Skip to main content
Search
Ch. 1 RS 1.14
Full Chapter
RS • Chapter 1: Canto 1

RS 1.14

Canonical Ref: RS 1.14
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
तृषा महत्या हतविक्रमोद्यमः श्वसन्मुहुर्दूरविदारिताननः । न हन्त्यदूरेऽपि गजान्मृगेश्वरो विलोलजिह्वश्चलिताग्रकेसरः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): तृषेति ॥ मृगाधिपः सिंहोऽदूरे समीपे गजान् हस्तिनो न हन्ति । किं भूतो मृगाधिपः — महत्याऽधिकतरया तृषा कृत्वा हृतो गतो विक्रमस्य पराक्रमस्योद्यमो यस्य सः अथवा विक्रमलक्षण उद्यमो यस्य सः । पुनः किंभूतः — मुहुवरिं वारं श्वसन् । पुनः किंभूतः — दूरविदारिताननः दूरमतिशयेन विदारितं प्रसारितं आननं मुखं येन सः । पुनः किंभूतः — विलोला चपला जिह्वा रसना यस्य सः । पुनः किंभूतः — स्खलिताग्रकेसरः स्खलिताश्चलिता अग्रकेसराः केसराग्राणि यस्य सः । ग्रीष्माधिक्यात् सिंहस्यापि पराक्रमः क्षीणत्वमापन्नः किं पुनः कामिनामिति भावः ॥ चन्द्रिकाटीका (मणिरामः): तृषेति ॥ महत्या तृषा पिपासया हतो विक्रमस्य पराक्रमस्योद्यम उद्योगो यस्य स तथोक्तः । मुहुर्वारं वारं दूराद् विदारितं विस्तारितमाननं मुखं येन स तथोक्तः । विलोलजिह्वश्चलिताश्चञ्चला अग्रकेसरा अग्रसटा यस्य स तथोक्तो मृगेश्वरः सिंहः । `सिंहो मृगेन्द्रः पञ्चास्यः` इत्यमरः (अ.को.2।5।1) । अदूरेऽपि समीपे वर्तमानमिति शेषः । गजान् मातङ्गान् न हन्ति मारयतीत्यर्थः । न हि जायते स्वस्मिन् क्लेशिते परहनने प्रवृत्तिरिति भावः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
तृषा
Lemma: तृष्
POS: f
महत्या
Lemma: महत्
POS: adj
हतविक्रमोद्यमः
Lemma: हन्
POS: 6. P.
हतविक्रमोद्यमः
Lemma: विक्रम
POS: m
हतविक्रमोद्यमः
Lemma: उद्यम
POS: m
श्वसन्मुहुर्
Lemma: श्वस्
POS: 1. Ā.
श्वसन्मुहुर्
Lemma: मुहुर्
POS: ind
दूरविदारिताननः
Lemma: दूर
POS: adj
दूरविदारिताननः
Lemma: विदारय्
POS: 10. Ā.
दूरविदारिताननः
Lemma: आनन
POS: n
न
Lemma: न
POS: ind
हन्त्यदूरेऽपि
Lemma: हन्
POS: 6. P. • Verb: हन्ति
हन्त्यदूरेऽपि
Lemma: अदूर
POS: adj
हन्त्यदूरेऽपि
Lemma: अपि
POS: ind
गजान्मृगेश्वरो
Lemma: गज
POS: m
गजान्मृगेश्वरो
Lemma: मृगेश्वर
POS: m
विलोलजिह्वश्चलिताग्रकेसरः
Lemma: विलोल
POS: adj
विलोलजिह्वश्चलिताग्रकेसरः
Lemma: जिह्वा
POS: f
विलोलजिह्वश्चलिताग्रकेसरः
Lemma: चल्
POS: 1. Ā.
विलोलजिह्वश्चलिताग्रकेसरः
Lemma: अग्र
POS: n
विलोलजिह्वश्चलिताग्रकेसरः
Lemma: केसर
POS: mn
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 1.14. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 1.13) All Verses in Chapter 1 Next Verse (RS 1.15) →