Skip to main content
Search
Ch. 1 RS 1.24
Full Chapter
RS • Chapter 1: Canto 1

RS 1.24

Canonical Ref: RS 1.24
Metrical Form: मालिनी
Sanskrit (Devanāgarī)
विकचनवकुसुम्भस्वच्छसिन्दूरभासा प्रबलपवनवेगोद्भूतवेगेन तूर्णम् । तटविटपलताग्रालिङ्गनव्याकुलेन दिशि दिशि परिदग्धा भूमयः पावकेन ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): विकचेति ॥ पावकेन दवाग्निना दिशि दिशि भूमयः परि सामस्त्येन दग्धाः परिदग्धाः । किंभूतेन पावकेन — विकचं विकसितं यन्नवं नूतनं कुसुम्भं पुनर्यत् स्वच्छं निर्मलं सिन्दूरं तद्वद् भाः कान्तिर्यस्य तेन । पुनः किं भूतेन — तूर्णं शीघ्रम् प्रबलो योऽसौ पवनस्तेनोद्धूतः प्रकटितो वेगो यस्य तेन । पुनः किं भूतेन — तनवः कृशाः सुक्ष्माः विकचाः विकस्वराश्च ये लताग्रा लतानामग्रप्रदेशाश्च तनुविकचलताग्रास्तेषामालिङ्गनं तत्र व्याकुलस्तेन । `तरुविटपलता` इति वा पाठः । तत्र तरुणां विटपाः शाखाश्च लताग्राश्च तेषामालिङ्गनं तेन व्याकुलो भयकृत् तेन ॥ चन्द्रिकाटीका (मणिरामः): विकचेति ॥ विकचः प्रफुल्लो नवो नूतनः कुसुम्भस्तद्वत् स्वच्छो निर्मलो यः सिन्दूरस्तस्य भा इव भाः कान्तिर्यस्य तेन तथोक्तेन । प्रबलस्य पवनस्य वेगेनोद्भूतः सम्भूतो वेगो यस्य तेन तथोक्तेन । तटविटपानां तीरस्थवृक्षशाखानां लताग्राणां चालिङ्गनेन परिरम्भणेन व्याकुल आकुलस्तेन तथोक्तेन पावकेन वह्निना दिशि दिशि प्रतिदिशं तूर्णं सत्वरं भूमयः परिदग्धाः संदग्धा इत्यर्थः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
विकचनवकुसुम्भस्वच्छसिन्दूरभासा
Lemma: विकच
POS: adj
विकचनवकुसुम्भस्वच्छसिन्दूरभासा
Lemma: नवन्
POS: adj
विकचनवकुसुम्भस्वच्छसिन्दूरभासा
Lemma: कुसुम्भ
POS: mn
विकचनवकुसुम्भस्वच्छसिन्दूरभासा
Lemma: स्वच्छ
POS: adj
विकचनवकुसुम्भस्वच्छसिन्दूरभासा
Lemma: सिन्दूर
POS: mn
विकचनवकुसुम्भस्वच्छसिन्दूरभासा
Lemma: भास्
POS: fn
प्रबलपवनवेगोद्भूतवेगेन
Lemma: प्रबल
POS: adj
प्रबलपवनवेगोद्भूतवेगेन
Lemma: पवन
POS: m
प्रबलपवनवेगोद्भूतवेगेन
Lemma: वेग
POS: m
प्रबलपवनवेगोद्भूतवेगेन
Lemma: उद्भू
POS: 1. P.
प्रबलपवनवेगोद्भूतवेगेन
Lemma: वेग
POS: m
तूर्णम्
Lemma: तूर्णम्
POS: ind
तटविटपलताग्रालिङ्गनव्याकुलेन
Lemma: तट
POS: mn
तटविटपलताग्रालिङ्गनव्याकुलेन
Lemma: विटप
POS: mn
तटविटपलताग्रालिङ्गनव्याकुलेन
Lemma: लता
POS: f
तटविटपलताग्रालिङ्गनव्याकुलेन
Lemma: अग्र
POS: n
तटविटपलताग्रालिङ्गनव्याकुलेन
Lemma: आलिङ्गन
POS: fn
तटविटपलताग्रालिङ्गनव्याकुलेन
Lemma: व्याकुल
POS: adj
दिशि
Lemma: दिश्
POS: f
दिशि
Lemma: दिश्
POS: f
परिदग्धा
Lemma: परिदह्
POS: 1. P.
भूमयः
Lemma: भूमि
POS: f
पावकेन
Lemma: पावक
POS: m
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 1.24. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 1.23) All Verses in Chapter 1 Next Verse (RS 1.25) →