Skip to main content
Search
Ch. 2 RS 2.28
Full Chapter
RS • Chapter 2: Canto 2

RS 2.28

Canonical Ref: RS 2.28
Metrical Form: मालिनी
Sanskrit (Devanāgarī)
जलभरनमितानामाश्रयोऽस्माकमुच्चैरयमिति जलसेकैस्तोयदास्तोयनम्राः । अतिशयपरुषाभिर्ग्रीष्मवह्नेः शिखाभिः समुपजनिततापं ह्लादयन्तीव विन्ध्यम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): जलधरेति ॥ तोयदा मेघा इति कारणाज्जलानां सेका जलसेकास्तैः जलसिञ्चनैर्विन्ध्यं विन्ध्याचलं ह्लादयन्तीव हर्षमुत्पादयन्तीव। इतीति किमस्माकमयं प्रत्यक्षवर्ती विन्ध्याचलो विन्ध्यनामा पर्वतः उच्चैरतिशयेनोन्नतो वाश्रयः स्थानम् । कथं अस्माकम् जलभरेण नमितास्तेषाम् । किं भूताः — तोयदास्तोयेन नम्राः । किं भूतः — ग्रीष्मस्योष्मकालस्य वह्निर्दावाग्निस्तथा तस्य शिखाभिर्ज्ज्वालाभिः समुपजनितः समुत्पादितस्तापो यस्य स तम् । किं विशेषेण — अतिशयेन परुषाः कठोराः असह्यास्ताभिः ॥ चन्द्रिकाटीका (मणिरामः): जलधरेति ॥ तोयनम्रा जलभारनतास्तोयदा मेघाः जलधरेण विनतानां नम्राणामस्माकमुच्चैरुन्नतोऽयं विन्ध्याचल आश्रय आधारः। भवतीति शेषः । इतीति हेतोरतिशयमत्यन्तं परुषाः कठिनास्ताभिस्तथोक्ताभिर्ग्रीष्मवह्नेः शिखाभिः सम्यगुपजनित उत्पादितस्तापः सन्तापो यस्य तं तथोक्तं विन्ध्यं विन्ध्याद्रिं जलसेकैर्जलवर्षणैर्ह्लादयन्ति हर्षं प्रापयन्तीवेत्युत्प्रेक्षा । उपकृतो हि विपन्नं परमुपकरोतीति भावः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
जलभरनमितानाम्
Lemma: जल
POS: n
जलभरनमितानाम्
Lemma: भर
POS: m
जलभरनमितानाम्
Lemma: नमय्
POS: 10. P.
आश्रयो
Lemma: आश्रय
POS: m
ऽस्माकम्
Lemma: मद्
POS: pron
उच्चैरयमिति
Lemma: उच्चैस्
POS: ind
उच्चैरयमिति
Lemma: इदम्
POS: pron
उच्चैरयमिति
Lemma: इति
POS: ind
जलसेकैस्तोयदास्तोयनम्राः
Lemma: जल
POS: n
जलसेकैस्तोयदास्तोयनम्राः
Lemma: सेक
POS: m
जलसेकैस्तोयदास्तोयनम्राः
Lemma: तोयद
POS: m
जलसेकैस्तोयदास्तोयनम्राः
Lemma: तोय
POS: n
जलसेकैस्तोयदास्तोयनम्राः
Lemma: नम्र
POS: adj
अतिशयपरुषाभिर्
Lemma: अतिशय
POS: m
अतिशयपरुषाभिर्
Lemma: परुष
POS: adj
ग्रीष्मवह्नेः
Lemma: ग्रीष्म
POS: m
ग्रीष्मवह्नेः
Lemma: वह्नि
POS: m
शिखाभिः
Lemma: शिखा
POS: f
समुपजनिततापं
Lemma: समुपजनय्
POS: 10. Ā.
समुपजनिततापं
Lemma: ताप
POS: m
ह्लादयन्तीव
Lemma: ह्लादय्
POS: 10. Ā. • Verb: ह्लादयन्ति
ह्लादयन्तीव
Lemma: इव
POS: ind
विन्ध्यम्
Lemma: विन्ध्य
POS: m
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 2.28. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 2.27) All Verses in Chapter 2 Next Verse (RS 2.29) →