Skip to main content
Search
Ch. 1 RS 1.13
Full Chapter
RS • Chapter 1: Canto 1

RS 1.13

Canonical Ref: RS 1.13
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
रवेर्मयूखैरभितापितो भृशं विदह्यमानः पथि तप्तपांसुभिः । अवाङ्मुखो जिह्मगतिः श्वसन्मुहुः फणी मयूरस्य तले निषीदति ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): रवेर्मयूखैरिति ॥ फणी सर्पो मयूरस्य तले निषीदति तिष्ठति । कथंभूतः फणी — रवेः सूर्यस्य मयूखैः किरणैर्भृशमभितापितः सन्तापितः । पुनः किंभूतः फणी — पथि मार्गे तप्तांसुभिः तप्तरेणुभिर्विदह्यमानो विशेषेण दह्यमानः । पुनः किंभूतोऽवाक्फणः — अवाचोऽधोमुखाः फणा यस्य सोऽवाक्फणः । पुनः किंभूतो — जिह्मगतिः जिह्मा वक्रा मन्दा च गतिर्यस्य स जिह्मगतिः । `जिह्मो वक्रश्च मन्दश्च` । फणी मयूरेण सह स्वभावस्य वैरमपि न स्मरतीत्यर्थः ॥ चन्द्रिकाटीका (मणिरामः): रवेरिति ॥ रवेः सूर्यस्य मयूखैः किरणैः । `किरणोऽस्रमयूखांशु गभस्तिघृणिरश्मयः` इत्यमरः (अ.को.1।3।37) । अभितापितः सन्तापितः। भृशमत्यन्तं पथि मार्गे तप्तपांसुभिरुष्णरजोभिर्विदह्यमानः अवाङ्मुखोऽधोमुखो जिह्मगतिः कुटिलगमनो मुहूर्वारं वारं श्वसञ्छ्वासोच्छ्वासं कुर्वन् फणी सर्पो मयूरस्य वर्हिणः । `मयूरो वर्हिणो वर्ही` इत्यमरः (अ.को.2।5।32) । तलेऽधोभागे निषीदत्यवतिष्ठत इत्यर्थः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
रवेर्मयूखैर्
Lemma: रवि
POS: m
रवेर्मयूखैर्
Lemma: मयूख
POS: mn
अभितापितो
Lemma: अभितापय्
POS: 10. P.
भृशं
Lemma: भृशम्
POS: ind
विदह्यमानः
Lemma: विदह्
POS: 4. Ā.
पथि
Lemma: पथिन्
POS: m
तप्तपांसुभिः
Lemma: तप्
POS: 4. Ā.
तप्तपांसुभिः
Lemma: पांसु
POS: m
अवाङ्मुखो
Lemma: अवाङ्मुख
POS: adj
जिह्मगतिः
Lemma: जिह्म
POS: adj
जिह्मगतिः
Lemma: गति
POS: f
श्वसन्मुहुः
Lemma: श्वस्
POS: 1. Ā.
श्वसन्मुहुः
Lemma: मुहुर्
POS: ind
फणी
Lemma: फणिन्
POS: m
मयूरस्य
Lemma: मयूर
POS: m
तले
Lemma: तल
POS: mn
निषीदति
Lemma: निषद्
POS: 1. Ā. • Verb: निषीदति
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 1.13. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 1.12) All Verses in Chapter 1 Next Verse (RS 1.14) →