Skip to main content
Search
Ch. 1 RS 1.19
Full Chapter
RS • Chapter 1: Canto 1

RS 1.19

Canonical Ref: RS 1.19
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
समुद्धृताशेषमृणालजालकं विपन्नमीनं द्रुतभीतसारसम् । परस्परोत्पीडनसंहतैर्गजैः कृतं सरः सान्द्रविमर्दकर्दमम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): समुद्धृतेति ॥ गजैर्हस्तिभिः सरः तडागः सान्द्रः सघनो विमर्देनावगाहेन कर्दमो यत्र तदीदृशं तत् कृतम् । किं भूतं सरः — समुद्धतान्युत्पातितान्यशेषमृणालानां समस्तकमलतन्तूनां जालकानि समूहानि यस्मात् तत् । पुनः किं भूतं — विपन्ना स्वेदखिन्ना उपविष्टा वा मीना यत्र तद्विपन्नमीनं । अद्भुतवीतासारसं निषन्नमीनं च तदद्भुतवीतरारसञ्च तत् । किंभूतैर्गजैः — परस्परमुत्पीडनेन संहता एकत्रीभूताः परस्परोत्पीडनसंहतास्तैः ॥ चन्द्रिकाटीका (मणिरामः): समुद्धृतेति ॥ समुद्धृतं निष्कासितमशेषं सम्पूर्णं मृणालजालकं विससमूहो यस्मात् तत् तथोक्तं विपन्नमीनं समापन्नमीनं । द्रुताः पलायिता भीताश्च ते सारसाश्च यस्मात् तत् तथोक्तं सरः सरोवरं परस्परोत्पीडने संहतैः संलग्नैर्गजैः सान्द्रो निविडो विमर्दः सङ्ग्रामः कर्दम: पङ्कश्च यस्मिन् तत् तथा । यद्वा सान्द्रो निविडो विमर्देन सङ्ग्रामेण कर्दमः पङ्को यस्मिन् तत् तथाभूतमित्यर्थः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
समुद्धृताशेषमृणालजालकं
Lemma: समुद्धृ
POS: 2. P.
समुद्धृताशेषमृणालजालकं
Lemma: अशेष
POS: m
समुद्धृताशेषमृणालजालकं
Lemma: मृणाल
POS: mn
समुद्धृताशेषमृणालजालकं
Lemma: जालक
POS: n
विपन्नमीनं
Lemma: विपद्
POS: 4. P.
विपन्नमीनं
Lemma: मीन
POS: m
द्रुतभीतसारसम्
Lemma: द्रु
POS: 1. Ā.
द्रुतभीतसारसम्
Lemma: भी
POS: 1. Ā.
द्रुतभीतसारसम्
Lemma: सारस
POS: m
परस्परोत्पीडनसंहतैर्गजैः
Lemma: परस्पर
POS: adj
परस्परोत्पीडनसंहतैर्गजैः
Lemma: उत्पीडन
POS: n
परस्परोत्पीडनसंहतैर्गजैः
Lemma: संहन्
POS: 2. P.
परस्परोत्पीडनसंहतैर्गजैः
Lemma: गज
POS: m
कृतं
Lemma: कृ
POS: 2. Ā.
सरः
Lemma: सरस्
POS: n
सान्द्रविमर्दकर्दमम्
Lemma: सान्द्र
POS: adj
सान्द्रविमर्दकर्दमम्
Lemma: विमर्द
POS: m
सान्द्रविमर्दकर्दमम्
Lemma: कर्दम
POS: mn
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 1.19. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 1.18) All Verses in Chapter 1 Next Verse (RS 1.20) →