Skip to main content
Search
Ch. 1 RS 1.23
Full Chapter
RS • Chapter 1: Canto 1

RS 1.23

Canonical Ref: RS 1.23
Metrical Form: मालिनी
Sanskrit (Devanāgarī)
श्वसिति विहगवर्गः शीर्णपर्णद्रुमस्थः कपिकुलमुपयाति क्लान्तमद्रेर्निकुञ्जम् । भ्रमति गवययूथः सर्वतस्तोयमिच्छञ्शरभकुलमजिह्मं प्रोद्धरत्यम्बु कूपात् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): श्वसितीति ॥ विहगवर्गः विहगानां वर्गः पक्षिणां वर्गः । सजातीयसमूहो वर्गः। शीर्णानि पतितानि पर्णानि येषां ते एवंविधा ये द्रुमा वृक्षास्तेषामन्तर्मध्ये वसति । पुनः क्लान्तं खेदखिन्नं कपिकुलं कपीनां वानराणां कुलं कपिकुलम् । अर्द्रेः पर्व्तस्य निकुञ्जं वनमुपयाति वनं गच्छतीत्यर्थः । पुनर्गवयानामरण्यगवानां युथः समूहस्तोयं जलमिच्छन् सन् । सर्वतः सर्वस्यां दिशि भ्रमति । पुनः शरभाणामष्टापदजीवानां कुलमजिह्मं कुटिलं यथा स्यात् तथा कूपादम्बु पानीयं प्रोद्धरति निष्कासयतीत्यर्थः ॥ चन्द्रिकाटीका (मणिरामः): श्वसितीति ॥ शीर्णानि गलितानि पर्णानि पत्राणि यस्य स तादृशो यो द्रुमो वृक्षस्तत्र तिष्ठतीति स तथोक्तो विहगवर्गः पक्षिसमुदायः। श्वसिति श्वासोच्छ्वासं करोति । क्लान्तं म्लानं कपिकुलं वानरसमूहोऽर्द्रेः पर्वतस्य निकुञ्जं लतागृहम् । `निकुञ्जकुञ्जौ वा क्लीवे` इत्यमरः (अ.को.2।3।9) । उपयाति गच्छतीत्यर्थः । गवया गोसदृशमृगविशेषास्तेषां यूथः समुदायस्तोयं जलमिच्छन् सर्वत इतस्ततो भ्रमति । अजिह्मकुटिलं शरभानां कुलं शरभा अषटटापदपशुविशेषास्तेषां कुलं समुदायः कूपादम्बु जलं प्रोद्धरति गृह्णातीत्यर्थः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
श्वसिति
Lemma: श्वस्
POS: 1. Ā. • Verb: श्वसिति
विहगवर्गः
Lemma: विहग
POS: m
विहगवर्गः
Lemma: वर्ग
POS: m
शीर्णपर्णद्रुमस्थः
Lemma: शृ
POS: 9. Ā.
शीर्णपर्णद्रुमस्थः
Lemma: पर्ण
POS: mn
शीर्णपर्णद्रुमस्थः
Lemma: द्रुम
POS: m
शीर्णपर्णद्रुमस्थः
Lemma: स्थ
POS: adj
कपिकुलमुपयाति
Lemma: कपि
POS: m
कपिकुलमुपयाति
Lemma: कुल
POS: n
कपिकुलमुपयाति
Lemma: उपया
POS: 2. P. • Verb: उपयाति
क्लान्तमद्रेर्
Lemma: क्लम्
POS: 4. Ā.
क्लान्तमद्रेर्
Lemma: अद्रि
POS: m
निकुञ्जम्
Lemma: निकुञ्ज
POS: m
भ्रमति
Lemma: भ्रम्
POS: 4. Ā. • Verb: भ्रमति
गवययूथः
Lemma: गवय
POS: m
गवययूथः
Lemma: यूथ
POS: mn
सर्वतस्तोयमिच्छञ्शरभकुलमजिह्मं
Lemma: सर्वतस्
POS: ind
सर्वतस्तोयमिच्छञ्शरभकुलमजिह्मं
Lemma: तोय
POS: n
सर्वतस्तोयमिच्छञ्शरभकुलमजिह्मं
Lemma: इष्
POS: 1. P.
सर्वतस्तोयमिच्छञ्शरभकुलमजिह्मं
Lemma: शरभ
POS: m
सर्वतस्तोयमिच्छञ्शरभकुलमजिह्मं
Lemma: कुल
POS: n
सर्वतस्तोयमिच्छञ्शरभकुलमजिह्मं
Lemma: अजिह्म
POS: adj
प्रोद्धरत्यम्बु
Lemma: प्रोद्धृ
POS: 1. P. • Verb: प्रोद्धरति
प्रोद्धरत्यम्बु
Lemma: अम्बु
POS: n
कूपात्
Lemma: कूप
POS: mn
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 1.23. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 1.22) All Verses in Chapter 1 Next Verse (RS 1.24) →