Skip to main content
Search
Full Chapter
KS • Chapter 2: Canto 2

KS 2.9

Canonical Ref: KS 2.9
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
जगद्योनिरयोनिस्त्वं जगदन्तो निरन्तकः । जगदादिरनादिस्त्वं जगदीशो निरीश्वरः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): जगदिति । हे भगवन्, त्वं जगद्योविर्जगत्कारणं स्वयमयोनिरनादित्वादकारणकस्त्वम् । अन्तयतीत्यन्तः । पचाद्यच् । चगतोऽन्तर्जगत्संहर्ता स्वयं निरन्तको नित्यत्वादन्तरहितः । त्वं जगतामादिर्जगदादिः । सृष्टेः प्रागपि सन्नित्यर्थः । अत एव त्वमनादिरादिरहितः । त्वं जगतामीशो नियन्ता स्वयं निरीश्वरः । अनियम्य इत्यर्थः । `यतो वा इमानि भूतानि जायन्ते` इत्यादि श्रुतिरेवात्र प्रमाणम् । अत्रायोनिरित्यादौ नञ्तत्पुरुषाश्रयणे विरोधः । बहुव्रीहिणा तु तत्परिहार इति विरोधाभासालंकारः । यथाहुः- `विरोधाभासत्वे विरोधः` इति अन्वयः: (हे भगवन् !) त्वं जगद्योनिः अयोनिः, जगदन्तः निरन्तकः, जगदादिः अनादिः, जगदीशो निरीश्वरः (असि) ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
जगद्योनिर्
Lemma: जगद्योनि
POS: m
अयोनिस्
Lemma: अयोनि
POS: adj
त्वं
Lemma: त्वद्
POS: pron
जगदन्तो
Lemma: जगन्त्
POS: n
जगदन्तो
Lemma: अन्त
POS: m
निरन्तकः
Lemma: निरन्तक
POS: adj
जगदादिर्
Lemma: जगन्त्
POS: n
जगदादिर्
Lemma: आदि
POS: m
अनादिस्
Lemma: अनादि
POS: adj
त्वं
Lemma: त्व
POS: n
जगदीशो
Lemma: जगदीश
POS: m
निरीश्वरः
Lemma: निरीश्वर
POS: adj
Canonical CTS URN Reference
Kumārasambhavam, KS 2.9. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 2.8) All Verses in Chapter 2 Next Verse (KS 2.10) →