Skip to main content
Search
Ch. 2 RS 2.25
Full Chapter
RS • Chapter 2: Canto 2

RS 2.25

Canonical Ref: RS 2.25
Metrical Form: मालिनी
Sanskrit (Devanāgarī)
शिरसि बकुलमालां मालतीभिः समेतां विकसितनवपुष्पैर्यूथिकाकुड्मलैश्च । विकचनवकदम्बैः कर्णपूरं वधूनां रचयति जलदौघः कान्तवत्काल एषः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): शिरसीति ॥ एषः समीपवर्ती वर्षाऋतुसम्बन्धी काले वधूनां कर्णपूरं कर्णाभरणम् । रचयति नवीनमुत्पादयति । कैः — विकचा विकासमाप्ता ये नवकदम्बा नूतनकदम्बवृक्षा विकचनवकदम्बास्तैः । नव शब्देन सुन्दरता सूचिता । अथ च पुनर्वधूनां शिरसि शिरोनिमित्तं बकुलानामशोकवृक्षपुष्पाणां माला बकुलमाला तां करोति निष्पादयति । किं भूतां बकुलमालाम् — मालतीभिर्मालिनीपुष्पैः समेतां संयुक्ताम् । पुनः किं भूतैः — कुसुमितानि विकसितानि यानि वनपुष्पाणि तैः। यूथिकायाः कुड्मलानि कलिकास्तैः समेतां मिश्रिताम् । `कुड्मलो मुकुलोऽस्त्रियाम्` इत्यमरः (अ.को.2।4।16) । किं कालः — जलदस्य मेघस्यौघः समूहो विद्यतेऽस्मिन्निति जलदौघः । किं तत् — कान्तवत् भर्तृवत् । यथा कान्तः कामिनीनां कर्णपूरं मालाञ्च रचयति ॥ चन्द्रिकाटीका (मणिरामः): शिरसीति ॥ जलदानां मेघानामोघः सङ्घातो यस्मिन् स तथोक्तः । `स्तोमौघनिकरव्रातवारसङ्घातसञ्चयाः` इत्यमरः (अ.को.2।5।42) । एषः कालो वर्षाकालः कान्तवत् प्रियवद् वधूनां स्त्रीणां शिरसि मूर्धनि मालतीभिर्मालतीकुसुमैः । समेतां युक्तां बकुलमालां केसरस्रजं रचयति करोति तथा विकसितनवपुष्पैः संफ़ुल्लनूतनकुसुमैर्यूथिकाया मागधीलतायाः कुड्मलानि मुकुलानि तैः । `अथ मागधी । गणिका यूथिकाम्बष्ठाः` इत्यमरः (अ.को.2।4।71) । `कुड्मलो मुकुलोऽस्त्रियाम्` इत्यमरः (अ.को.2।4।16) । विकचानि विकसितानि नवानि नूतनानि यानि कदम्बानि कदम्बकुसुमानि तैश्च कर्णपूरं कर्णावतंसं रचयति करोतीत्यर्थः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
शिरसि
Lemma: शिरस्
POS: n
बकुलमालां
Lemma: बकुल
POS: m
बकुलमालां
Lemma: माला
POS: f
मालतीभिः
Lemma: मालती
POS: f
समेतां
Lemma: समे
POS: 2. P.
विकसितनवपुष्पैर्यूथिकाकुड्मलैश्च
Lemma: विकस्
POS: 1. P.
विकसितनवपुष्पैर्यूथिकाकुड्मलैश्च
Lemma: नव
POS: adj
विकसितनवपुष्पैर्यूथिकाकुड्मलैश्च
Lemma: पुष्प
POS: n
विकसितनवपुष्पैर्यूथिकाकुड्मलैश्च
Lemma: यूथिका
POS: f
विकसितनवपुष्पैर्यूथिकाकुड्मलैश्च
Lemma: कुड्मल
POS: mn
विकसितनवपुष्पैर्यूथिकाकुड्मलैश्च
Lemma: च
POS: ind
विकचनवकदम्बैः
Lemma: विकच
POS: adj
विकचनवकदम्बैः
Lemma: नव
POS: adj
विकचनवकदम्बैः
Lemma: कदम्ब
POS: mn
कर्णपूरं
Lemma: कर्णपूर
POS: mn
वधूनां
Lemma: वधू
POS: f
रचयति
Lemma: रचय्
POS: 10. Ā. • Verb: रचयति
जलदौघः
Lemma: जलद
POS: m
जलदौघः
Lemma: ओघ
POS: m
कान्तवत्काल
Lemma: कान्त
POS: m
कान्तवत्काल
Lemma: वत्
POS: ind
कान्तवत्काल
Lemma: काल
POS: m
एषः
Lemma: एतद्
POS: pron
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 2.25. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 2.24) All Verses in Chapter 2 Next Verse (RS 2.26) →