Skip to main content
Search
Ch. 2 RS 2.24
Full Chapter
RS • Chapter 2: Canto 2

RS 2.24

Canonical Ref: RS 2.24
Metrical Form: मालिनी
Sanskrit (Devanāgarī)
मुदित इव कदम्बैर्जातपुष्पैः समन्तात्पवनचलितशाखैः शाखिभिर्नृत्यतीव । हसितमिव विधत्ते सूचिभिः केतकीनां नवसलिलनिषेकच्छिन्नतापो वनान्तः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): मुदित इति ॥ वनस्यान्तो वनान्तः शालिभिर्वृक्षैर्नृत्यतीव नृत्यं करोतीव । किं — पवनेन वायुना चलिताः कम्पिताः शाखा येषां तैः । किं भूतो वनान्तः — समन्तात् समस्तप्रकारेण जातपुष्पैः जातान्युत्पन्नानि पुष्पाणि येषु ते जातपुष्पास्तैः कदम्बैः कदम्बवृक्षैर्मुदित इव । उत्प्रेक्षते उत्पन्नहर्ष इव । यथा हर्षितः पुमान् रोमाञ्चयुक्तो भवति तथाऽत्र विकसितपुष्पाः कदम्बवृक्षा रोमाञ्च सदृशा ज्ञेयाः । पुनः — केतकीनां सूचिभिः कुसुमैः हास्यं विधत्त इव । उत्प्रेक्षते हास्यं करोतीव । केतकीनां पुष्पाणि धवलानि भवन्ति हास्यमपि धवलं वर्ण्यतेऽतः साम्यं । किं भूत वनाः — नवसलिलनिषेकोत्खाततापः नवञ्च तत् सलिलञ्च नवसलिलमर्थान्मेघवर्षणजलं तस्य निषेकः सिञ्चनं तेनोत्खात उन्मूलितो दूरीकृतस्तापो यस्य सः ॥ चन्द्रिकाटीका (मणिरामः): मुदित इति ॥ नवस्य नूतनस्य सलिलस्य निषेकेण सेवनेन छिन्न उच्छिन्नस्तापो यस्य स तथोक्तो वनान्तोऽरण्यप्रान्तो जातपुष्पैः प्रादुर्भूतकुसुमैः कदम्बैर्नीपवृक्षैर्मुदित इव समन्तादितस्ततः पवनेन वायुना चलिताः कम्पिताः शाखा यैस्तथोक्तैः शाखाभिर्वृक्षैः । `वृक्षो महीरुहः शाखी विटपी पादपस्तरुः` इत्यमरः (अ.को.2।4।5) । नृत्यतीव नृत्यं करोतीवेत्युत्प्रेक्षा । एवमन्यत्रापि । केतकीनां सूचीभिः कण्टकैर्हसितमिव हास्यमिव विधत्ते विदधातीत्यर्थः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
मुदित
Lemma: मुद्
POS: 1. P.
इव
Lemma: इव
POS: ind
कदम्बैर्जातपुष्पैः
Lemma: कदम्ब
POS: mn
कदम्बैर्जातपुष्पैः
Lemma: जन्
POS: 4. P.
कदम्बैर्जातपुष्पैः
Lemma: पुष्प
POS: n
समन्तात्
Lemma: समन्तात्
POS: ind
पवनचलितशाखैः
Lemma: पवन
POS: m
पवनचलितशाखैः
Lemma: चल्
POS: 1. Ā.
पवनचलितशाखैः
Lemma: शाखा
POS: f
शाखिभिर्नृत्यतीव
Lemma: शाखिन्
POS: m
शाखिभिर्नृत्यतीव
Lemma: नृत्
POS: 4. Ā. • Verb: नृत्यति
शाखिभिर्नृत्यतीव
Lemma: इव
POS: ind
हसितमिव
Lemma: हसित
POS: n
हसितमिव
Lemma: इव
POS: ind
विधत्ते
Lemma: विधा
POS: 3. Ā. • Verb: विधत्ते
सूचिभिः
Lemma: सूचि
POS: f
केतकीनां
Lemma: केतकी
POS: f
नवसलिलनिषेकच्छिन्नतापो
Lemma: नव
POS: adj
नवसलिलनिषेकच्छिन्नतापो
Lemma: सलिल
POS: n
नवसलिलनिषेकच्छिन्नतापो
Lemma: निषेक
POS: m
नवसलिलनिषेकच्छिन्नतापो
Lemma: छिद्
POS: 1. P.
नवसलिलनिषेकच्छिन्नतापो
Lemma: ताप
POS: m
वनान्तः
Lemma: वन
POS: n
वनान्तः
Lemma: अन्त
POS: m
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 2.24. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 2.23) All Verses in Chapter 2 Next Verse (RS 2.25) →