Skip to main content
Search
Ch. 1 RS 1.18
Full Chapter
RS • Chapter 1: Canto 1

RS 1.18

Canonical Ref: RS 1.18
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
विवस्वता तीक्ष्णतरांशुमालिना सपङ्कतोयात्सरसोऽभितापितः । उत्प्लुत्य भेकस्तृषितस्य भोगिनः फणातपत्रस्य तले निषीदति ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): विवस्वता ॥ भेको मण्डूकस्तृषितस्य तृषाकान्तस्य भोगिनः सर्पस्य फणातपत्रस्य फणैवातपत्रं छत्रं फणातपत्रं तस्य तले निषीदत्युपविशति । किं कृत्वा — सरसतडागादुत्प्लुतस्य निःसृत्य । किं विशिष्टात् सरसः — हि निश्चयं विवस्वता सूर्येणसह्ययोयात् असह्यं सोढुमशक्यम् अर्थात् तप्तं तोयं यस्य तत् तथा तस्मात् । किं भूतेन विवस्वता — तीक्ष्णतरांशुमालिना । अतिशयेन तीक्ष्णग्रीष्मत्वात् तीव्रा येऽंशवः किरणास्तीक्ष्णतरांशवस्तान् मलते धारयतीति तथा तेन । मल मल्लधारणे धातुः (भ्वादि 494-495) । कथं भूतो भेकोऽभितापितो विवस्वतेत्यनुवर्त्तनीयम् । अनेन घर्म्मेबाहूल्यं सूचितम् ॥ चन्द्रिकाटीका (मणिरामः): विवस्वतेति ॥ तीक्ष्णतरैः प्रचण्डतरैरंशुभिः किरणैर्मलिते शोभते तथोक्तेन विवस्वता सूर्येणाभितापितो भेको मण्डूकः । `भेको मण्डूकवर्षाभूः` इत्यमरः (अ.को.1।10।24) । पङ्कतोयेन कर्दमजलेन सहितं युक्तं तस्मात् तथोक्तात् सरसः सरोवरादुत्प्लुतस्य तृषितस्य भोगिनः पन्नगस्य । `डरगः पन्नगो भोगी` इत्यमरः (अ.को.1।8।8) । फणैवातपत्रं छत्रं तस्य तलेऽधोभागे निषीदति । तिष्ठतीत्यर्थः ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
विवस्वता
Lemma: विवस्वन्त्
POS: m
तीक्ष्णतरांशुमालिना
Lemma: तीक्ष्णतर
POS: adj
तीक्ष्णतरांशुमालिना
Lemma: अंशु
POS: m
तीक्ष्णतरांशुमालिना
Lemma: मालिन्
POS: adj
सपङ्कतोयात्
Lemma: स
POS: ind
सपङ्कतोयात्
Lemma: पङ्क
POS: mn
सपङ्कतोयात्
Lemma: तोय
POS: n
सरसो
Lemma: सरस्
POS: n
ऽभितापितः
Lemma: अभितापय्
POS: 10. P.
उत्प्लुत्य
Lemma: उत्प्लु
POS: 1. P.
भेकस्तृषितस्य
Lemma: भेक
POS: m
भेकस्तृषितस्य
Lemma: तृषित
POS: adj
भोगिनः
Lemma: भोगिन्
POS: m
फणातपत्रस्य
Lemma: फण
POS: m
फणातपत्रस्य
Lemma: आतपत्र
POS: n
तले
Lemma: तल
POS: mn
निषीदति
Lemma: निषद्
POS: 1. Ā. • Verb: निषीदति
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 1.18. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 1.17) All Verses in Chapter 1 Next Verse (RS 1.19) →