Skip to main content
Search
Ch. 1 RS 1.20
Full Chapter
RS • Chapter 1: Canto 1

RS 1.20

Canonical Ref: RS 1.20
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
रविप्रभोद्भिन्नशिरोमणिप्रभो विलोलजिह्वाद्वयलीढमारुतः । विषाग्निसूर्यातपतापितः फणी न हन्ति मण्डूककुलं तृषाकुलः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): रवीति ॥ फणी सपा मण्डूककुलं मण्डूकानां कुलं वंशतस्तं न हन्ति। किंभूतः फणी — रवेः सूर्यस्य प्रभा कान्तिस्तयोद्भिन्ना उत्प्राबल्येन भिन्ना भेदं प्राप्ता शिरोमणिप्रभा शिरस्थमणिप्रभा यस्य स तथा । पुनः किं भूतः — विलोलं चपलञ्च तज्जिह्वाद्वयं च विलोलजिह्वाद्वयं तेन लीढः आस्वादितो मारुतो वायुर्येन सः। पुनः किंभूतः — विषवत्तीव्रोऽग्निर्बहूष्णो योऽसौ सूर्यातपस्तेन तापितः । पुनः किंभूतः — तृषा तृष्णयाकुलो व्याप्तः । अनेनातिघर्माधिक्यं सुचितम् ॥ चन्द्रिकाटीका (मणिरामः): रवीति ॥ रविप्रभया सूर्यकान्त्योद्भिन्ना निर्गता शिरोमणेर्मूर्धन्यमणेः प्रभा कान्तिर्यस्य स तथोक्तः । विलोलेन चञ्चलेन जिह्वाद्वयेन लीढ आलीढो मारुतः पवनो येन स तथोक्तः । विषाग्निसूर्यातपतापितो विषं गरलमग्निर्दावानलः सूर्यातप उष्णं तैस्तापितोऽत एव तृषाकुलः फणी सर्पो मण्डूककुलं भेकसमूहं न हन्ति न मारयतीत्यर्थः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
रविप्रभोद्भिन्नशिरोमणिप्रभो
Lemma: रवि
POS: m
रविप्रभोद्भिन्नशिरोमणिप्रभो
Lemma: प्रभा
POS: f
रविप्रभोद्भिन्नशिरोमणिप्रभो
Lemma: उद्भिद्
POS: 7. Ā.
रविप्रभोद्भिन्नशिरोमणिप्रभो
Lemma: शिरोमणि
POS: m
रविप्रभोद्भिन्नशिरोमणिप्रभो
Lemma: प्रभा
POS: f
विलोलजिह्वाद्वयलीढमारुतः
Lemma: विलोल
POS: adj
विलोलजिह्वाद्वयलीढमारुतः
Lemma: जिह्वा
POS: f
विलोलजिह्वाद्वयलीढमारुतः
Lemma: द्वय
POS: n
विलोलजिह्वाद्वयलीढमारुतः
Lemma: लिह्
POS: 4. P.
विलोलजिह्वाद्वयलीढमारुतः
Lemma: मारुत
POS: m
विषाग्निसूर्यातपतापितः
Lemma: विषाग्नि
POS: m
विषाग्निसूर्यातपतापितः
Lemma: सूर्य
POS: m
विषाग्निसूर्यातपतापितः
Lemma: आतप
POS: m
विषाग्निसूर्यातपतापितः
Lemma: तापय्
POS: 10. Ā.
फणी
Lemma: फणिन्
POS: m
न
Lemma: न
POS: ind
हन्ति
Lemma: हन्
POS: 6. P. • Verb: हन्ति
मण्डूककुलं
Lemma: मण्डूक
POS: m
मण्डूककुलं
Lemma: कुल
POS: n
तृषाकुलः
Lemma: तृषा
POS: f
तृषाकुलः
Lemma: आकुल
POS: adj
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 1.20. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 1.19) All Verses in Chapter 1 Next Verse (RS 1.21) →