Skip to main content
Search
Ch. 2 RS 2.23
Full Chapter
RS • Chapter 2: Canto 2

RS 2.23

Canonical Ref: RS 2.23
Metrical Form: मालिनी
Sanskrit (Devanāgarī)
कुवलयदलनीलैरुन्नतैस्तोयनम्रैर्मृदुपवनविधूतैर्मन्दमन्दं चलद्भिः । अपहृतमिव चेतस्तोयदैः सेन्द्रचापैः पथिकजनवधूनां तद्वियोगाकुलानाम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): कुवलयेति ॥ तोयदैर्मेघैः । पथिकजनवधूनां पथिकजनानां वध्वस्तासां चेतोऽपहृतं मुषितमिव जातम् । क्ं भूतैः तोद्यदैः — कुवलयदलवत् कुमुदपत्रवन्नीलाः श्यामाः कुवलयदलनीलास्तैः । नीलश्यामयोरैक्यम् । पुनः उन्नतैरुन्नसितैः । पुनः किंभूतैः — तोयेन जलेन नम्रास्तैः । पुनः किंभूतैः — मृदुपवनविशेषान्मन्दमन्दं चलद्भिः मृदुः स्वल्पो योऽसौ पवनो वायुस्तस्मात् मन्दं मन्दं चलद्भिः चलमानैः । पुनः किंभूतैः — सेन्द्रचापैः इन्द्रचपेनेन्द्रधनुषा सह वर्तन्त इति सेन्द्रचापास्तैः । किं भूतानां पथिकजनानां —तद्वियोगक्षतानां तेषां पथिकजनानां वियोगस्तेन क्षताः पीडितास्तासाम् ॥ चन्द्रिकाटीका (मणिरामः): कुवलयेति ॥ कुवलयस्य नीलोत्पलस्य दलं पत्रमिव नीलैः श्यामवर्णैरुन्नतैरुच्चस्थैस्तोयनम्रैर्जलनम्रैर्मृदुना लघुना पवनेन वातेन विधूताः कम्पितास्तैरत एव मन्दमन्दमतिमन्थरं चलद्भिर्गच्छद्भिः सेन्द्रचापैरिन्द्रधनुषा सहितैस्तोयदैर्मेघैस्तेषां पान्थजनानां वियोगेन विरहेणाकुला व्याकुलास्तासां पथिकजनवधूनां विरहिणीनां चेतोऽन्तःकरणमपहृतमिव हत्वा नीतमिवित्युत्प्रेक्षा । मालिनीवृत्तमेतत् लक्षणं तूक्तम् ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
कुवलयदलनीलैर्
Lemma: कुवलय
POS: n
कुवलयदलनीलैर्
Lemma: दल
POS: mn
कुवलयदलनीलैर्
Lemma: नील
POS: adj
उन्नतैस्
Lemma: उन्नम्
POS: 1. Ā.
तोयनम्रैर्
Lemma: तोय
POS: n
तोयनम्रैर्
Lemma: नम्र
POS: adj
मृदुपवनविधूतैर्
Lemma: मृदु
POS: adj
मृदुपवनविधूतैर्
Lemma: पवन
POS: m
मृदुपवनविधूतैर्
Lemma: विधू
POS: 6. P.
मन्दमन्दं
Lemma: मन्दमन्दम्
POS: ind
चलद्भिः
Lemma: चल्
POS: 1. Ā.
अपहृतमिव
Lemma: अपहृ
POS: 1. Ā.
अपहृतमिव
Lemma: इव
POS: ind
चेतस्तोयदैः
Lemma: चेतस्
POS: n
चेतस्तोयदैः
Lemma: तोयद
POS: m
सेन्द्रचापैः
Lemma: स
POS: ind
सेन्द्रचापैः
Lemma: इन्द्रचाप
POS: mn
पथिकजनवधूनां
Lemma: पथिक
POS: m
पथिकजनवधूनां
Lemma: जन
POS: m
पथिकजनवधूनां
Lemma: वधू
POS: f
तद्वियोगाकुलानाम्
Lemma: तद्
POS: pron
तद्वियोगाकुलानाम्
Lemma: वियोग
POS: m
तद्वियोगाकुलानाम्
Lemma: आकुल
POS: adj
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 2.23. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 2.22) All Verses in Chapter 2 Next Verse (RS 2.24) →