Skip to main content
Search
Ch. 2 KS 2.11
Full Chapter
KS • Chapter 2: Canto 2

KS 2.11

Canonical Ref: KS 2.11
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
द्रवः संघातकठिनः स्थूलः सूक्ष्मो लघुर्गुरुः । व्यक्तो व्यक्तेतरश्चासि प्राकाम्यं ते विभूतिषु ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): द्रव इति ॥ त्वमित्यनुषज्यते । हे भगवन्, त्वं द्रवाः सरित्समुद्रादिवद्रसात्मकोऽसि । संघातेन निबिडसंयोगेन कठिनो महीधरादिवत् । स्थूल इन्द्रियग्रहणयोग्यो घटादिवत् । सूक्ष्मोऽतीन्द्रियः परमाण्वादिवत् । लधुरुत्पतनयोग्यस्तूलादिवत् । गुरुर्हेमाद्रिवदचलनीयः । व्यक्तः कार्यंरुपोऽसि । व्यक्तेतरः कारणरूपश्चासि । एव विभूतिष्वणिमादिषु ते तव । प्रकामस्य भावः प्राकाम्यं यथाकामत्वम् अन्वयः: (हे भगवन् !) त्वं द्रवः, सङ्घातकठिनः, स्थूलः सूक्ष्मः । त्वं लघुः गुरुः । त्वं व्यक्तः व्यक्तेतरश्च असि । विभूतिषु ते प्राकाम्यम् ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
द्रवः
Lemma: द्रव
POS: mn
संघातकठिनः
Lemma: संघात
POS: mn
संघातकठिनः
Lemma: कठिन
POS: adj
स्थूलः
Lemma: स्थूल
POS: adj
सूक्ष्मो
Lemma: सूक्ष्म
POS: adj
लघुर्
Lemma: लघु
POS: adj
गुरुः
Lemma: गुरु
POS: adj
व्यक्तो
Lemma: व्यक्त
POS: adj
व्यक्तेतरश्
Lemma: व्यक्त
POS: adj
व्यक्तेतरश्
Lemma: इतर
POS: pron
चासि
Lemma: च
POS: ind
चासि
Lemma: अस्
POS: 2. P. • Verb: असि
प्राकाम्यं
Lemma: प्राकाम्य
POS: n
ते
Lemma: त्वद्
POS: pron
विभूतिषु
Lemma: विभूति
POS: f
Canonical CTS URN Reference
Kumārasambhavam, KS 2.11. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 2.10) All Verses in Chapter 2 Next Verse (KS 2.12) →