Skip to main content
Search
Ch. 1 RS 1.16
Full Chapter
RS • Chapter 1: Canto 1

RS 1.16

Canonical Ref: RS 1.16
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
हुताग्निकल्पैः सवितुर्गभस्तिभिः कलापिनः क्लान्तशरीरचेतसः । न भोगिनं घ्नन्ति समीपवर्तिनं कलापचक्रेषु निवेशिताननम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): हुता ॥ कलापिनो मयूरा भोगिनं सर्पं न घ्नन्ति । किं भूताः कलापिनः — सवितुः सूर्यस्य मरीचिभिरुस्रैः क्लान्तं खेदोपहतं शरीरस्य चेतो येषां ते तथा । किं भूतैः मरीचिभिः — हुताग्निकल्पैः हुतश्चासावग्निश्च हुताग्निः ईषद्धुताग्निवदिति हुताग्निकल्पास्तैः । ईषदपरिसमाप्तौ कल्पब्देश्यदेशीयरः (पा. 5।3।67) हुतो योऽसौ अग्निर्हुताग्निस्तेन कल्पास्तुल्यास्तैः । किं भूतं भोगिनं — समीपे वर्तते यः सः समीपवर्ती तम् । पुनः — कलापचक्रेषु बहिर्मण्डलेषु निवेशितं स्थापितम् आननं येन तं निवेशिताननम् । अत्र मयूरा अपि हततेजसो जाता इत्यर्थः ॥ चन्द्रिकाटीका (मणिरामः): हुताग्निकल्पैरिति ॥ सवितुः सूर्यस्य हुताग्निकल्पैर्हुतश्चसावग्निश्च तत्कल्पैस्तत्सदृशैः । तद्वदत्यन्तप्रचण्डैरिति यावत् । गभस्तिभिरंशुभिः क्लान्तं म्लानं शरीरं वपुश्चेतश्च येषां ते तथोक्ताः कलापिनो मयूराः कलापचक्रेषु बर्हमण्डलेषु निवेशितं प्रवेशितमाननं मुखं येन तत्तथोक्तं समीपवर्तिनं भोगिनं सर्गं न घ्नन्ति । न मारयन्तीत्यर्थः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
हुताग्निकल्पैः
Lemma: हु
POS: 3. Ā.
हुताग्निकल्पैः
Lemma: अग्नि
POS: m
हुताग्निकल्पैः
Lemma: कल्प
POS: adj
सवितुर्गभस्तिभिः
Lemma: सवितृ
POS: m
सवितुर्गभस्तिभिः
Lemma: गभस्ति
POS: m
कलापिनः
Lemma: कलापिन्
POS: m
क्लान्तशरीरचेतसः
Lemma: क्लम्
POS: 4. Ā.
क्लान्तशरीरचेतसः
Lemma: शरीर
POS: n
क्लान्तशरीरचेतसः
Lemma: चेतस्
POS: n
न
Lemma: न
POS: ind
भोगिनं
Lemma: भोगिन्
POS: m
घ्नन्ति
Lemma: हन्
POS: 6. P. • Verb: घ्नन्ति
समीपवर्तिनं
Lemma: समीप
POS: n
समीपवर्तिनं
Lemma: वर्तिन्
POS: adj
कलापचक्रेषु
Lemma: कलाप
POS: mn
कलापचक्रेषु
Lemma: चक्र
POS: n
निवेशिताननम्
Lemma: निवेशय्
POS: 10. Ā.
निवेशिताननम्
Lemma: आनन
POS: n
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 1.16. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 1.15) All Verses in Chapter 1 Next Verse (RS 1.17) →