Skip to main content
Search
Ch. 2 RS 2.21
Full Chapter
RS • Chapter 2: Canto 2

RS 2.21

Canonical Ref: RS 2.21
Metrical Form: वसन्ततिलका
Sanskrit (Devanāgarī)
मालाः कदम्बनवकेसरकेतकीभिरायोजिताः शिरसि बिभ्रति योषितोऽद्य । कर्णान्तरेषु ककुभद्रुममञ्जरीभिरिच्छानुकूलरचितानवतंसकांश्च ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
ऋतुसमुच्चयटीका (अमरकीर्तिसूरिः): माला इति ॥ वर्षाकाले योषितो नार्यः शिरसि माना विभ्रति धारयन्ति। च पुनः कर्णान्तरेषु कर्णमध्येषु अवतंसकान् कर्णपूरान् विभ्रति । कथं भूता मालाः — कदम्बनवकेसरकेतकीभिः अयोजिताः । कदम्बाश्च नवकेसराश्च नवशोकाश्च केतक्यश्च कदम्बनवकेसरकेतक्यस्ताभिरायोजिताः रचिताः अर्थात् कदम्बानां पुष्पैर्ग्रथिताः । कथं भूतान् अवतंसकान् — ककुभद्रुमाणामर्जुनवृक्षाणां मञ्जर्यः ककुभद्रूममञ्जर्यः। ताभिः पूतान् पवित्रान् । पुनः कथं भूतान् — दुकूलेन पट्टकूलेन रचितास्थान । अत्र नार्यः शोभानिमित्तमेतानि वस्तूनि कुर्वन्तीत्यर्थः ॥ चन्द्रिकाटीका (मणिरामः): माला इति ॥ योषितः स्त्रियोऽथ कदम्बानि कदम्बकुसुमानि, नवकेसराणि नूतनबकुलकुसुमानि केतक्यश्च ताभिरायोजिता ग्रथिताः । `अथ केसरे । बकुलः` इत्यमरः (अ.को.2।4।64) । मालाः स्रजः शिरसि मूर्धनि ककुभद्रुमोऽर्जुनवृक्षस्तस्य मञ्जरीभिः कलिकाभिरिच्छयाऽनुकूलं यथा भवति तथा रचितान् कृतानवतंसा एवावतंसकास्तान् कर्णान्तरेषु कर्णोपरिभागेषु बिभ्रति दधतीत्यर्थः । वसन्ततिलकावृत्तमेतत् । तदुक्तम् `उक्ता वसन्ततिलका तभजा जगौ गः` इति ॥

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
मालाः
Lemma: माला
POS: f
कदम्बनवकेसरकेतकीभिर्
Lemma: कदम्ब
POS: mn
कदम्बनवकेसरकेतकीभिर्
Lemma: नव
POS: adj
कदम्बनवकेसरकेतकीभिर्
Lemma: केसर
POS: mn
कदम्बनवकेसरकेतकीभिर्
Lemma: केतकी
POS: f
आयोजिताः
Lemma: आयोजय्
POS: 10. P.
शिरसि
Lemma: शिरस्
POS: n
बिभ्रति
Lemma: भृ
POS: 1. Ā. • Verb: बिभ्रति
योषितोऽद्य
Lemma: योषित्
POS: f
योषितोऽद्य
Lemma: अद्य
POS: ind
कर्णान्तरेषु
Lemma: कर्ण
POS: m
कर्णान्तरेषु
Lemma: अन्तर
POS: n
ककुभद्रुममञ्जरीभिर्
Lemma: ककुभ
POS: m
ककुभद्रुममञ्जरीभिर्
Lemma: द्रुम
POS: m
ककुभद्रुममञ्जरीभिर्
Lemma: मञ्जरी
POS: f
इच्छानुकूलरचितान्
Lemma: इच्छा
POS: f
इच्छानुकूलरचितान्
Lemma: अनुकूल
POS: adj
इच्छानुकूलरचितान्
Lemma: रचय्
POS: 10. Ā.
अवतंसकांश्च
Lemma: अवतंसक
POS: mn
अवतंसकांश्च
Lemma: च
POS: ind
Canonical CTS URN Reference
Ṛtusaṁhāram, RS 2.21. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (RS 2.20) All Verses in Chapter 2 Next Verse (RS 2.22) →