Skip to main content
Search
Ch. 2 KS 2.28
Full Chapter
KS • Chapter 2: Canto 2

KS 2.28

Canonical Ref: KS 2.28
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
तद्ब्रूत वत्साः किमितः प्रार्थयध्वे समागताः । मयि सृष्टिर्हि लोकानां रक्षा युष्मास्ववस्थिता ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तदिति ॥ तत्तस्मात्कारणात् । हे वत्साः पुत्रकाः । `वत्सस्त्वर्भकपुत्राद्योर्वर्षे वत्सं तु वक्षसि` इति विश्वः । स्वयं पितामहत्वाद्वत्सा इत्यामन्त्रयते । संभूयागताः समागताः इतो मत्तः किं प्रार्थयध्वम् । किमिच्छतेत्यर्थः । ब्रूत । लोकरक्षणे यूयमेव कर्तार इत्याह- मयि लोकानां सृष्टी रक्षा युष्मास्ववस्थिता । अतस्तदर्थमपि नस्ति मदपेक्षेत्यर्थः अन्वयः: तत् हे वत्साः । समागता यूयम्, इतः किं प्रार्थयध्वं ? ब्रूत । हि मयि लोकानां सृष्टिः, रक्षा युष्मासु अवस्थिता ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
तद्
Lemma: तद्
POS: pron
ब्रूत
Lemma: ब्रू
POS: 2. Ā. • Verb: ब्रूत
वत्साः
Lemma: वत्स
POS: m
किम्
Lemma: क
POS: pron
इतः
Lemma: इतस्
POS: ind
प्रार्थयध्वे
Lemma: प्रार्थय्
POS: Denom. Ā. • Verb: प्रार्थयध्वे
समागताः
Lemma: समागम्
POS: 6. P.
मयि
Lemma: मद्
POS: pron
सृष्टिर्
Lemma: सृष्टि
POS: f
हि
Lemma: हि
POS: ind
लोकानां
Lemma: लोक
POS: m
रक्षा
Lemma: रक्षा
POS: f
युष्मास्व्
Lemma: त्वद्
POS: pron
अवस्थिता
Lemma: अवस्था
POS: 1. Ā.
Canonical CTS URN Reference
Kumārasambhavam, KS 2.28. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 2.27) All Verses in Chapter 2 Next Verse (KS 2.29) →