Skip to main content
Search
Ch. 1 RS 1.15
Full Chapter
RS • Chapter 1: Canto 1

RS 1.15

Canonical Ref: RS 1.15
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
विशुष्ककण्ठोद्गतसीकराम्भसो गभस्तिभिर्भानुमतोऽनुतापिताः । प्रवृद्धतृष्णोपहता जलार्थिनो न दन्तिनः केसरिणोऽपि बिभ्यति ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): विशुष्केति ॥ दन्तिनो गजाः केसरिणः सिंहादपि न बिभ्यति भयं न प्राप्नुवन्ति । किंभूता दन्तिनाः — विशुष्को योऽसौ कण्ठस्तस्मदाहृतानि आकृष्टानि अम्भसः शीकराणि शीकराम्भांसि शुण्डान्तःस्थलजललवा यैस्ते । `वमधुः करशीकरः` इति हैमः । पुनः किंभूताः — भानुमतः सूर्यस्यगभस्तिभिः किरणैरभितापिताः अभि समन्तात् तापिताः। पुनः — प्रवृद्धा वृद्धिं प्राप्ता या तृष्णा तयोपहता निरुद्योगाहतप्रायाः प्रवृद्धतृष्णोपहताः । पुनः किंभूतः — जलमर्थयन्ति याचयन्तीति जलार्थिनः । अनेन गजा अपि निस्तेजत्वात् सिंहान्नापसर्पन्तीति ग्रीष्मातिरेको वर्णितः ॥ चन्द्रिकाटीका (मणिरामः): विशुष्केति ॥ विशुष्केण कण्ठेनाहृतं गृहीतं सीकराम्भस्तुषारजलं यैस्ते तथोक्ता भानुमतः किरणमालिनः सूर्यस्य गभस्तिभी रश्मिभिरनुतापिताः सन्तापिताः । प्रवृद्धतृष्णयात्यधिकपिपासयोपहताः पीडिताः । अतएव जलार्थिना जलकाङ्क्षिणो दन्तिनो गजाः केसरिणोऽपि सिंहादपि न बिभ्यति भयं न प्राप्नुवन्तीत्यर्थः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
विशुष्ककण्ठोद्गतसीकराम्भसो
Lemma: विशुष्क
POS: adj
विशुष्ककण्ठोद्गतसीकराम्भसो
Lemma: कण्ठ
POS: m
विशुष्ककण्ठोद्गतसीकराम्भसो
Lemma: उद्गम्
POS: 6. P.
विशुष्ककण्ठोद्गतसीकराम्भसो
Lemma: सीकर
POS: m
विशुष्ककण्ठोद्गतसीकराम्भसो
Lemma: अम्भस्
POS: n
गभस्तिभिर्
Lemma: गभस्ति
POS: m
भानुमतो
Lemma: भानुमन्त्
POS: m
ऽनुतापिताः
Lemma: अनुतापय्
POS: 10. P.
प्रवृद्धतृष्णोपहता
Lemma: प्रवृध्
POS: 1. Ā.
प्रवृद्धतृष्णोपहता
Lemma: तृष्णा
POS: f
प्रवृद्धतृष्णोपहता
Lemma: उपहन्
POS: 2. P.
जलार्थिनो
Lemma: जल
POS: n
जलार्थिनो
Lemma: अर्थिन्
POS: adj
न
Lemma: न
POS: ind
दन्तिनः
Lemma: दन्तिन्
POS: m
केसरिणोऽपि
Lemma: केसरिन्
POS: m
केसरिणोऽपि
Lemma: अपि
POS: ind
बिभ्यति
Lemma: भी
POS: 1. Ā. • Verb: बिभ्यति
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 1.15. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 1.14) All Verses in Chapter 1 Next Verse (RS 1.16) →