Skip to main content
Search
Ch. 2 KS 2.10
Full Chapter
KS • Chapter 2: Canto 2

KS 2.10

Canonical Ref: KS 2.10
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना । आत्मना कृतिना च त्वमात्मन्येव प्रलीयसे ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): आत्मानमिति ॥ हे भगवन्, त्वमात्मानं लोकानुग्रहार्थं ब्रह्मरूपेणोत्पिपादयिषितं स्वस्वरूपमात्मनैव वेत्सि जानासि । सर्वापि क्रिया कर्तव्यार्थज्ञानपूर्विकेति भावः । तथात्मानमात्मनैव । आत्मन्येवेत्यत्रापि संबध्यते । स्वस्मिन्नेव सृजसि । अधिष्ठानमपि स्वयमेवेत्यर्थः । `स्वेमहिम्नि प्रतिष्ठितम्` इति श्रुतेः । कृतिना समर्थेन । इदं सर्वत्र सम्बध्यते । आत्मना स्वेनैवात्मन्येव प्रलीयसे स्वस्मिन्नेव` प्रलीनो भवसि । लीयतेर्दैवादिकात्कर्तरि लट् । `प्रकृत्यादिभ्य उपसंख्यानम्` इति वार्तिकात्सर्वत्रात्मनेति तृतीया । न हि ते प्रपञ्चस्येव ज्ञानोत्पत्तिलयेषु परापेक्षेति फलितार्थः अन्वयः: (हे भगवन् !) त्वम् आत्मानम् आत्मना वेत्सि, आत्मानम् आत्मना सृजसि, त्वं कृतिना आत्मना आत्मनि एव प्रलीयसे ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
आत्मानम्
Lemma: आत्मन्
POS: m
आत्मना
Lemma: आत्मन्
POS: m
वेत्सि
Lemma: विद्
POS: 6. Ā. • Verb: वेत्सि
सृजस्य्
Lemma: सृज्
POS: 2. P. • Verb: सृजसि
आत्मानम्
Lemma: आत्मन्
POS: m
आत्मना
Lemma: आत्मन्
POS: m
आत्मना
Lemma: आत्मन्
POS: m
कृतिना
Lemma: कृतिन्
POS: adj
च
Lemma: च
POS: ind
त्वम्
Lemma: त्वद्
POS: pron
आत्मन्य्
Lemma: आत्मन्
POS: m
एव
Lemma: एव
POS: ind
प्रलीयसे
Lemma: प्रली
POS: 4. P. • Verb: प्रलीयसे
Canonical CTS URN Reference
Kumārasambhavam, KS 2.10. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 2.9) All Verses in Chapter 2 Next Verse (KS 2.11) →