Skip to main content
Search
Ch. 1 RS 1.25
Full Chapter
RS • Chapter 1: Canto 1

RS 1.25

Canonical Ref: RS 1.25
Metrical Form: मालिनी
Sanskrit (Devanāgarī)
ज्वलति पवनवृद्धः पर्वतानां दरीषु स्फुटति पटुनिनादैः शुष्कवंशस्थलीषु । प्रसरति तृणमध्ये लब्धवृद्धिः क्षणेन ग्लपयति मृगवर्गं प्रान्तलग्नो दवाग्निः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): ज्वलतीति ॥ हि निश्चितं वह्निर्मृगाणां वर्गः समूहस्तं तपयति । किं भूतो वह्निः प्रान्तेषु लग्नः वनान्तेषु लग्नः । पुनः किं भूतः — पवनविद्धः सन् वायुप्रेरितः सन् । पर्वतानां दरीषु गुहासु पतति । पुनः किं भूतः पटुनिनादः सन् प्रकटरवः सन् । शुष्कवंशस्थलीषु शुष्का वंशा वेणुवृक्षा यत्रेदृश्यो याः स्थल्यः स्थलभूमयः तथा तासु स्फुटति । स्फुट स्फुट इति शब्दं करोतीत्यर्थः । तृणमध्ये क्षणेन लब्धवृद्धिः प्राप्तारिकः सन् प्रसरति ॥ चन्द्रिकाटीका (मणिरामः): ज्वलतीति ॥ पवनेन वायुना वृद्धो वृद्धि प्राप्तो दवाग्निर्दावानलः । `दवदावौ वनानिलौ` इत्यमरः (अ.को.3।3।217) । पर्वतानां दरीषु कन्दरेषु ज्वलति । तथा शुष्का वंशा वेणवो यासु ताः स्थल्योऽकृत्रिमभूमयस्तासु पटुतरध्वनिभिः स्फुटति विकासभावमाप्नोति । तथा क्षणेन क्षणादेव लब्धा प्राप्ता बुद्धिर्येन तथोक्तः संस्तृणमध्ये प्रसरति । तथा प्रान्तलग्नः सन् मृगवर्गं हरिणसमूहं ग्लपयति व्याकुलं करोतीत्यर्थः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
ज्वलति
Lemma: ज्वल्
POS: 1. Ā. • Verb: ज्वलति
पवनवृद्धः
Lemma: पवन
POS: m
पवनवृद्धः
Lemma: वृध्
POS: 6. P.
पर्वतानां
Lemma: पर्वत
POS: mn
दरीषु
Lemma: दरी
POS: f
स्फुटति
Lemma: स्फुट्
POS: 6. Ā. • Verb: स्फुटति
पटुनिनादैः
Lemma: पटु
POS: adj
पटुनिनादैः
Lemma: निनाद
POS: m
शुष्कवंशस्थलीषु
Lemma: शुष्क
POS: adj
शुष्कवंशस्थलीषु
Lemma: वंश
POS: m
शुष्कवंशस्थलीषु
Lemma: स्थली
POS: f
प्रसरति
Lemma: प्रसृ
POS: 3. Ā. • Verb: प्रसरति
तृणमध्ये
Lemma: तृण
POS: n
तृणमध्ये
Lemma: मध्य
POS: n
लब्धवृद्धिः
Lemma: लभ्
POS: 1. P.
लब्धवृद्धिः
Lemma: वृद्धि
POS: f
क्षणेन
Lemma: क्षण
POS: m
ग्लपयति
Lemma: ग्लपय्
POS: 10. Ā. • Verb: ग्लपयति
मृगवर्गं
Lemma: मृग
POS: m
मृगवर्गं
Lemma: वर्ग
POS: m
प्रान्तलग्नो
Lemma: प्रान्त
POS: mn
प्रान्तलग्नो
Lemma: लग्
POS: 1. P.
दवाग्निः
Lemma: दव
POS: m
दवाग्निः
Lemma: अग्नि
POS: m
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 1.25. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 1.24) All Verses in Chapter 1 Next Verse (RS 1.26) →