Skip to main content
Search
Ch. 1 RS 1.17
Full Chapter
RS • Chapter 1: Canto 1

RS 1.17

Canonical Ref: RS 1.17
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
सभद्रमुस्तं परिशुष्ककर्दमं सरः खनन्नायतपोतृमण्डलैः । रवेर्मयूखैरभितापितो भृशं वराहयूथो विशतीव भूतलम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): सभद्रेति ॥ ॥ वराहयूथः वराहाणां शूकराणां यूथः समूहो भूतलं पृथ्वीतलं विशतीव प्रवेशं करोतीव । किं कुर्वन् । आयता दीर्घा ये पोतृमण्डला मुखाग्रमण्डलास्तथा तैः सरः खनन् । कथं भूतं सारः — सभद्रमुस्तम् । भद्रमुस्तेन गुन्द्रया सह वर्तते इति तत् । पुनः कथं भूतं — परि सामस्त्येन पाण्डुः श्वेतवर्णः अर्थाच्छुष्कः कर्दमो पङ्को यत्र तत् तथा तत् । कथं भूतः वराहयूथः — प्रदीप्ता सोढुमशक्या भाः कान्तिर्यस्य स प्रदीप्तभास्तेन रविणा सूर्येण अभितापितः ॥ चन्द्रिकाटीका (मणिरामः): सभद्रेति ॥ भद्रमुस्तेन `भद्रमोथा` इति प्रसिद्धेन सहितं परिशुष्कः कर्दमः पङ्को यस्मिस्तत्तथोक्तं सरः सरोवरमायतानि दीर्घाणि यानि पोतृमण्डानि तैः कृत्वा खनन् । खेः सूर्यस्य मयूखैः किरणैभृशंअत्यन्तमभितापितः सन्तापितो वराहयूथः सूकर समूहः । `वराहः सूकरो धृष्टिः` इत्यमरः (अ.को.2।5।3) । भूतलं भूगर्भं विशतौव प्रविशतीवेत्युतप्रेक्षा ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
सभद्रमुस्तं
Lemma: सभद्रमुस्त
POS: adj
परिशुष्ककर्दमं
Lemma: परिशुष्क
POS: n
परिशुष्ककर्दमं
Lemma: कर्दम
POS: mn
सरः
Lemma: सरस्
POS: n
खनन्न्
Lemma: खन्
POS: 2. P.
आयतपोतृमण्डलैः
Lemma: आयम्
POS: 6. P.
आयतपोतृमण्डलैः
Lemma: पोतृ
POS: m
आयतपोतृमण्डलैः
Lemma: मण्डल
POS: mfn
रवेर्मयूखैरभितापितो
Lemma: रवि
POS: m
रवेर्मयूखैरभितापितो
Lemma: मयूख
POS: mn
रवेर्मयूखैरभितापितो
Lemma: अभितापय्
POS: 10. P.
भृशं
Lemma: भृशम्
POS: ind
वराहयूथो
Lemma: वराह
POS: m
वराहयूथो
Lemma: यूथ
POS: mn
विशतीव
Lemma: विश्
POS: 4. P. • Verb: विशति
विशतीव
Lemma: इव
POS: ind
भूतलम्
Lemma: भू
POS: f
भूतलम्
Lemma: तल
POS: mn
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 1.17. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 1.16) All Verses in Chapter 1 Next Verse (RS 1.18) →