Skip to main content
Search
Ch. 1 RS 1.21
Full Chapter
RS • Chapter 1: Canto 1

RS 1.21

Canonical Ref: RS 1.21
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
सफेनलालावृतवक्त्रसम्पुटं विनिःसृतालोहितजिह्वमुन्मुखम् । तृषाकुलं निःसृतमद्रिगह्वरादवेक्षमाणं महिषीकुलं जलम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): सफेनेति ॥ महिष्याः कुलं महिषीकुलमदिग्रह्वरात् । अर्द्रेः पर्वतस्य गह्वरः कन्दरा तस्मान्निःसृतं निर्गतं । किं भूतं महिषीकुलम् — सफेनञ्च तल्लालाकुलञ्च सफेनलालाकुलमीदृशं वक्त्रसम्पुटं मुखसङ्कोचं सम्पुटं यस्य तत् । पुनः किंभूतम् — विनिर्याता मुखाद् बहिर्निर्गता आ समन्तात् लोहिता रक्ता जिह्वा यस्य तत् । पुनः किंभूतम् — उन्मुखं उद् ऊर्ध्वीकृतं मुखं येन तत् । पुनः — तृषा तृष्णया आकुलं व्याप्तं । पुनः किं — जलमवेक्षमाणम् अवेक्षते इत्यवेक्ष्यमाणम् । वंशस्थवृत्तानीमानि। तल्लक्षणं — `जतौ तु वंशस्थ मुदीरितं जरौ ॥ चन्द्रिकाटीका (मणिरामः): सफेनेति ॥ सफेनं लोलं चञ्चलमायतं दीर्घं, वक्त्रसम्पुटं मुखसम्पुटं यस्य तत् तथोक्तम् । विनिःसृता निर्गता आसमन्ताल्लोहिता रक्ता जिह्वा यस्य तत् तथोक्तमुन्मुखमूर्ध्वमुखम् तृषा पिपासमाकुलं व्याकुलमतएव जलं सलिलमवेक्ष्यमाणं निरीक्षमाणं महिषीकुलमद्रिगह्वराद् गिरिगह्वरान्निःसृतं निर्गलमित्यर्थः । `अद्रिगोत्रगिरिर्ग्रावा` इत्यमरः (अ.को.2।3।1)

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
सफेनलालावृतवक्त्रसम्पुटं
Lemma: सफेन
POS: adj
सफेनलालावृतवक्त्रसम्पुटं
Lemma: लाला
POS: f
सफेनलालावृतवक्त्रसम्पुटं
Lemma: आवृ
POS: 5. Ā.
सफेनलालावृतवक्त्रसम्पुटं
Lemma: वक्त्र
POS: n
सफेनलालावृतवक्त्रसम्पुटं
Lemma: सम्पुट
POS: mn
विनिःसृतालोहितजिह्वमुन्मुखम्
Lemma: विनिःसृ
POS: 1. Ā.
विनिःसृतालोहितजिह्वमुन्मुखम्
Lemma: आलोहित
POS: adj
विनिःसृतालोहितजिह्वमुन्मुखम्
Lemma: जिह्वा
POS: f
विनिःसृतालोहितजिह्वमुन्मुखम्
Lemma: उन्मुख
POS: adj
तृषाकुलं
Lemma: तृषा
POS: f
तृषाकुलं
Lemma: आकुल
POS: adj
निःसृतमद्रिगह्वरादवेक्षमाणं
Lemma: निःसृ
POS: 1. Ā.
निःसृतमद्रिगह्वरादवेक्षमाणं
Lemma: अद्रि
POS: m
निःसृतमद्रिगह्वरादवेक्षमाणं
Lemma: गह्वर
POS: n
निःसृतमद्रिगह्वरादवेक्षमाणं
Lemma: अवेक्ष्
POS: 1. P.
महिषीकुलं
Lemma: महिषी
POS: f
महिषीकुलं
Lemma: कुल
POS: n
जलम्
Lemma: जल
POS: n
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 1.21. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 1.20) All Verses in Chapter 1 Next Verse (RS 1.22) →