Kumārasambhavam • Chapter 02
Canto 2
द्वितीयः सर्गः
Canto 2 of Kumārasambhavam.
Total: 64 Verses
•
Citations: KS 2.1–64
•
1 Lexicon Terms
•
Page 1 of 3 (Verses 30 shown)
तस्मिन्विप्रकृताः काले तारकेण दिवौकसः । तुरासाहं पुरोधाय धाम स्वायंभुवं ययुः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
तस्मिन्निति ॥ तस्मिन्काले पार्वतीशुश्रूषाकाले तारकेण तारकनाम्ना वज्रणखपुत्रेण केनचिदसुरेण विप्रकृता उपप्लुता दिवमोकः स्थानं येषां ते दिवौकसो देवाः । `दिवं स्वर्गेऽन्तरिक्षे च` इति विश्वः । द्यौरोक इति पक्षे पृषोदरादित्वात्साधुः । तुरं त्वरितं साहयत्यभिभवतीति तुराषाट् । साहयतेश्चौरादिकात्क्विप् । `नहिवृतिवृषि-` इत्यादिना पूर्वपदस्य दीर्धः । प्रकृतिग्रहणे प्रातिपदिकस्यापि ग्रहणात् । मुग्धबोधकारस्तु तुराशब्दष्टावन्त इत्याचष्टे । तं तुरासाहं देवेन्द्रम् । अजादिषु साङ्रूपत्वाभावात् । `सहेः साढः सः` इति षत्वं न भवति । पुरोधाय पुरस्कृत्य । स्वयंभुवो ब्रह्मण इदं स्वायंभुवम् । संज्ञापूर्वकविधेरनित्यत्वात् ओर्गुणः` इति गुणो न । धाम स्थानं ययुः । ब्रह्मलोकं जग्मुरित्यर्थः
अन्वयः:
तस्मिन् काले तारकेण विप्रकृताः दिवौकसः तुरासाहं पुरोधाय स्वायंभुवं धाम ययुः ।
तेषामाविरभूद्ब्रह्मा परिम्लानमुखश्रियाम् । सरसां सुप्तपद्मानां प्रातर्दीधितिमानिव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
तेषामिति । परिम्लाना परिक्षीणा मुखश्रीर्मुखकान्तिर्येषां तथोक्तानां तेषां देवानां ब्रह्मा सुप्तपद्मानां मुकुलितारविन्दानां सरसां प्रातर्दीधितमान्सूर्यं इवाविरभूत् । प्रकाशोऽभूदित्यर्थः । `प्रकाशे प्रादुराविः स्यात्` इत्यमरः । सूर्योपमानेन तेषां म्लानिहरणत्वं सूचितम् । अत्रोपमाऽलङ्कारः । तल्लक्षणं तु- `स्वतः सिद्धेन भिन्नेन संमतेन च धर्मतः । साम्यमन्येन वर्ण्यस्य वाच्यं चैकपदोपमा ॥` इति
अन्वयः:
परिम्लानमुखश्रियां तेषां ब्रह्मा सुप्तपद्मानां सरसां प्रातः दीधितिमान् इव आविरभूत् ।
Morphemic Decomposition & Padaccheda
तेषाम्
तद् [pron]
आविरभूद्
आविर्भू [1. P.]
ब्रह्मा
ब्रह्मन् [m]
परिम्लानमुखश्रियाम्
परिम्ला [4. P.]
परिम्लानमुखश्रियाम्
मुख [n]
परिम्लानमुखश्रियाम्
श्री [f]
सरसां
सरस् [n]
सुप्तपद्मानां
स्वप् [1. Ā.]
सुप्तपद्मानां
पद्म [mn]
प्रातर्
प्रातर् [ind]
दीधितिमान्
दीधितिमन्त् [m]
इव
इव [ind]
अथ सर्वस्य धातारं ते सर्वे सर्वतोमुखम् । वागीशं वाग्भिरर्थ्याभिः प्रणिपत्योपतस्थिरे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
अथेति । अथाविर्भावानन्तरं सर्वे ते देवाः सर्वतः समन्ततो मुखानि यस्य तं सर्वतोमुखम् । चतुर्मुखमित्यर्थः वाचां विद्यानां ईशं सर्वस्य जगतो धातारं स्त्रष्टारं ब्रह्माणं प्रणिपत्य नमस्कृत्य । अर्थादनपेताभिरर्थ्याभिः । अर्थयुक्ताभिरित्यर्थः। `धर्मपथ्यर्थन्यायादनपेते` (पा.4|4|92) इति यत्प्रत्ययः । वाग्भिरुपतस्थिरे । तुष्टुवुरित्यर्थः । `उपाद्देवपूजासंगतिकरणमित्रकरणपथिष्विति वक्तव्यम्`। इत्यात्मनेपदम्
अन्वयः:
अथ सर्वे ते सर्वतोमुखं वागीशं धातारं प्रणिपत्य अर्थ्याभिः वाग्भिः उपतस्थिरे ।
Morphemic Decomposition & Padaccheda
अथ
अथ [ind]
सर्वस्य
सर्व [pron]
धातारं
धातृ [m]
ते
तद् [pron]
सर्वे
सर्व [pron]
सर्वतोमुखम्
सर्वतोमुख [adj]
वागीशं
वागीश [djma]
वाग्भिर्
वाच् [f]
अर्थ्याभिः
अर्थ्य [adj]
प्रणिपत्योपतस्थिरे
प्रणिपत् [1. P.]
प्रणिपत्योपतस्थिरे
उपस्था [1. Ā.]
नमस्त्रिमूर्तये तुभ्यं प्राक्सृष्टेः केवलात्मने । गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
नम इति । हे भगवन्नित्यध्याहार्यं व्याख्येयम् । सृष्टेः प्राक् । `अन्यारात्-` इत्यादिनाञ्चूत्तरपदयोगे पञ्चमी । केवलात्मन एकरुपाय । `आत्मा वा इदमेक एवाग्रआसीत्` इति श्रुतेः `निर्णिते केवलमिति त्रिलिङ्गं त्वेक्कृत्स्नयोः` इत्यमरः (अ.को.1|4|31) । पश्चात्सृष्टिप्रवृत्तिकाले । विभज्यतेऽनेनेति विभागः । गुणानां सत्त्वादीनां त्रयमेव विभागो यस्य तस्मै । `गुणाः सत्त्वं रजस्तमः` इत्यमरः (अ.को.1|4|31) । भेदमुपाधिम् । सष्टृत्वादिकमित्यर्थः । उपेयषे प्रात्पवते । `उपेयिवाननाश्वाननूचानश्च` (पा.3|2|109) इति निपातः । अत एव त्रिमूर्तये ब्रह्मविष्णुरुद्ररुपिणे तुभ्यं नमः । `नमः स्वस्ति-` इत्यादिना चतुर्थिं । उक्तं च-- `नमो रजोजुषे सृष्टौ स्थितौ सत्त्वमयाय च । तमोरुपाय संहारे त्रिरुपाय स्वयंभूवे ॥` इति ।. २.४ ॥
अन्वयः:
(हे भगवन् !) सृष्टेः प्राक् केवलात्मने पश्चात् गुणत्रयविभागाय भेदम् उपेयुषे (अतएव त्रिमूर्तये तुभ्यं नमः । )
Morphemic Decomposition & Padaccheda
नमस्
नमस् [n]
त्रिमूर्तये
त्रिमूर्ति [m]
तुभ्यं
त्वद् [pron]
प्राक्
प्राक् [ind]
सृष्टेः
सृष्टि [f]
केवलात्मने
केवल [adj]
केवलात्मने
आत्मन् [m]
गुणत्रयविभागाय
गुणत्रय [n]
गुणत्रयविभागाय
विभाग [m]
पश्चाद्
पश्चात् [ind]
भेदम्
भेद [m]
उपेयुषे
उपे [2. Ā.]
यदमोघमपामन्तरुप्तं बीजमज त्वया । अतश्चराचरं विश्वं प्रभवस्तस्य गीयसे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
यदिति ॥ न जायत इत्यजः । हे अज, अपां जलानामन्तस्त्वया यदमोघमवन्ध्यं बीजं वीर्यमुप्तं निक्षिप्तं । `मुक्तम्` इति पाठे विसृष्टमित्यर्थः । `शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च` इत्यमरः (अ.को.2|6|62) । अतस्ते बीजाच्चराचरं स्थावरजङ्गमात्मकम् । समाहारे द्वन्द्वैकवद्भावः । विश्वं जगत् । उत्पन्नमिति शेषः । तस्य विश्वस्य । प्रभवत्यस्मादिति प्रभवः कारणं गीयसे । `अदश्चराचरं विश्वं प्रसवस्तस्त गीयते` इति पाठे अद इदं चराचरं विश्वं तस्य बीजस्य प्रसवो गीयते । लोक इति शेषः । अत्र मनुः- अप एव ससर्जादौ तासु बीजमवासृजत् । तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ॥ इति ॥ २.५. ॥
अन्वयः:
हे अज ! अपाम् अन्तः यत् अमोघं बीजम् उप्तम् । अतः चराऽचरं विश्वं, तस्य प्रभवो गीयसे ।
Morphemic Decomposition & Padaccheda
यद्
यद् [pron]
अमोघम्
अमोघ [adj]
अपाम्
अप् [m]
अन्तर्
अन्तर् [ind]
उप्तं
वप् [1. Ā.]
बीजम्
बीज [mn]
अज
अज [m]
त्वया
त्वद् [pron]
अतश्
अतस् [ind]
चराचरं
चराचर [n]
विश्वं
विश्व [pron]
प्रभवस्
प्रभव [m]
तस्य
तद् [pron]
गीयसे
गा [2. P.]
तिसृभिस्त्वमवस्थाभिर्महिमानमुदीरयन् । प्रलयस्थितिसर्गाणामेकः कारणतां गतः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
तिसृभिरिति ॥ एकः सृष्टेः प्राक्केवलस्त्वं तिसृभिरवस्थाभिस्त्रैगुण्यमयीभिर्हरिहरब्रह्मस्वरुपाभिर्महिमानं निजशक्तिमुदीरयन्जृम्भयन्प्रलयस्थितिसर्गाणामन्तस्थित्युत्पत्तीनां कारणतां गतः । इदं पश्चाद्भेदमुपेयुषे (२/४) इत्यस्य विवरणमतो न गतार्थत्वदोषः
अन्वयः:
एकः त्वं तिसृभिः अवस्थाभिः महिमानम् उदीरयन् प्रलयस्थितिसर्गाणां कारणातां गतः ।
Morphemic Decomposition & Padaccheda
तिसृभिस्
त्रि [nr]
त्वम्
त्वद् [pron]
अवस्थाभिर्
अवस्था [f]
महिमानम्
महिमन् [m]
उदीरयन्
उदीरय् [10. P.]
प्रलयस्थितिसर्गाणाम्
प्रलय [m]
प्रलयस्थितिसर्गाणाम्
स्थिति [f]
प्रलयस्थितिसर्गाणाम्
सर्ग [m]
एकः
एक [pron]
कारणतां
कारण [n]
कारणतां
ता [f]
गतः
गम् [6. Ā.]
स्त्रीपुंसावात्मभागौ ते भिन्नमूर्तेः सिसृक्षया । प्रसूतिभाजः सर्गस्य तावेव पितरौ स्मृतौ ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
स्त्रीपुंसाविति ॥ स्त्री च पुमांश्च स्त्रीपुंसौ । `अचतुर-` इत्यादिनाच्प्रत्ययान्तो निपातः । सिसृक्षया स्रष्टुमिच्छया भिन्नमूर्तेर्द्विधाकृतविग्रहस्य ते तवात्मनो देहस्य भागावात्मभागौ । `आत्मा जावे धृतौ देहे स्वभावे परमात्मानि` इति विश्वः । तावेव भागौ प्रसूतिभाज उत्पत्तिभाजः । सृज्यत इति सर्गस्तस्य । निजसृष्टेरित्यर्थः । माता च पिता च पितरौ । `पिता` `मात्रा` इत्येकशेषः । स्मृतौ । वृद्धैरिति शेषः । अत्र मनु- `द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत् । अर्धेन नारी तस्यां स विराजमसृजत्प्रभुः ॥` इति
अन्वयः:
स्त्रीपुंसौ सिसृक्षया भिन्नमूर्तेः ते आत्मभागौ स्तः । तौ एव प्रसूतिभाजः सर्गस्य पितरौ स्मृतौ ।
Morphemic Decomposition & Padaccheda
स्त्रीपुंसाव्
स्त्री [f]
स्त्रीपुंसाव्
पुंस् [m]
आत्मभागौ
आत्मन् [m]
आत्मभागौ
भाग [m]
ते
त्वद् [pron]
भिन्नमूर्तेः
भिद् [6. P.]
भिन्नमूर्तेः
मूर्ति [f]
सिसृक्षया
सिसृक्षा [f]
प्रसूतिभाजः
प्रसूति [f]
प्रसूतिभाजः
भाज् [adj]
सर्गस्य
सर्ग [m]
ताव्
तद् [pron]
एव
एव [ind]
पितरौ
पितृ [m]
स्मृतौ
स्मृ [1. Ā.]
स्वकालपरिमाणेन व्यस्तरात्रिंदिवस्य ते । यौ तु स्वप्नावबोधौ तौ भूतानां प्रलयोदयौ ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
स्वकालेति ॥ स्वकालस्य परिमाणेन `चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते` इत्युक्तरुपेण व्यस्तं विभक्तं रात्रिंदिवं रात्र्यहनी यस्य तस्य । यद्यपि `अचतुर-` आदिसूत्रेण रात्रौ च दिवा च रत्रिंदिवमिति सप्तम्यर्थे वृत्तौ द्वन्द्व इत्युक्तं तथापि `दोषामन्यमहः` `दिवामन्या रात्रिः` इत्यादौ इवत्राऽपि प्रातिपदिकार्थवृत्तित्वं कथंचित्प्रयोगबलादाश्रयणीयम् । ते तव यौ तु स्वप्नावबोधौ तावेव भूतानां प्रलयोदयौ संहारसृष्टी । यदाहुः- `यदा स देवो जागर्ति तदैव चेष्टते जगत् । यदा स्वपिति शान्तात्मा तदा सर्वं प्रलीयते ॥` इति । एतच्च दैवेदिनसृष्टिप्रलयाभिप्रायकं महाप्रलयस्य ब्रह्मणो वर्षशतान्ते भावित्वात्
अन्वयः:
स्वकालपरिमाणेन व्यस्तरात्रिन्दिवस्य ते यौ तु स्वप्नाऽवबोधौ तौ (एव) भूतानां प्रलयोदयौ ।
Morphemic Decomposition & Padaccheda
स्वकालपरिमाणेन
स्व [adj]
स्वकालपरिमाणेन
काल [m]
स्वकालपरिमाणेन
परिमाण [n]
व्यस्तरात्रिंदिवस्य
व्यस्त [adj]
व्यस्तरात्रिंदिवस्य
रात्रिंदिव [n]
ते
त्वद् [pron]
यौ
यद् [pron]
तु
तु [ind]
स्वप्नावबोधौ
स्वप्न [mn]
स्वप्नावबोधौ
अवबोध [m]
तौ
तद् [pron]
भूतानां
भूत [mn]
प्रलयोदयौ
प्रलय [m]
प्रलयोदयौ
उदय [m]
जगद्योनिरयोनिस्त्वं जगदन्तो निरन्तकः । जगदादिरनादिस्त्वं जगदीशो निरीश्वरः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
जगदिति । हे भगवन्, त्वं जगद्योविर्जगत्कारणं स्वयमयोनिरनादित्वादकारणकस्त्वम् । अन्तयतीत्यन्तः । पचाद्यच् । चगतोऽन्तर्जगत्संहर्ता स्वयं निरन्तको नित्यत्वादन्तरहितः । त्वं जगतामादिर्जगदादिः । सृष्टेः प्रागपि सन्नित्यर्थः । अत एव त्वमनादिरादिरहितः । त्वं जगतामीशो नियन्ता स्वयं निरीश्वरः । अनियम्य इत्यर्थः । `यतो वा इमानि भूतानि जायन्ते` इत्यादि श्रुतिरेवात्र प्रमाणम् । अत्रायोनिरित्यादौ नञ्तत्पुरुषाश्रयणे विरोधः । बहुव्रीहिणा तु तत्परिहार इति विरोधाभासालंकारः । यथाहुः- `विरोधाभासत्वे विरोधः` इति
अन्वयः:
(हे भगवन् !) त्वं जगद्योनिः अयोनिः, जगदन्तः निरन्तकः, जगदादिः अनादिः, जगदीशो निरीश्वरः (असि) ।
Morphemic Decomposition & Padaccheda
जगद्योनिर्
जगद्योनि [m]
अयोनिस्
अयोनि [adj]
त्वं
त्वद् [pron]
जगदन्तो
जगन्त् [n]
जगदन्तो
अन्त [m]
निरन्तकः
निरन्तक [adj]
जगदादिर्
जगन्त् [n]
जगदादिर्
आदि [m]
अनादिस्
अनादि [adj]
त्वं
त्व [n]
जगदीशो
जगदीश [m]
निरीश्वरः
निरीश्वर [adj]
आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना । आत्मना कृतिना च त्वमात्मन्येव प्रलीयसे ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
आत्मानमिति ॥ हे भगवन्, त्वमात्मानं लोकानुग्रहार्थं ब्रह्मरूपेणोत्पिपादयिषितं स्वस्वरूपमात्मनैव वेत्सि जानासि । सर्वापि क्रिया कर्तव्यार्थज्ञानपूर्विकेति भावः । तथात्मानमात्मनैव । आत्मन्येवेत्यत्रापि संबध्यते । स्वस्मिन्नेव सृजसि । अधिष्ठानमपि स्वयमेवेत्यर्थः । `स्वेमहिम्नि प्रतिष्ठितम्` इति श्रुतेः । कृतिना समर्थेन । इदं सर्वत्र सम्बध्यते । आत्मना स्वेनैवात्मन्येव प्रलीयसे स्वस्मिन्नेव` प्रलीनो भवसि । लीयतेर्दैवादिकात्कर्तरि लट् । `प्रकृत्यादिभ्य उपसंख्यानम्` इति वार्तिकात्सर्वत्रात्मनेति तृतीया । न हि ते प्रपञ्चस्येव ज्ञानोत्पत्तिलयेषु परापेक्षेति फलितार्थः
अन्वयः:
(हे भगवन् !) त्वम् आत्मानम् आत्मना वेत्सि, आत्मानम् आत्मना सृजसि, त्वं कृतिना आत्मना आत्मनि एव प्रलीयसे ।
Morphemic Decomposition & Padaccheda
आत्मानम्
आत्मन् [m]
आत्मना
आत्मन् [m]
वेत्सि
विद् [6. Ā.]
सृजस्य्
सृज् [2. P.]
आत्मानम्
आत्मन् [m]
आत्मना
आत्मन् [m]
आत्मना
आत्मन् [m]
कृतिना
कृतिन् [adj]
च
च [ind]
त्वम्
त्वद् [pron]
आत्मन्य्
आत्मन् [m]
एव
एव [ind]
प्रलीयसे
प्रली [4. P.]
द्रवः संघातकठिनः स्थूलः सूक्ष्मो लघुर्गुरुः । व्यक्तो व्यक्तेतरश्चासि प्राकाम्यं ते विभूतिषु ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
द्रव इति ॥ त्वमित्यनुषज्यते । हे भगवन्, त्वं द्रवाः सरित्समुद्रादिवद्रसात्मकोऽसि । संघातेन निबिडसंयोगेन कठिनो महीधरादिवत् । स्थूल इन्द्रियग्रहणयोग्यो घटादिवत् । सूक्ष्मोऽतीन्द्रियः परमाण्वादिवत् । लधुरुत्पतनयोग्यस्तूलादिवत् । गुरुर्हेमाद्रिवदचलनीयः । व्यक्तः कार्यंरुपोऽसि । व्यक्तेतरः कारणरूपश्चासि । एव विभूतिष्वणिमादिषु ते तव । प्रकामस्य भावः प्राकाम्यं यथाकामत्वम्
अन्वयः:
(हे भगवन् !) त्वं द्रवः, सङ्घातकठिनः, स्थूलः सूक्ष्मः । त्वं लघुः गुरुः । त्वं व्यक्तः व्यक्तेतरश्च असि । विभूतिषु ते प्राकाम्यम् ।
Morphemic Decomposition & Padaccheda
द्रवः
द्रव [mn]
संघातकठिनः
संघात [mn]
संघातकठिनः
कठिन [adj]
स्थूलः
स्थूल [adj]
सूक्ष्मो
सूक्ष्म [adj]
लघुर्
लघु [adj]
गुरुः
गुरु [adj]
व्यक्तो
व्यक्त [adj]
व्यक्तेतरश्
व्यक्त [adj]
व्यक्तेतरश्
इतर [pron]
चासि
च [ind]
चासि
अस् [2. P.]
प्राकाम्यं
प्राकाम्य [n]
ते
त्वद् [pron]
विभूतिषु
विभूति [f]
उद्घातः प्रणवो यासां न्यायैस्त्रिभिरुदीरणम् । कर्म यज्ञः फलं स्वर्गस्तासां त्वं प्रभवो गिराम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
उद्घात इति ॥ हे भगवन्, यासां गिरां वाचामुद्घात उपक्रमः प्रणव ओंकारात्मकः । `ओंकारप्रणवौ समौ` इति । `स्यादभ्यादानमुद्घात आरम्भः` इति चामरः । इदमुपसंहारस्याप्युपलक्षणम् । `ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वतः । दहत्येनः कृतं पूर्वं परस्ताच्च विशेषतः ॥` इति निरुक्तपरिशिष्टयोर्यास्कः । नीयन्त एभिरर्थविशेषा इति न्यायाः स्वराः । उक्तं च- स्वरविशेषादर्थप्रतिपत्तिः` । `यथेन्द्रशत्रुः स्वरतोऽपराधात्` इति । यासां गिरां त्रिभिर्न्यायैरुदात्तानुदात्तस्वरितैः स्वरैरुदीरणमुच्चारणम् । यासां कर्म, प्रतिपाद्यमित्यर्थः । यज्ञो ज्योतिष्टोमादिः । न तु चैत्यवन्दनादिरिति भावः । फलं स्वर्गः । कर्मद्वारेति शेषः । कर्मस्वर्गौ ब्रह्मापवर्गयोरप्युपलक्षणे । त्वं तासां गिरां वेदानामित्यर्थः । प्रभवत्यस्मादिति प्रभवः कारणम् । प्रणेता स्मर्ता वा मतभेदेन
अन्वयः:
(हे भगवन् !) यासां गिराम् उद्घातः प्रणवः, त्रिभिः न्यायैः उदीरणं, कर्म यज्ञः, फलं स्वर्गः त्वं तासां गिरां प्रभवः (असि ।)
Morphemic Decomposition & Padaccheda
उद्घातः
उद्घात [m]
प्रणवो
प्रणव [m]
यासां
यद् [pron]
न्यायैस्
न्याय [m]
त्रिभिर्
त्रि [nr]
उदीरणम्
उदीरण [n]
कर्म
कर्मन् [n]
यज्ञः
यज्ञ [m]
फलं
फल [n]
स्वर्गस्
स्वर्ग [m]
तासां
तद् [pron]
त्वं
त्वद् [pron]
प्रभवो
प्रभव [m]
गिराम्
गिर् [f]
त्वामामनन्ति प्रकृतिं पुरुषार्थप्रवर्तिनीम् । तद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
त्वामिति ॥ हे भगवन्, त्वां पुरुषस्यार्थो भोगापवर्गरुपस्तदर्थ प्रवर्तत इति पुरुषार्थप्रवर्तिनीं तां प्रकृतिं त्रैगुण्यात्मकं मूलकारणम् । `प्रकृतिः पञ्चभूतेषु प्रधाने मूलकारणम्` । इति यादवः । आमनन्ति कथयन्ति । `म्ना अभ्यासे` इति धातोर्लट् । `पाघ्राध्मास्थाम्ना-` इत्यादिना मनादेशः । प्रकृतिपुरुषभेदाग्रहणात्प्रकृतिपुरुषाभेदव्यपदेशः । त्वामेव तां प्रकृतिं साक्षित्वेन पस्यतीति तद्दर्शिनमुदासीनं कूटस्थं पुरुषं विदुर्विदन्ति । `विदो लटो वा` (पा.3|4|83) इति झेर्जुसादेशः । `अजामेकां लोहितशुक्लकृष्णाम्` इति श्रुतिरत्र प्रमाणम्
अन्वयः:
(हे भगवन् !) त्वां पुरुषाऽर्थप्रवर्तिनीं प्रकृतिम् आमनन्ति । त्वाम् एव तद्दर्शिनम् उदासीनं पुरुषं विदुः ।
Morphemic Decomposition & Padaccheda
त्वाम्
त्वद् [pron]
आमनन्ति
आम्ना [1. P.]
प्रकृतिं
प्रकृति [f]
पुरुषार्थप्रवर्तिनीम्
पुरुष [m]
पुरुषार्थप्रवर्तिनीम्
अर्थ [mn]
पुरुषार्थप्रवर्तिनीम्
प्रवर्तिन् [adj]
तद्दर्शिनम्
तद् [pron]
तद्दर्शिनम्
दर्शिन् [adj]
उदासीनं
उदासीन [m]
त्वाम्
त्वद् [pron]
एव
एव [ind]
पुरुषं
पुरुष [m]
विदुः
विद् [6. Ā.]
त्वं पितॄणामपि पिता देवानामपि देवता । परतोऽपि परश्चासि विधाता वेधसामपि ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
त्वमिति ॥ हे भगवन्, त्वं पितॄणामाग्निष्वात्तादीनामपि पिता । तेषामपि तर्पणीय इत्यर्थः । परतोऽपि परश्चासि । सर्वोत्तरोऽसीत्यर्थः । `इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसश्च परा बुद्धिर्बुद्धेरात्मा महास्ततः ।महतः परमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥` इति सर्वोत्तरत्वाभिधानात् । वेधसां दक्षादीनामपि विधाता स्त्रष्टासि
अन्वयः:
(हे भगवन् !) त्वं पितॄणाम् अपि पिता, देवानाम् अपि देवता, परतोऽपि परः, वेधसाम् अपि विधाता च असि ।
Morphemic Decomposition & Padaccheda
त्वं
त्वद् [pron]
पितॄणाम्
पितृ [m]
अपि
अपि [ind]
पिता
पितृ [m]
देवानाम्
देव [m]
अपि
अपि [ind]
देवता
देवता [f]
परतो
परतस् [ind]
ऽपि
अपि [ind]
परश्
पर [pron]
चासि
च [ind]
चासि
अस् [2. P.]
विधाता
विधातृ [m]
वेधसाम्
वेधस् [m]
अपि
अपि [ind]
त्वमेव हव्यं होता च भोज्यं भोक्ता च शाश्वतः । वेद्यं च वेदिता चासि ध्याता ध्येयं च यत्परम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
त्वमेवेति । शश्वत्सिद्धः शाश्वतः । शैषिकोऽण्प्रत्ययः । यद्यपि `कालाट्ठञ्` (पा.4|3|11) इति ठञपवादः । अत एव सूत्रकारस्यापि प्रयोगः- `येषां च विरोधः शाश्वतिकः` (पा.2|4|9) इति । तथापि प्रयोगवशात्साधुरिति वामन इति । शाश्वतः प्रयुक्तः शाश्वतस्त्वमेव । हूयत इति हव्यं हविराज्यादिकम् । जुहोतीति होता यजमानश्चासि । भोज्यमभ्यवहार्यमन्नम् । `भोज्यं भक्ष्ये` (पा.7|3|69) इति निपातनात्कुत्वाभावः । भोक्तान्नादश्चासि । वेद्यं साक्षात्कार्य वस्तुवेदिता साक्षात्कर्ता चासि । ध्याता स्मर्ता च । यत्परं वस्तु ध्येयं तच्चासि । साक्षात्कर्ता चासि । ध्याता स्मर्ता च । यत्परं वस्तु ध्येयं तच्चासि । साक्षात्कारसाधनभूतप्रत्ययविशेषप्रवाहो ध्यानम्
अन्वयः:
(हे भगवन् !) त्वम् शाश्वतः एव हव्यं होता च, भोज्यं भोक्ता च, वेद्यं वेदिता च, ध्याता यत् परं ध्येयं च असि ।
Morphemic Decomposition & Padaccheda
त्वम्
त्वद् [pron]
एव
एव [ind]
हव्यं
हव्य [n]
होता
होतृ [m]
च
च [ind]
भोज्यं
भोज्य [n]
भोक्ता
भोक्तृ [adj]
च
च [ind]
शाश्वतः
शाश्वत [adj]
वेद्यं
विद् [6. Ā.]
च
च [ind]
वेदिता
वेदितृ [adj]
चासि
च [ind]
चासि
अस् [2. P.]
ध्याता
ध्यातृ [m]
ध्येयं
ध्या [3. Ā.]
च
च [ind]
यत्
यद् [pron]
परम्
पर [pron]
इति तेभ्यः स्तुतीः श्रुत्वा यथार्था हृदयंगमाः । प्रसादाभिमुखो वेधाः प्रत्युवाच दिवौकसः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
इतीति ॥ वेधा ब्रह्मेति तेभ्यो देवेभ्यः । `आख्यातोपयोगे` (पा.1|4|29) इत्यपादानत्वात्पञ्चमी । यथार्थाः सत्या अत एव हृदयं गच्छन्तीति हृदयंगमा मनोहराः । खच्प्रकरणे `गमेः सुप्युपसंख्यानम्` इति खच्प्रत्ययः । `अरुर्द्विषजन्तस्य मुम्` इति मुमागमः । स्तुतीः स्तोत्राणि श्रुत्वा प्रसादाभिमुखोऽनुग्रहप्रवणः सन् । दिवौकसो देवान्प्रत्युवाच
अन्वयः:
वेधा इति तेभ्यः यथार्थाः हृदयङ्गमाः स्तुतीः श्रुत्वा प्रसादाऽभिमुखः (सन्) दिवौकसः प्रत्युवाच
Morphemic Decomposition & Padaccheda
इति
इति [ind]
तेभ्यः
तद् [pron]
स्तुतीः
स्तुति [f]
श्रुत्वा
श्रु [4. P.]
यथार्था
यथार्थ [adj]
हृदयंगमाः
हृदयंगम [adj]
प्रसादाभिमुखो
प्रसाद [m]
प्रसादाभिमुखो
अभिमुख [adj]
वेधाः
वेधस् [m]
प्रत्युवाच
प्रतिवच् [3. Ā.]
दिवौकसः
दिवौकस् [m]
पुराणस्य कवेस्तस्य चतुर्मुखसमीरिता । प्रवृत्तिरासीच्छब्दानां चरितार्था चतुष्टयी ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
पुराणस्येति ॥ द्रव्यगुणक्रियाजातिभेदेन चत्वारोऽवयवा यस्या इति चतुष्टयो चतुर्विधा । `संख्याया अवयवे तयप्` (पा.5|2|42) इति तयप् । `टिङ्ढाणञ्द्वयसच्-` इत्यादिना ङीप् । शब्दानां प्रवृत्तिर्वैखरीप्रमुखा वाग्वृत्तिः । उक्तं च- `वैखरी शब्दनिष्पत्तिर्मध्यमा श्रुतिगोचरा । द्योतितार्था च पश्यन्ती सूक्ष्मा वागनपायिनी ॥` इति । पुराणास्य पुरातनस्य । पृषोदरादित्वात्साधुः । कवेः कवयितुस्तस्य ब्रह्मणश्चतुर्भिर्मुखैः समीरिता सती । `तद्धितार्थ-` इत्यादिनोत्तरपदसमासः । समाहारे चतुर्मुखीति स्यात् । चरितार्थान्वर्थासीत् । चतुर्मुखोच्चारणाच्चातुर्विध्यं सफलमासीदित्यर्थः
अन्वयः:
चतुष्टयी शब्दानां प्रवृत्तिः पुराणस्य कवेः तस्य चर्तुर्मुखसमीरिता (सती) चरितार्था आसीत् ।
Morphemic Decomposition & Padaccheda
पुराणस्य
पुराण [adj]
कवेस्
कवि [m]
तस्य
तद् [pron]
चतुर्मुखसमीरिता
चतुर्मुख [m]
चतुर्मुखसमीरिता
समीरय् [10. Ā.]
प्रवृत्तिर्
प्रवृत्ति [f]
आसीच्
अस् [2. P.]
छब्दानां
शब्द [m]
चरितार्था
चरितार्थ [adj]
चतुष्टयी
चतुष्टय [fn]
स्वागतं स्वानधीकारान्प्रभावैरवलम्ब्य वः । युगपद्युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
स्वागतमिति ॥ हे प्राज्यविक्रमाः प्रभूतपराक्रमा देवाः । `प्राज्यं भूरिप्रभूतं च` इति यादवः । स्वान्स्वकीयानधिकारान्नियोगान् । `उपसर्गस्य घञि-` इति वा दीर्घः । प्रभावैः सामर्थ्यैरवलम्ब्यास्थाय । यथाधिकारं स्थित्वापीत्यर्थः । युगपत्समकालं प्राप्तेभ्यः । युगपत्प्राप्त्या महत्कार्यमनुमीयत इति भावः । युगबाहुभ्यः । दीर्घबाहुभ्य इत्यर्थः । अजानुबाहुत्वं भाग्यलक्षणम् । वो युष्मभ्यम् ।`बहुवचनस्य वस्नसौ` (पा.8|1|21) इति वसादेशः । `कर्मणा यमभिप्रैति-` इत्यत्र कर्मपदेन क्रियाग्रहणात्संप्रदानत्वम् । स्वागतं शोभनागमनम् । काकुरत्रानुसंधेया
अन्वयः:
हे प्राज्यविक्रनाः ! स्वान् अधिकारान् प्रभावैः अवलम्ब्य युगपत् प्राप्तेभ्यः युगबाहुभ्यो वः स्वागतम्
Morphemic Decomposition & Padaccheda
स्वागतं
स्वागत [n]
स्वान्
स्व [adj]
अधीकारान्
अधीकार [m]
प्रभावैर्
प्रभाव [m]
अवलम्ब्य
अवलम्ब् [1. P.]
वः
त्वद् [pron]
युगपद्
युगपद् [ind]
युगबाहुभ्यः
युग [mn]
युगबाहुभ्यः
बाहु [mf]
प्राप्तेभ्यः
प्राप् [1. P.]
प्राज्यविक्रमाः
प्राज्य [adj]
प्राज्यविक्रमाः
विक्रम [m]
किमिदं द्युतिमात्मीयां न बिभ्रति यथा पुरा । हिमक्लिष्टप्रकाशानि ज्योतींषीव मुखानि वः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
किमिति ॥ `वत्साः` इत्युत्तरश्लोकीय (४/१८) संबोधनमत्राप्यनुष़ञ्जनीयम् । हे वत्साः पुत्रकाः, हिमेन नीहारेण क्लिष्टप्रका शानि मन्दप्रभाणि ज्योतींषि नक्षत्राणीव ।`दीत्पिताराहुताशेषु ज्योतिः` इति शाश्वतः । वो युष्माकं मुखानि पुरा यथा पूर्वमिवात्मीयां द्युतिं न बिभ्रति । इदम् किम् । किंनिबन्धनमित्यर्थः । किमिदमित्यनेन वाक्यार्थः परामृश्यते
अन्वयः:
(ह वत्साः !) हिमक्लिष्टप्रकाशानि ज्योतींषि इव वो मुखानि पुरा यथा आत्मीयां द्युतिं न बिभ्रति । इदं किम् ?
Morphemic Decomposition & Padaccheda
किम्
क [pron]
इदं
इदम् [pron]
द्युतिम्
द्युति [f]
आत्मीयां
आत्मीय [adj]
न
न [ind]
बिभ्रति
भृ [1. Ā.]
यथा
यथा [ind]
पुरा
पुरा [ind]
हिमक्लिष्टप्रकाशानि
हिम [n]
हिमक्लिष्टप्रकाशानि
क्लिश् [9. Ā.]
हिमक्लिष्टप्रकाशानि
प्रकाश [m]
ज्योतींषीव
ज्योतिस् [n]
ज्योतींषीव
इव [ind]
मुखानि
मुख [n]
वः
त्वद् [pron]
प्रशमादर्चिषामेतदनुद्गीर्णसुरायुधम् । वृत्रस्य हन्तुः कुलिशं कुण्ठिताश्रीव लक्ष्यते ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
प्रशमादिति ॥ अर्चिषां तेजसां प्रशमान्निर्वाणादनुद्गीर्णसुरायुधम् । अनुदितचित्रप्रभमित्यर्थः । एतद्वृत्रस्य हन्तुरिन्द्रस्य कुलिशं वज्रम् । कुण्ठिता अश्रयो यस्य तत्कुण्ठिताश्रि कुण्ठितकोटीव लक्ष्यते दृश्यते
अन्वयः:
अर्चिषां प्रशमात् अनुद्गीर्णसुरायुधम् एतत् वृत्रस्य हन्तुः कुलिशं कुण्ठिताश्रि इव लक्ष्यते
Morphemic Decomposition & Padaccheda
प्रशमाद्
प्रशम [m]
अर्चिषाम्
अर्चिस् [n]
एतद्
एतद् [pron]
अनुद्गीर्णसुरायुधम्
अनुद्गीर्ण [adj]
अनुद्गीर्णसुरायुधम्
सुर [m]
अनुद्गीर्णसुरायुधम्
आयुध [mn]
वृत्रस्य
वृत्र [m]
हन्तुः
हन्तृ [adj]
कुलिशं
कुलिश [mn]
कुण्ठिताश्रीव
कुण्ठय् [Denom. P.]
कुण्ठिताश्रीव
अश्रि [f]
कुण्ठिताश्रीव
इव [ind]
लक्ष्यते
लक्षय् [10. Ā.]
किं चायमरिदुर्वारः पाणौ पाशः प्रचेतसः । मन्त्रेण हतवीर्यस्य फणिनो दैन्यमाश्रितः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
किं चेति ॥ किं चायमरिदुर्वारो रिपुदुष्प्रधर्षः प्रचेतसो वरुणस्य । `प्रचेता वरुणः पाशी` इत्यमरः (अ.को.1|1|73) । पाणौ पाशो रज्जुरायुधविशेषः । मन्त्रेण गारुडेन हतवीर्यस्य प्रतिबद्धशक्तेः । फणिनः सर्पस्य दैन्यं शोच्यत्वमाश्रितः । अत्र फणिनिष्ठदैन्यस्य पाशेऽसम्भवाद्दैन्यमिव दैन्यमिति कल्पनादसंभवद्वस्तुसंबन्धो निदर्शनालंकारः
अन्वयः:
किं च अयम् अरिदुर्वारः प्रचेतसः पाणौ पाशः मन्त्रेण हतवीर्यस्य फणिनो दैन्यम् आश्रितः ।
Morphemic Decomposition & Padaccheda
किं
किम् [ind]
चायम्
च [ind]
चायम्
इदम् [pron]
अरिदुर्वारः
अरि [m]
अरिदुर्वारः
दुर्वार [adj]
पाणौ
पाणि [m]
पाशः
पाश [m]
प्रचेतसः
प्रचेतस् [m]
मन्त्रेण
मन्त्र [mn]
हतवीर्यस्य
हन् [6. P.]
हतवीर्यस्य
वीर्य [n]
फणिनो
फणिन् [m]
दैन्यम्
दैन्य [n]
आश्रितः
आश्रि [1. Ā.]
कुबेरस्य मनःशल्यं शंसतीव पराभवम् । अपविद्धगदो बाहुर्भग्नशाख इव द्रुमः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
कुबेरस्येति ॥ अपविद्धा त्यक्ता गदा येन सोऽपबिद्धगदः । अतएव भग्नशाखो द्रुम इव स्थितः कुबेरस्य बाहुर्मनः शल्यम् । दुःखहेतुत्वान्मनसः शल्यप्रायमित्यर्थः । पराभवम् । शत्रुकृतमिति शेषः । शंसतीव कथयतीव । लक्षणयानुमापयतीत्यर्थः । बाहौ मुख्यकथनस्यासम्भवादिवशब्दोऽप्यत एव
अन्वयः:
भग्नशाखो द्रुम इव अपविद्धगदः कुबेरस्य बाहुः मनःशल्यं पराभवं शंसति इव ।
Morphemic Decomposition & Padaccheda
कुबेरस्य
कुबेर [m]
मनःशल्यं
मनस् [n]
मनःशल्यं
शल्य [mn]
शंसतीव
शंस् [2. Ā.]
शंसतीव
इव [ind]
पराभवम्
पराभव [m]
अपविद्धगदो
अपव्यध् [4. P.]
अपविद्धगदो
गदा [f]
बाहुर्
बाहु [mf]
भग्नशाख
भञ्ज् [4. P.]
भग्नशाख
शाखा [f]
इव
इव [ind]
द्रुमः
द्रुम [m]
यमोऽपि विलिखन्भूमिं दण्डेनास्तमितत्विषा । कुरुतेऽस्मिन्नमोघेऽपि निर्वाणालातलाघवम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
यम इति ॥ अस्तं नाशमिताः प्राप्ताः । अस्तमिति मकारान्तमव्ययम् । तस्य `द्वीतीयाश्रितातीतपतितगतात्यस्तप्राप्तापन्नैः` इति समासः । अस्तमितास्त्विषो यस्य तेन निस्तेजस्केन दण्डेन यमोऽपि भूमिं विलिखन्नमोघेऽपि प्रागिति भावः । अस्मिन्दण्डे निर्वाणालातस्य शान्तोल्मुकस्य । अलातं नाम भूलेखनशलाका तस्य यल्लाघवं क्लैब्यं तत्कुरुते । `अलातमुल्मुकं ज्ञेयम्` इति हलायुधः । निर्वाणोऽवाते` इति निपातनान्निष्ठानत्वम् । अत्रापि लाघवमिव लाघवमिति कल्पनान्निदर्शनालंकारः
अन्वयः:
अस्तमितत्विषा दण्डेन भूमिं विलिखन् यमोऽपि अमोघे अपि अस्मिन् निर्वाणाऽलातलाघवं कुरुते ।
Morphemic Decomposition & Padaccheda
यमो
यम [m]
ऽपि
अपि [ind]
विलिखन्
विलिख् [6. P.]
भूमिं
भूमि [f]
दण्डेनास्तमितत्विषा
दण्ड [mn]
दण्डेनास्तमितत्विषा
अस्तमित [adj]
दण्डेनास्तमितत्विषा
त्विष् [f]
कुरुते
कृ [2. Ā.]
ऽस्मिन्न्
इदम् [pron]
अमोघे
अमोघ [adj]
ऽपि
अपि [ind]
निर्वाणालातलाघवम्
निर्वा [2. P.]
निर्वाणालातलाघवम्
अलात [n]
निर्वाणालातलाघवम्
लाघव [n]
अमी च कथमादित्याः प्रतापक्षतिशीतलाः । चित्रन्यस्ता इव गताः प्रकामालोकनीयताम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
अमी इति ॥ प्रतापक्षत्या तेजसां क्षयेण शीतला अमी आदित्याश्च । द्वादशेति शेषः । कथम् । केन हेतुनेत्यर्थः । चित्रन्यस्ताश्चित्रलिखिता इव । प्रकाममत्यन्तमालोकनीयतां दृश्यतां गताः प्रात्पाः
अन्वयः:
प्रतापक्षतिशीतला अमी आदित्यश्च कथं चित्रन्यस्ता इव प्रकामालोकमीयतां गताः ।
Morphemic Decomposition & Padaccheda
अमी
अदस् [pron]
च
च [ind]
कथम्
कथम् [ind]
आदित्याः
आदित्य [m]
प्रतापक्षतिशीतलाः
प्रताप [m]
प्रतापक्षतिशीतलाः
क्षति [f]
प्रतापक्षतिशीतलाः
शीतल [adj]
चित्रन्यस्ता
चित्र [n]
चित्रन्यस्ता
न्यस् [2. P.]
इव
इव [ind]
गताः
गम् [6. Ā.]
प्रकामालोकनीयताम्
प्रकाम [m]
प्रकामालोकनीयताम्
आलोकय् [10. Ā.]
प्रकामालोकनीयताम्
ता [f]
पर्याकुलत्वान्मरुतां वेगभङ्गोऽनुमीयते । अम्भसामोघसंरोधः प्रतीपगमनादिव ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
पर्याकुलेति ॥ मरुतां वायूनाम् । सप्तसप्तानामिति शेषः । पर्याकुलत्वात्स्खलितगतित्वाद्धेतोर्वेगस्य भङ्गोऽम्भसां जलानां प्रतीपगमनात् । उत्तानावरोहादित्यर्थः । ओघस्य संरोधः प्रवाहप्रतिबन्ध इवानुमीयते
अन्वयः:
अम्भसां प्रतीपगमनात् ओघसंरोध इव मरुतां पर्याकुलत्वात् वेगभङ्गोऽनुमीयते ।
Morphemic Decomposition & Padaccheda
पर्याकुलत्वान्
पर्याकुल [adj]
पर्याकुलत्वान्
त्व [n]
मरुतां
मरुत् [m]
वेगभङ्गो
वेग [m]
वेगभङ्गो
भङ्ग [m]
ऽनुमीयते
अनुमा [3. P.]
अम्भसाम्
अम्भस् [n]
ओघसंरोधः
ओघ [m]
ओघसंरोधः
संरोध [m]
प्रतीपगमनाद्
प्रतीप [adj]
प्रतीपगमनाद्
गमन [n]
इव
इव [ind]
आवर्जितजटामौलिविलम्बिशशिकोटयः । रुद्राणामपि मूर्धानः क्षतहुंकारशंसिनः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
आवर्जितेति ॥ आवर्जितेषु परिभवदुःखावनम्रेषु जटानां मोलिषु जटाजूटेषु विलम्बिन्यः स्त्रंसिन्यः शशिकोटयश्चन्द्ररेखा येषां ते तथोक्ताः । रुद्राणामपि । एकादशानामिति शेषः । मूर्धानः क्षतं हुङ्कारं शंसन्तीति तथोक्ताः । हुङ्कारक्षत्यनुमापका इत्यर्थः । हुङ्कारशस्त्रा हि रुद्रा इति भावः
अन्वयः:
आवर्जीतजटामौलिविलम्बिशशकोटयो रुद्राणां अपि मूर्धानः क्षतहुङ्कारशंसिनः ।
Morphemic Decomposition & Padaccheda
आवर्जितजटामौलिविलम्बिशशिकोटयः
आवर्जय् [10. P.]
आवर्जितजटामौलिविलम्बिशशिकोटयः
जटा [f]
आवर्जितजटामौलिविलम्बिशशिकोटयः
मौलि [mf]
आवर्जितजटामौलिविलम्बिशशिकोटयः
विलम्बिन् [adj]
आवर्जितजटामौलिविलम्बिशशिकोटयः
शशिन् [m]
आवर्जितजटामौलिविलम्बिशशिकोटयः
कोटि [f]
रुद्राणाम्
रुद्र [m]
अपि
अपि [ind]
मूर्धानः
मूर्धन् [m]
क्षतहुंकारशंसिनः
क्षन् [8. Ā.]
क्षतहुंकारशंसिनः
हुंकार [m]
क्षतहुंकारशंसिनः
शंसिन् [adj]
लब्धप्रतिष्ठाः प्रथमं यूयं किं बलवत्तरैः । अपवादैरिवोत्सर्गाः कृतव्यावृत्तयः परैः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
लब्धेति ॥ प्रथमं पूर्वं लब्धप्रतिष्ठा लब्धस्थितयः । लब्धावकाशा इत्यन्यत्र । यूयं बलवत्तरैः पौरुषातिरेकात्प्रबलतरैः । निरवकाशैरित्यपरत्र । परैः शत्रुभिरत्सर्गाः सामान्यशास्त्राणि `मा हिंस्यात्` इत्येवमादीनि । अपोद्यन्त एमिरित्यपवादैः `गामालभेत` इत्यादिभिर्विशेषशास्त्रैरिव किं कृतव्यावृत्तयः कृतप्रतिष्ठाभङ्गाः । कृतविषयसंकोचरुपबाधा इत्यन्यत्र । `विषयसंकोच एव बाधः` इत्याचार्याः । निषेधशास्त्रस्य वेदिकहिंसापरिहारेण लौरिकमात्रे व्यवस्थापनाद्विषयसंकोच इत्यलमतिगहनावगाहनेन
अन्वयः:
प्रथमं लब्धप्रतिष्ठा यूयं बलवत्तरैः परैः उत्सर्गाअपवादैः इव किं कृतव्यावृत्तयः ।
Morphemic Decomposition & Padaccheda
लब्धप्रतिष्ठाः
लभ् [1. P.]
लब्धप्रतिष्ठाः
प्रतिष्ठा [f]
प्रथमं
प्रथमम् [ind]
यूयं
त्वद् [pron]
किं
किम् [ind]
बलवत्तरैः
बलवत्तर [adj]
अपवादैर्
अपवाद [m]
इवोत्सर्गाः
इव [ind]
इवोत्सर्गाः
उत्सर्ग [m]
कृतव्यावृत्तयः
कृ [2. Ā.]
कृतव्यावृत्तयः
व्यावृत्ति [f]
परैः
पर [pron]
तद्ब्रूत वत्साः किमितः प्रार्थयध्वे समागताः । मयि सृष्टिर्हि लोकानां रक्षा युष्मास्ववस्थिता ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
तदिति ॥ तत्तस्मात्कारणात् । हे वत्साः पुत्रकाः । `वत्सस्त्वर्भकपुत्राद्योर्वर्षे वत्सं तु वक्षसि` इति विश्वः । स्वयं पितामहत्वाद्वत्सा इत्यामन्त्रयते । संभूयागताः समागताः इतो मत्तः किं प्रार्थयध्वम् । किमिच्छतेत्यर्थः । ब्रूत । लोकरक्षणे यूयमेव कर्तार इत्याह- मयि लोकानां सृष्टी रक्षा युष्मास्ववस्थिता । अतस्तदर्थमपि नस्ति मदपेक्षेत्यर्थः
अन्वयः:
तत् हे वत्साः । समागता यूयम्, इतः किं प्रार्थयध्वं ? ब्रूत । हि मयि लोकानां सृष्टिः, रक्षा युष्मासु अवस्थिता ।
Morphemic Decomposition & Padaccheda
तद्
तद् [pron]
ब्रूत
ब्रू [2. Ā.]
वत्साः
वत्स [m]
किम्
क [pron]
इतः
इतस् [ind]
प्रार्थयध्वे
प्रार्थय् [Denom. Ā.]
समागताः
समागम् [6. P.]
मयि
मद् [pron]
सृष्टिर्
सृष्टि [f]
हि
हि [ind]
लोकानां
लोक [m]
रक्षा
रक्षा [f]
युष्मास्व्
त्वद् [pron]
अवस्थिता
अवस्था [1. Ā.]
ततो मन्दानिलोद्धूतकमलाकरशोभिना । गुरुं नेत्रसहस्रेण चोदयामास वासवः ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
तत इति ॥ ततो भगवत्प्रश्नानन्तरं वासव इन्द्रो गुरुं बृहस्पतिम् । `गुरूगीष्पतिपित्राद्यौ` इत्यमरः । मन्दानिलोद्धूतो यः कमलाकरः स इव शोभत इति तेन तथोक्तेन नेत्राणां सहस्रेण नोदयामास प्रेरयामास। सहस्रग्रहणमास्थातिशयार्थम् । अनिमेषाणामपि प्रयत्नवशादक्षिस्पन्दो न विरुध्यते
अन्वयः:
ततो वासवो गुरुं मन्दाऽनिलोद्धूतकमलाकरशोभिना नेत्रसहस्रेण नोदयामास ।
Morphemic Decomposition & Padaccheda
ततो
ततस् [ind]
मन्दानिलोद्धूतकमलाकरशोभिना
मन्द [adj]
मन्दानिलोद्धूतकमलाकरशोभिना
अनिल [m]
मन्दानिलोद्धूतकमलाकरशोभिना
उद्धू [5. P.]
मन्दानिलोद्धूतकमलाकरशोभिना
कमल [mn]
मन्दानिलोद्धूतकमलाकरशोभिना
आकर [m]
मन्दानिलोद्धूतकमलाकरशोभिना
शोभिन् [adj]
गुरुं
गुरु [m]
नेत्रसहस्रेण
नेत्र [mn]
नेत्रसहस्रेण
सहस्र [mn]
चोदयामास
चोदय् [10. Ā.]
वासवः
वासव [m]
स द्विनेत्रो हरेश्चक्षुः सहस्रनयनाधिकम् । वाचस्पतिरुवाचेदं प्राञ्जलिर्जलजासनम् ॥
व्याख्या / Traditional Commentary & Notes
सञ्जीविनीटीका (मल्लिनाथः):
स इति ॥ हरेरिन्द्रस्य। `इन्द्रो दुश्च्यवनो हरिः` इति हलायुधः । सहस्रान्नयनेभ्योऽधिकं सहस्रनयनाधिकम् । तदगोचरदर्शित्वादिति भावः । द्वे नेत्रे यस्य तद्द्विनेत्रम् । प्रसिद्धाच्चक्षुषोऽयं विशेष इत्यर्थः । चक्षुश्चक्षुर्भूतः । स च वाचस्पतिः । कस्कादित्वादलुक्सत्वे । `षष्ठ्याः पतिपुत्र-` इत्यादिना सत्वमिति स्वामी । तन्न, छन्दोविषयत्वात् । प्राञ्जलिः सन्। जलजासनं ब्रह्माणमिदमुवाच चक्षुष्ट्वारोपस्य प्रकृतोपयोगात्परिणामालङ्कारः
अन्वयः:
हरेः सहस्रनयनाऽधिकं द्विनेत्रं चक्षुः स वाचस्पतिः प्राञ्जलिः (सन्) जलजासनम् इदम् उवाच ।
Morphemic Decomposition & Padaccheda
स
तद् [pron]
द्विनेत्रो
द्वि [nr]
द्विनेत्रो
नेत्र [mn]
हरेश्
हरि [m]
चक्षुः
चक्षुस् [n]
सहस्रनयनाधिकम्
सहस्र [mn]
सहस्रनयनाधिकम्
नयन [n]
सहस्रनयनाधिकम्
अधिक [adj]
वाचस्पतिर्
वाचस्पति [m]
उवाचेदं
वच् [2. P.]
उवाचेदं
इदम् [pron]
प्राञ्जलिर्
प्राञ्जलि [adj]
जलजासनम्
जलजासन [m]