यान्तः वनान्तस्तस्मिन् भ्रमति । किं भूतः अग्निः — शाल्मलीनां शाल्मलीवृक्षाणां वनेषूत्प्रेक्षते । पदुतरोऽतिशयेन प्रकटितसाधवो जात इव । पुनर्द्रुमाणं वृक्षाणं कोटिरेषु कनकवद्गौरो गौरवर्ण स्फुरति लगति । किं कुर्वन् — शुष्काश्च ते वृक्षाश्च शुष्कवृक्षास्तान् निर्दहन् प्रज्वालयन्। किंविशिषटान् शुष्कवृक्षान् परिहृतदलशाखान् परिहृतानि गतानि दलानि पत्राणि शाखा विटपाश्च येषां ते तथा तान् ॥ चन्द्रिकाटीका (मणिरामः): बहुतर इति ॥ अग्निः शाल्मलीनां वनेषु बहुतरः प्रचुररूपो जात इव स्फुरति । द्रूमाणं कोटरेषु शाखागह्वरेषु कनकगौरः काञ्चनगौरः स्फुरति । पवनेन वायुना धूतः कम्पितः सन् अतएव परिणताः परिपक्वा दलानि पर्णानि शाखाश्च येषां तान् तथोक्तान् प्रांशुवृक्षानुन्नतद्रुमान् उत्पतन् सन् सर्वतः समन्ततो वनान्ते भ्रमति भ्रमणं करोतीत्यर्थः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
बहुतर
Lemma: बहुतर
POS: adj
इव
Lemma: इव
POS: ind
जातः
Lemma: जन्
POS: 4. P.
शाल्मलीनां
Lemma: शाल्मली
POS: f
वनेषु
Lemma: वन
POS: n
स्फुरति
Lemma: स्फुर्
POS: 6. Ā. • Verb: स्फुरति
कनकगौरः
Lemma: कनक
POS: n
कनकगौरः
Lemma: गौर
POS: adj
कोटरेषु
Lemma: कोटर
POS: mn
द्रुमाणाम्
Lemma: द्रुम
POS: m
परिणतदलशाखानुत्पतन्प्रांशुवृक्षान्भ्रमति
Lemma: परिणम्
POS: 1. Ā.
परिणतदलशाखानुत्पतन्प्रांशुवृक्षान्भ्रमति
Lemma: दल
POS: mn
परिणतदलशाखानुत्पतन्प्रांशुवृक्षान्भ्रमति
Lemma: शाखा
POS: f
परिणतदलशाखानुत्पतन्प्रांशुवृक्षान्भ्रमति
Lemma: उत्पत्
POS: 1. Ā.
परिणतदलशाखानुत्पतन्प्रांशुवृक्षान्भ्रमति
Lemma: प्रांशु
POS: adj
परिणतदलशाखानुत्पतन्प्रांशुवृक्षान्भ्रमति
Lemma: वृक्ष
POS: m
परिणतदलशाखानुत्पतन्प्रांशुवृक्षान्भ्रमति
Lemma: भ्रम्
POS: 4. Ā. • Verb: भ्रमति
पवनधूतः
Lemma: पवन
POS: m
पवनधूतः
Lemma: धू
POS: 6. Ā.
सर्वतोऽग्निर्वनान्ते
Lemma: सर्वतस्
POS: ind
सर्वतोऽग्निर्वनान्ते
Lemma: अग्नि
POS: m
सर्वतोऽग्निर्वनान्ते
Lemma: वनान्त
POS: m
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 1.26. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 1.25) All Verses in Chapter 1 Next Verse (RS 1.27) →