Skip to main content
Search
Ch. 2 RS 2.26
Full Chapter
RS • Chapter 2: Canto 2

RS 2.26

Canonical Ref: RS 2.26
Metrical Form: मालिनी
Sanskrit (Devanāgarī)
दधति वरकुचाग्रैरुन्नतैर्हारयष्टिं प्रतनुसितदुकूलान्यायतैः श्रोणिबिम्बैः । नवजलकणसेकादुद्गतां रोमराजीं ललितवलिविभङ्गैर्मध्यदेशैश्च नार्यः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): दधतीति ॥ नार्यः उन्नतैः कुचसमुद्गैः कुचाः स्तनाः एव समुद्गाः सम्पुटाः कुचसमुद्गास्तैर्हारयष्टिं मुक्ताहारं दधति धारयन्ति । पुनरायतैः विस्तीर्णैः श्रोणिबिम्बैः कटिप्रदेशैः । रुचिरतर दुकूलानि दधति धारयन्ति । अतिशयेन रुचिराणि रुचिरतराणि ईदृशानि यानि दुकूलानि क्षौमाणि तानि च पुनर्मध्यदेशैः तनुमध्यप्रदेशैः रोमराजिं दधति । रोम्णां राजिः श्रेणिः रोमराजिस्ताम् । किं भूतैः मध्यदेशैः — तिसृभिर्वलिभिर्ललिता मनोहरा शोभा येषां तैः। पुनः किं — नवजललवसेकादुद्गतां नवाः प्रत्यग्रा ये जललवास्तेषां सेकः सिञ्चनं तस्मादुत्पन्नाम् । एतैर्नार्यो विशेषतो मनोहारिण्यो भवन्तीत्यर्थः ॥ चन्द्रिकाटीका (मणिरामः): दधतीति ॥ नार्यः स्त्रिय उन्नतैरुर्ध्वमुखैर्वरा उत्तमाः पीना वर्तुलाश्चेति यावत् । ये कुचाः स्तनास्तेषामग्रैरग्रभागैर्हारयष्टिं मुक्ताहारमायतैर्दीर्घैः श्रोणिबिम्बैः कटिपश्चाद्भागैः प्रतनूनि सूक्ष्माणि सितानि श्वेतवर्णानि यानि दुकूलानि वस्त्राणि तानि ललितानां सुन्दराणां वलीनां त्रिवलीनां विभङ्गा येषु तैस्तथोक्तैर्मध्यदेशैर्नवानां जलकणानां सेकादुद्गतामुत्पन्नां रोमराजीं रोमाञ्चपङ्क्तिं दधतीत्यर्थः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
दधति
Lemma: धा
POS: 1. P. • Verb: दधति
वरकुचाग्रैरुन्नतैर्
Lemma: वर
POS: adj
वरकुचाग्रैरुन्नतैर्
Lemma: कुचाग्र
POS: n
वरकुचाग्रैरुन्नतैर्
Lemma: उन्नम्
POS: 1. Ā.
हारयष्टिं
Lemma: हार
POS: mn
हारयष्टिं
Lemma: यष्टि
POS: fn
प्रतनुसितदुकूलान्यायतैः
Lemma: प्रतनु
POS: adj
प्रतनुसितदुकूलान्यायतैः
Lemma: सित
POS: adj
प्रतनुसितदुकूलान्यायतैः
Lemma: दुकूल
POS: n
प्रतनुसितदुकूलान्यायतैः
Lemma: आयम्
POS: 6. P.
श्रोणिबिम्बैः
Lemma: श्रोणि
POS: mf
श्रोणिबिम्बैः
Lemma: बिम्ब
POS: mn
नवजलकणसेकादुद्गतां
Lemma: नव
POS: adj
नवजलकणसेकादुद्गतां
Lemma: जल
POS: n
नवजलकणसेकादुद्गतां
Lemma: कण
POS: m
नवजलकणसेकादुद्गतां
Lemma: सेक
POS: m
नवजलकणसेकादुद्गतां
Lemma: उद्गम्
POS: 6. P.
रोमराजीं
Lemma: रोमराजी
POS: f
ललितवलिविभङ्गैर्मध्यदेशैश्च
Lemma: ललित
POS: n
ललितवलिविभङ्गैर्मध्यदेशैश्च
Lemma: वलि
POS: mf
ललितवलिविभङ्गैर्मध्यदेशैश्च
Lemma: विभङ्ग
POS: m
ललितवलिविभङ्गैर्मध्यदेशैश्च
Lemma: मध्यदेश
POS: m
ललितवलिविभङ्गैर्मध्यदेशैश्च
Lemma: च
POS: ind
नार्यः
Lemma: नारी
POS: f
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 2.26. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 2.25) All Verses in Chapter 2 Next Verse (RS 2.27) →