Skip to main content
Search
Ch. 2 RS 2.27
Full Chapter
RS • Chapter 2: Canto 2

RS 2.27

Canonical Ref: RS 2.27
Metrical Form: मालिनी
Sanskrit (Devanāgarī)
नवजलकणसङ्गाच्छीततामादधानः कुसुमभरनतानां लासकः पादपानाम् । जनितरुचिरगन्धः केतकीनां रजोभिः परिहरति नभस्वान्प्रोषितानां मनांसि ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): नवेति ॥ नभस्वान् वायुः प्रोषितानां पथिकजनानाम् मनांस्यपहरति वशीकरोति । कथं भूतः नभः — किं कुर्वाणः नवा ये जलकणा नवजलकणास्तेषां सङ्गो मिलनं तस्मात् शीतस्य भावः शीतता तामादधानः। पुनः किं भूतः — कुसुमानां पुष्पाणां भरेण नता नभ्रीभूतासतेषां पादपानां वृक्षाणां लासकः नृत्यकारकः। पुनः किं भूतः — केतकीनां पुष्पाणां रजोभिः परागैः जनित उत्पादितो रुचिरो मनोहरो गन्धो यस्य सः ॥ चन्द्रिकाटीका (मणिरामः): नवेति ॥ नवानां नूतनानां जलकणानां सङ्गात्सम्बन्धाच्छीततां शैत्यमादधानो गृह्णन् कुसुमानां पुष्पाणां भरेण नता नम्रास्तेषां तथोक्तानां पादपानां वृक्षानां लासकः संसर्गवान् । एतेन मान्द्यमुक्तम्। केतकीनां रजोभिः परागैः। `परागः सुमनोरजः` इत्यमरः (अ.को.2।4।17) । जनित उत्पादितो रुचिरः सुन्दरो गन्धो यस्मिंस्तथोक्तो नभस्वान्वायुः प्रोषितानां पान्थजनानां मनांस्यन्तःकरणानि परिहरतीत्यर्थः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
नवजलकणसङ्गाच्
Lemma: नव
POS: adj
नवजलकणसङ्गाच्
Lemma: जल
POS: n
नवजलकणसङ्गाच्
Lemma: कण
POS: m
नवजलकणसङ्गाच्
Lemma: सङ्ग
POS: m
छीतताम्
Lemma: शीत
POS: adj
छीतताम्
Lemma: ता
POS: f
आदधानः
Lemma: आधा
POS: 3. Ā.
कुसुमभरनतानां
Lemma: कुसुम
POS: n
कुसुमभरनतानां
Lemma: भर
POS: m
कुसुमभरनतानां
Lemma: नम्
POS: 1. Ā.
लासकः
Lemma: लासक
POS: adj
पादपानाम्
Lemma: पादप
POS: m
जनितरुचिरगन्धः
Lemma: जनय्
POS: 10. Ā.
जनितरुचिरगन्धः
Lemma: रुचिर
POS: adj
जनितरुचिरगन्धः
Lemma: गन्ध
POS: mn
केतकीनां
Lemma: केतकी
POS: f
रजोभिः
Lemma: रजस्
POS: n
परिहरति
Lemma: परिहृ
POS: 1. Ā. • Verb: परिहरति
नभस्वान्
Lemma: नभस्वन्त्
POS: m
प्रोषितानां
Lemma: प्रवस्
POS: 1. P.
मनांसि
Lemma: मनस्
POS: n
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 2.27. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 2.26) All Verses in Chapter 2 Next Verse (RS 2.28) →