Skip to main content
Search
Ch. 1 RS 1.12
Full Chapter
RS • Chapter 1: Canto 1

RS 1.12

Canonical Ref: RS 1.12
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
सविभ्रमैः सस्मितजिह्मवीक्षितैर्विलासवत्यो मनसि प्रवासिनाम् । अनङ्गसंदीपनमाशु कुर्वते यथा प्रदोषाः शशिचारुभूषणाः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): सविभ्रमैरिति ॥ विलासवत्यो विलासो विद्यते यासां ता विलासवत्यो नार्य आशु शीघ्रं सविभ्रमैर्भ्रूविलाससहितैः सस्मितजिह्मं सहास्यकुटिलं यथा स्थात्तथा ईक्षितैर्दर्शनैः कृत्वा प्रसङ्गिनां स्त्रीणां प्रकर्षेण सङ्गः संयोगोऽस्त्येषामिति प्रसङ्गिनस्तेषाम् अर्थात् कामिनां मनसि चेतस्यनङ्गसन्दीपनं कामोद्दीप्तिं कुर्वते । क इव — यथा प्रदोषाः प्रसङ्गिनां मनसि अनङ्गसन्दीपनं कुर्वते । किंभूताः प्रदोषाः —शशी चन्द्र इव चारु मनोहरं भूषणं येषां ते तथा ॥ चन्द्रिकाटीका (मणिरामः): सविभ्रमैरिति ॥ यथा शशिचारुभूषणः शश्येव चन्द्र एव चारु सुन्दर भूषणमेषां ते तथोक्ताः प्रदोषाः सन्ध्यासमयाः प्रवासिनां मन्स्यन्तःकरणेऽनङ्गसन्दीपनं कामसन्दीपनं कुर्वते । तथेत्यध्याहार्यम् । शशिचारुभूषणाः शशी चन्द्रस्तद्वच्चारुणि सुन्दराणि भूषणानि यासां तास्तथोक्ताः । विलासवत्यो विलासिन्यः सविभ्रमैर्विभ्रमसहितैः । सस्मितानि सहास्यानि जिह्यानि कुटिलानि वीक्षितानि निरीक्षणानि तैः कृत्वा प्रवासिनां मनस्याशु झटित्यनङ्गसन्दीपनं कामस्योद्दीपनं कुर्वत इत्यर्थः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
सविभ्रमैः
Lemma: स
POS: ind
सविभ्रमैः
Lemma: विभ्रम
POS: m
सस्मितजिह्मवीक्षितैर्
Lemma: स
POS: ind
सस्मितजिह्मवीक्षितैर्
Lemma: स्मित
POS: n
सस्मितजिह्मवीक्षितैर्
Lemma: जिह्म
POS: adj
सस्मितजिह्मवीक्षितैर्
Lemma: वीक्षित
POS: n
विलासवत्यो
Lemma: विलासवत्
POS: adj
मनसि
Lemma: मनस्
POS: n
प्रवासिनाम्
Lemma: प्रवासिन्
POS: adj
अनङ्गसंदीपनमाशु
Lemma: अनङ्ग
POS: m
अनङ्गसंदीपनमाशु
Lemma: संदीपन
POS: n
अनङ्गसंदीपनमाशु
Lemma: आशु
POS: adj
कुर्वते
Lemma: कृ
POS: 2. Ā. • Verb: कुर्वते
यथा
Lemma: यथा
POS: ind
प्रदोषाः
Lemma: प्रदोष
POS: m
शशिचारुभूषणाः
Lemma: शशिन्
POS: m
शशिचारुभूषणाः
Lemma: चारु
POS: adj
शशिचारुभूषणाः
Lemma: भूषण
POS: n
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 1.12. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 1.11) All Verses in Chapter 1 Next Verse (RS 1.13) →