Skip to main content
Search
Ch. 2 RS 2.29
Full Chapter
RS • Chapter 2: Canto 2

RS 2.29

Canonical Ref: RS 2.29
Metrical Form: मालिनी
Sanskrit (Devanāgarī)
बहुगुणरमणीयः कामिनीचित्तहारी तरुविटपलतानां बान्धवो निर्विकारः । जलदसमय एष प्राणिनां प्राणभूतो दिशतु तव हितानि प्रायशो वाञ्छितानि ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): बहुगुणेति ॥ कविर्भोजराजं ब्रूते — हे राजन्नैषः जलदसमयः वर्षाकालस्तव हितानि हितकारीणि धनपुत्रराज्यसौख्यादीनि वाज्छितान्यचिरेण दिशतु । बहुभिर्गुणैः रम्यो रमणीयः । पुनः कथं — कामयन्त्यभिलषन्ति स्त्रीसङ्गममिति कामिनस्तेषां भोगिपुरुषाणाम् । चित्तं हरतीति वश्यं करोतीति चित्तहारी । पुनः — तताः विस्तृता विटपाः शाखा यासां तास्ततविटपा एवंविधा या लतास्ततविटपलतास्तासां निर्विकारो विकाररहितो बान्धवो मित्रम् । पुनः — प्राणिनां जीवानां प्राणभूतः प्राणसदृशः । मालिनीव्रत्तानीमानि सप्तसङ्ख्याकानि ॥ सुरीन्द्रवर्यामरकीर्तिसूरि विनिर्मितायामृतुवर्णनस्य । काव्यस्य वृत्तौ समजीजनद्वै द्वैतीयिकिः सर्गवरो वरेण्यः ॥ इति श्रीमन्नागपुरीय तपागच्छाधिप भट्टारक श्रीअमरकीर्ति सूरि कृतायां श्रीकालिदासकृतविशेषमहाकाव्यटीकायां प्रावृड्वर्णनो नाम द्वितीयः सर्गः॥ चन्द्रिकाटीका (मणिरामः): बहुगुणेति ॥ बहुगुणे रमणीयः सुन्दरः कामिनीनामङ्गनाना चित्तहारी मनोऽनुरञ्जक इति यावत् । तरुविटपा वृक्षशाखा लता वल्यश्च तासाम् । क्वचित्पुस्तके `नतविटपिलतानाम्` इति पाठः । तदर्थस्तु- नता नम्रा ये विटपिनः शाखिनो लताश्च तासामिति । `वल्ली तु व्रततिर्लता` इत्यमरः (अ.को.2।4।9) । बान्धवो बन्धुः निर्विकारो विकारशून्यः प्राणिनां जन्तूनाम् । `प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः` इत्यमरः (अ.को.1|4|32) । प्राणभूतो जीवभूत एष जलदसमयो वर्षाकालस्तव प्रायशो बहुशो वाञ्छितान्यभिलषितानि हितानीष्टानि दिशतु ददात्वित्यर्थः ॥ इति भारद्वाजगोत्रोत्पन्नमणिरामविरचितया चन्द्रिकाख्यया व्याख्यया समेतः कविश्रीकालिदासकविवराग्रणीकृतावृतुसंहारे महाकाव्ये प्रावृड्वर्णनं नाम द्वितीयः सर्गः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
बहुगुणरमणीयः
Lemma: बहुगुण
POS: adj
बहुगुणरमणीयः
Lemma: रमणीय
POS: adj
कामिनीचित्तहारी
Lemma: कामिनी
POS: f
कामिनीचित्तहारी
Lemma: चित्त
POS: n
कामिनीचित्तहारी
Lemma: हारिन्
POS: adj
तरुविटपलतानां
Lemma: तरु
POS: m
तरुविटपलतानां
Lemma: विटप
POS: mn
तरुविटपलतानां
Lemma: लता
POS: f
बान्धवो
Lemma: बान्धव
POS: m
निर्विकारः
Lemma: निर्विकार
POS: adj
जलदसमय
Lemma: जलद
POS: m
जलदसमय
Lemma: समय
POS: m
एष
Lemma: एतद्
POS: pron
प्राणिनां
Lemma: प्राणिन्
POS: m
प्राणभूतो
Lemma: प्राण
POS: m
प्राणभूतो
Lemma: भू
POS: 1. Ā.
दिशतु
Lemma: दिश्
POS: 6. Ā. • Verb: दिशतु
तव
Lemma: त्वद्
POS: pron
हितानि
Lemma: हित
POS: n
प्रायशो
Lemma: प्रायशस्
POS: ind
वाञ्छितानि
Lemma: वाञ्छ्
POS: 1. Ā.
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 2.29. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 2.28) All Verses in Chapter 2 Next Verse (RS 3.1) →