Skip to main content
Search
Ch. 1 RS 1.28
Full Chapter
RS • Chapter 1: Canto 1

RS 1.28

Canonical Ref: RS 1.28
Metrical Form: मालिनी
Sanskrit (Devanāgarī)
कमलवनचिताम्बुः पाटलामोदरम्यः सुखसलिलनिषेकः सेव्यचन्द्रांशुहारः । व्रजतु तव निदाघः कामिनीभिः समेतो निशि सुललितगीते हर्म्यपृष्ठे सुखेन ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): कमलेति ॥ कविर्भोजराजं प्रति वदति — हे राजन तव निदाघो ग्रीष्मः। हर्म्यपृष्ठे गृहपरिभोगे । सुखेन कामिनीभिर्ललनाभिः समेतं सार्द्धम् । व्रजतु गच्छतु । कैः — निशि रात्रौ सुललितगीतैः । सु अतिशयेन ललितानि मनोहराणि यानि गीतानि तैः । किंभूतो निदाघः — कमलवनैः पङ्कजकाननैः निश्चितं व्याप्तमम्बु यत्र सः। पुनः कीदृशः — पाटलानामामोदः परिमलः तेन रम्यो रमणीयः । पुनः कीदृशः — सुखः सुखदायी सलिलनिषेको जलसेवनं स्नानादिर्यत्र स सुखसलिलनिषेकः । पुनः कीदृशः — सेव्यः सेवनीयश्चन्द्रांशुमयो हारो यत्र सः । अत्रेतानि वस्तूनि ग्रीष्मतापहारीणि भवन्तीति भावः । यदुक्तम् — `स्नानं सुशीतं सलिलं सरोजं सरोवरः शीतकरः सुगन्धः । सन्ध्या स्त्रियः सेकतिकी तटानि, ग्रीष्मेऽतिहर्षाय भवन्त्यभूरि ॥` मालिनीवृत्तानीमानि सप्तकाव्यानि । तल्लक्षणं — `ननमयययुतेयं मालिनी भोगिलोकैः` इति । श्रीमान् कीर्तिवरसूरिगुणाकराणां पट्टेऽनुवै अमरकीर्तिर्विनिर्मितायां । श्रीमद्विशेषकमहानद्यकाव्यवृत्तौ सर्गोऽजनि प्रथम एष नृपाभिरम्यः ॥ इति श्रीमान्नागपूरीय तपागच्छीय भट्टारक श्री अमर कीर्तिसूरिकृतायां श्रीकालिदासकृत विशेषकाव्यटीकायां ग्रीष्मऋतुवर्णनो नाम प्रथमः सर्गः ॥ चन्द्रिकाटीका (मणिरामः): कमलेति ॥ सुललितमतिरमणीयं गीतं गानं यस्यास्तस्याः सम्बोधनं हि सुललितगीते। कमलानां पङ्कजानां वनेन समुदायेन चितं व्याप्तमम्बु जलं यस्मिन् स तथोक्तः । पाटलानां पाटलकुसुमानामामोदो गन्धो रम्यो रमणीयो यस्मिन् स तथोक्तः । यद्वा पाटलामोदेन रम्यो रमणीय इति । सुखः सुखकरः सलिलस्य निषेकः स्नानं यस्मिन् स तथोक्तः । सेव्याः सेवितुं योग्याश्चन्दरस्यांशवः किरणा हाराः कुसुममालाश्च यस्मिन् स तथोक्तः । कामिनीभिः समेतो युक्तो निदाघो निदाघकालो निशि रात्रौ हर्म्यपृष्ठे प्रासादतले सुखेन तव व्रजतु गच्छत्वित्यर्थः ॥ इति श्रीभारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया समेता कवि श्रीकालिदास कविवराग्रणीकृतावृतुसंहारे महाकाव्ये ग्रीष्मवर्णनं नाम प्रथमः सर्गः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
कमलवनचिताम्बुः
Lemma: कमल
POS: mn
कमलवनचिताम्बुः
Lemma: वन
POS: n
कमलवनचिताम्बुः
Lemma: चि
POS: 1. Ā.
कमलवनचिताम्बुः
Lemma: अम्बु
POS: n
पाटलामोदरम्यः
Lemma: पाटला
POS: f
पाटलामोदरम्यः
Lemma: आमोद
POS: m
पाटलामोदरम्यः
Lemma: रम्य
POS: adj
सुखसलिलनिषेकः
Lemma: सुख
POS: adj
सुखसलिलनिषेकः
Lemma: सलिल
POS: n
सुखसलिलनिषेकः
Lemma: निषेक
POS: m
सेव्यचन्द्रांशुहारः
Lemma: सेव्
POS: 4. P.
सेव्यचन्द्रांशुहारः
Lemma: चन्द्र
POS: m
सेव्यचन्द्रांशुहारः
Lemma: अंशु
POS: m
सेव्यचन्द्रांशुहारः
Lemma: हार
POS: mn
व्रजतु
Lemma: व्रज्
POS: 1. Ā. • Verb: व्रजतु
तव
Lemma: त्वद्
POS: pron
निदाघः
Lemma: निदाघ
POS: m
कामिनीभिः
Lemma: कामिनी
POS: f
समेतो
Lemma: समे
POS: 2. P.
निशि
Lemma: निश्
POS: f
सुललितगीते
Lemma: सु
POS: ind
सुललितगीते
Lemma: लल्
POS: 1. Ā.
सुललितगीते
Lemma: गीत
POS: n
हर्म्यपृष्ठे
Lemma: हर्म्य
POS: n
हर्म्यपृष्ठे
Lemma: पृष्ठ
POS: n
सुखेन
Lemma: सुख
POS: n
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 1.28. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 1.27) All Verses in Chapter 1 Next Verse (RS 2.1) →