Skip to main content
Search
Ch. 1 RS 1.22
Full Chapter
RS • Chapter 1: Canto 1

RS 1.22

Canonical Ref: RS 1.22
Metrical Form: मालिनी
Sanskrit (Devanāgarī)
पटुतरदवदाहोच्छुष्कसस्य प्ररोहाः परुषपवनवेगोत्क्षिप्तसंशुष्कपर्णाः । दिनकरपरितापक्षीणतोयाः समन्ताद्विदधति भयमुच्चैर्वीक्ष्यमाणा वनान्ताः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): पटुतरेति ॥ वनानामन्ताः वनान्ताः प्रान्ता वीक्ष्यमाणाः सन्तः उच्चैरतिशयेन भयं विदधति भयं कुर्वन्तीत्यर्थः । किं भूताः वनान्ताः — पटुतरोऽधिको योऽसौ दवदाहो दवाग्निसम्बन्धी दाहस्तेन प्लुष्टा दग्धाः सस्यानां शष्पाणां प्ररोहा येषु ते । पुनः किं भूताः — परुषः कठोरो योऽसौ पवनो वायुस्तस्य वेगाधिक्यं तेनोत्क्षिप्तानि उच्छालितानि शुष्कपर्णानि येषां ते । पुनः किं भूताः — समन्तात् सर्वथा दिनकरस्य सूर्यस्य परितापः तस्मात् क्षीणानि स्वल्पीभूतानि शुष्काणि वा तोयानि येषु ते ॥ चन्द्रिकाटीका (मणिरामः): पटुतरेति ॥ पटुतरोऽतिसमर्थो यो दवो दावस्तस्य दावोच्छुष्काः दहनोच्छुष्काः सस्यप्ररोहाः सस्याङ्कुरा येषु ते तथोक्ताः । परुषो निष्ठुरो यः पवनो वायुस्तस्य वेगेनोत्क्षिप्तान्युर्ध्वक्षिप्तानि संशुष्कानि पर्णानि पत्राणि येषु ते तथोक्ताः । समन्तादितस्ततो दिनकरस्य परितापेनातपेन क्षीणानि तोयानि येषु ते तथोक्ताः उच्चैरुच्चप्रदेशतो वीक्ष्यमाणा अवलोक्यमाना वनान्ता अरण्यप्रान्ता भयं विदधतीत्यर्थः । मालिनीवृत्तमेतत् । तल्लक्षणं तु `ननमययुतेयं मालिनी भोगिर्लोकैः` इति ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
पटुतरदवदाहोच्छुष्कसस्यप्ररोहाः
Lemma: पटुतर
POS: adj
पटुतरदवदाहोच्छुष्कसस्यप्ररोहाः
Lemma: दव
POS: m
पटुतरदवदाहोच्छुष्कसस्यप्ररोहाः
Lemma: दाह
POS: m
पटुतरदवदाहोच्छुष्कसस्यप्ररोहाः
Lemma: उच्छुष्क
POS: adj
पटुतरदवदाहोच्छुष्कसस्यप्ररोहाः
Lemma: सस्य
POS: mn
पटुतरदवदाहोच्छुष्कसस्यप्ररोहाः
Lemma: प्ररोह
POS: m
परुषपवनवेगोत्क्षिप्तसंशुष्कपर्णाः
Lemma: परुष
POS: adj
परुषपवनवेगोत्क्षिप्तसंशुष्कपर्णाः
Lemma: पवन
POS: m
परुषपवनवेगोत्क्षिप्तसंशुष्कपर्णाः
Lemma: वेग
POS: m
परुषपवनवेगोत्क्षिप्तसंशुष्कपर्णाः
Lemma: उत्क्षिप्
POS: 6. P.
परुषपवनवेगोत्क्षिप्तसंशुष्कपर्णाः
Lemma: संशुष्क
POS: adj
परुषपवनवेगोत्क्षिप्तसंशुष्कपर्णाः
Lemma: पर्ण
POS: mn
दिनकरपरितापक्षीणतोयाः
Lemma: दिनकर
POS: m
दिनकरपरितापक्षीणतोयाः
Lemma: परिताप
POS: m
दिनकरपरितापक्षीणतोयाः
Lemma: क्षि
POS: 9. Ā.
दिनकरपरितापक्षीणतोयाः
Lemma: तोय
POS: n
समन्ताद्विदधति
Lemma: समन्तात्
POS: ind
समन्ताद्विदधति
Lemma: विधा
POS: 3. Ā. • Verb: विदधति
भयमुच्चैर्
Lemma: भय
POS: n
भयमुच्चैर्
Lemma: उच्चैस्
POS: ind
वीक्ष्यमाणा
Lemma: वीक्ष्
POS: 4. P.
वनान्ताः
Lemma: वनान्त
POS: m
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 1.22. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 1.21) All Verses in Chapter 1 Next Verse (RS 1.23) →