Skip to main content
Search
Ch. 2 RS 2.22
Full Chapter
RS • Chapter 2: Canto 2

RS 2.22

Canonical Ref: RS 2.22
Metrical Form: वसन्ततिलका
Sanskrit (Devanāgarī)
कालागुरुप्रचरचन्दनचर्चिताङ्ग्यः पुष्पावतंससुरभीकृतकेशपाशाः । श्रुत्वा ध्वनिं जलमुचां त्वरितं प्रदोषे शय्यागृहं गुरुगृहात्प्रविशन्ति नार्यः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): कालागुर्विति ॥ नार्यः प्रदोषे सन्ध्यायां जलमुचां मेघानां ध्वनितं गर्जितम् श्रुत्वा त्वरितं सत्वरं गुरुग्रहात् गुरोः श्वसुरस्य गृहं गुरुगृहं तस्माच्छय्याया गृहं प्रविशन्ति । भर्त्रा सह् क्रीडां कर्तुं प्रविशन्तीत्यर्थः । किं भूताः नार्यः — कालागुरुणा कृष्णागुरुणा प्रचुरेण सर्वोत्कृष्टेन चन्दनेन चर्चितं विलेपितं संस्कृतमङ्गं यासां ताः । पुनः किं भूताः नार्यः — पुष्पमयैरवतंसैः कुसुमरचितशिरोमालाभिः सुरभीकृताः केशपाशाः वेणीदण्डा यासां ताः । वसन्ततिलकावृत्तद्वयी । `उक्ता वसन्ततिलका तभजा जगौ गः` ॥ चन्द्रिकाटीका (मणिरामः): कालागुर्विति ॥ कालागुरुः कृष्णागुरुः स प्रचुरो बहुलो यस्मिंस्ताद्र्शं यच्चन्दनं तेन चर्चितं लिप्तमङ्गं शरीरं यासां तस्तथोक्ताः पुष्पावतंसेन कुसुमकर्णपूरेण सुरभीकृतः सुगन्धीकृतः केशपाशः कुन्तलसमूहो यासां तस्तथोक्ता नार्यः स्त्रियो जलमुचां वनानाम् ध्वनिं गर्जनम् श्रुत्वाकर्ण्य त्वरितं शीघ्रम् प्रदोषे रजनीमुखे गुरुगृहात् श्वसुरगृहं परित्यञ्य शय्यागृहं प्रविशन्तीत्यर्थः ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
कालागुरुप्रचरचन्दनचर्चिताङ्ग्यः
Lemma: कालागुरु
POS: mn
कालागुरुप्रचरचन्दनचर्चिताङ्ग्यः
Lemma: प्रचर
POS: m
कालागुरुप्रचरचन्दनचर्चिताङ्ग्यः
Lemma: चन्दन
POS: mn
कालागुरुप्रचरचन्दनचर्चिताङ्ग्यः
Lemma: चर्चय्
POS: 10. Ā.
कालागुरुप्रचरचन्दनचर्चिताङ्ग्यः
Lemma: अङ्ग
POS: adj
पुष्पावतंससुरभीकृतकेशपाशाः
Lemma: पुष्प
POS: n
पुष्पावतंससुरभीकृतकेशपाशाः
Lemma: अवतंस
POS: mn
पुष्पावतंससुरभीकृतकेशपाशाः
Lemma: सुरभीकृ
POS: 8. Ā.
पुष्पावतंससुरभीकृतकेशपाशाः
Lemma: केशपाश
POS: m
श्रुत्वा
Lemma: श्रु
POS: 4. P.
ध्वनिं
Lemma: ध्वनि
POS: m
जलमुचां
Lemma: जलमुच्
POS: m
त्वरितं
Lemma: त्वरित
POS: adj
प्रदोषे
Lemma: प्रदोष
POS: m
शय्यागृहं
Lemma: शय्या
POS: f
शय्यागृहं
Lemma: गृह
POS: mn
गुरुगृहात्प्रविशन्ति
Lemma: गुरु
POS: m
गुरुगृहात्प्रविशन्ति
Lemma: गृह
POS: mn
गुरुगृहात्प्रविशन्ति
Lemma: प्रविश्
POS: 4. P. • Verb: प्रविशन्ति
नार्यः
Lemma: नारी
POS: f
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 2.22. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 2.21) All Verses in Chapter 2 Next Verse (RS 2.23) →