Skip to main content
Search
Full Chapter
RS • Chapter 2: Canto 2

RS 2.1

Canonical Ref: RS 2.1
Metrical Form: वंशस्थम्
Sanskrit (Devanāgarī)
ससीकराम्भोधरमत्तकुञ्जरस्तडित्पताकोऽशनिशब्दमर्दलः । समागतो राजवदुद्धतद्युतिर्घनागमः कामिजनप्रियः प्रिये ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): ससीकरेति ॥ हे प्रिये वल्लभे, घनागमः मेघागमः समागतः। किं भूतः — कामिनश्च ते जनाश्च कामिजनास्तेषां प्रियो वल्लभः । किं कुर्वन् — राजवद् नृपवद् ध्वनिं रवमुद्वहन् । यथा राजा दुन्दुभ्यादिना ध्वनिं कुर्वन् समायाति तथाऽयमपि गजरिवं कुर्वन् समायाति । पुनः किंभूतः — सह शीकरैर्जलकणैः वर्तते इति सशीकर एवंविधो योऽसावम्भोधरो मेघः स एव मत्तः कुञ्जरो हस्ती यत्र सः । पुनः किंभूतः — तडितो विद्युत एव पताका यस्य सः । पुनः किंभूतः — अशनेर्वज्रस्य शब्दसदृशो गर्जितशब्दः स एव मर्दलो यत्र सः । अनेन वर्षर्तोरुत्कर्षः सूचितः ॥ चन्द्रिकाटीका (मणिरामः): अथ क्रमप्राप्तं वर्षाकालं वर्णयति — ससीकरेति ॥ हे प्रिये, ससीकरः साम्बुकणो योऽम्भोधरो जलधरः स एव मत्तः प्रमत्तः कुञ्जरो गजो यस्य स तथोक्तः । पक्षे ससीकराम्भोधर इव मत्तः कुञ्जरो यस्येति । `सीकरोऽम्बुकणः स्मृताः` इत्यमरः (अ.को.1|3|13)। तडिद् विद्युदेव पताका यस्य स तथोक्तः । पक्षे तडिदिव पताका यस्येति । `तडित्सौदामिनी विद्युत` इत्यमरः (अ.को.1|3|11)। अशनि शब्द एव मर्दलः पक्षे अशनिर्वज्र इव यः शब्दो निनादः स एव मर्दलो वाद्यविशेषो यस्य स तथोक्तः । उद्धतद्युतिरुत्कटकान्तिः कामिजनप्रियो घनागमो वर्षाकालो राजवत्समागतः आगत इत्यर्थः । वंशस्थं वृत्तं लक्षणं तूक्तम् ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
ससीकराम्भोधरमत्तकुञ्जरस्तडित्पताको
Lemma: ससीकर
POS: adj
ससीकराम्भोधरमत्तकुञ्जरस्तडित्पताको
Lemma: अम्भोधर
POS: m
ससीकराम्भोधरमत्तकुञ्जरस्तडित्पताको
Lemma: मद्
POS: 3. P.
ससीकराम्भोधरमत्तकुञ्जरस्तडित्पताको
Lemma: कुञ्जर
POS: m
ससीकराम्भोधरमत्तकुञ्जरस्तडित्पताको
Lemma: तडित्
POS: f
ससीकराम्भोधरमत्तकुञ्जरस्तडित्पताको
Lemma: पताका
POS: f
ऽशनिशब्दमर्दलः
Lemma: अशनि
POS: mf
ऽशनिशब्दमर्दलः
Lemma: शब्द
POS: m
ऽशनिशब्दमर्दलः
Lemma: मर्दल
POS: m
समागतो
Lemma: समागम्
POS: 6. P.
राजवद्
Lemma: राजन्
POS: m
राजवद्
Lemma: वत्
POS: ind
उद्धतद्युतिर्
Lemma: उद्धन्
POS: 1. P.
उद्धतद्युतिर्
Lemma: द्युति
POS: f
घनागमः
Lemma: घन
POS: mn
घनागमः
Lemma: आगम
POS: m
कामिजनप्रियः
Lemma: कामिन्
POS: adj
कामिजनप्रियः
Lemma: जन
POS: m
कामिजनप्रियः
Lemma: प्रिय
POS: adj
प्रिये
Lemma: प्रिय
POS: adj
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 2.1. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 1.28) All Verses in Chapter 2 Next Verse (RS 2.2) →