Skip to main content
Search
Ch. 2 KS 2.12
Full Chapter
KS • Chapter 2: Canto 2

KS 2.12

Canonical Ref: KS 2.12
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
उद्घातः प्रणवो यासां न्यायैस्त्रिभिरुदीरणम् । कर्म यज्ञः फलं स्वर्गस्तासां त्वं प्रभवो गिराम् ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): उद्घात इति ॥ हे भगवन्, यासां गिरां वाचामुद्घात उपक्रमः प्रणव ओंकारात्मकः । `ओंकारप्रणवौ समौ` इति । `स्यादभ्यादानमुद्घात आरम्भः` इति चामरः । इदमुपसंहारस्याप्युपलक्षणम् । `ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वतः । दहत्येनः कृतं पूर्वं परस्ताच्च विशेषतः ॥` इति निरुक्तपरिशिष्टयोर्यास्कः । नीयन्त एभिरर्थविशेषा इति न्यायाः स्वराः । उक्तं च- स्वरविशेषादर्थप्रतिपत्तिः` । `यथेन्द्रशत्रुः स्वरतोऽपराधात्` इति । यासां गिरां त्रिभिर्न्यायैरुदात्तानुदात्तस्वरितैः स्वरैरुदीरणमुच्चारणम् । यासां कर्म, प्रतिपाद्यमित्यर्थः । यज्ञो ज्योतिष्टोमादिः । न तु चैत्यवन्दनादिरिति भावः । फलं स्वर्गः । कर्मद्वारेति शेषः । कर्मस्वर्गौ ब्रह्मापवर्गयोरप्युपलक्षणे । त्वं तासां गिरां वेदानामित्यर्थः । प्रभवत्यस्मादिति प्रभवः कारणम् । प्रणेता स्मर्ता वा मतभेदेन अन्वयः: (हे भगवन् !) यासां गिराम् उद्घातः प्रणवः, त्रिभिः न्यायैः उदीरणं, कर्म यज्ञः, फलं स्वर्गः त्वं तासां गिरां प्रभवः (असि ।)

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
उद्घातः
Lemma: उद्घात
POS: m
प्रणवो
Lemma: प्रणव
POS: m
यासां
Lemma: यद्
POS: pron
न्यायैस्
Lemma: न्याय
POS: m
त्रिभिर्
Lemma: त्रि
POS: nr
उदीरणम्
Lemma: उदीरण
POS: n
कर्म
Lemma: कर्मन्
POS: n
यज्ञः
Lemma: यज्ञ
POS: m
फलं
Lemma: फल
POS: n
स्वर्गस्
Lemma: स्वर्ग
POS: m
तासां
Lemma: तद्
POS: pron
त्वं
Lemma: त्वद्
POS: pron
प्रभवो
Lemma: प्रभव
POS: m
गिराम्
Lemma: गिर्
POS: f
Canonical CTS URN Reference
Kumārasambhavam, KS 2.12. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 2.11) All Verses in Chapter 2 Next Verse (KS 2.13) →