Skip to main content
Search
Ch. 2 KS 2.13
Full Chapter
KS • Chapter 2: Canto 2

KS 2.13

Canonical Ref: KS 2.13
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
त्वामामनन्ति प्रकृतिं पुरुषार्थप्रवर्तिनीम् । तद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): त्वामिति ॥ हे भगवन्, त्वां पुरुषस्यार्थो भोगापवर्गरुपस्तदर्थ प्रवर्तत इति पुरुषार्थप्रवर्तिनीं तां प्रकृतिं त्रैगुण्यात्मकं मूलकारणम् । `प्रकृतिः पञ्चभूतेषु प्रधाने मूलकारणम्` । इति यादवः । आमनन्ति कथयन्ति । `म्ना अभ्यासे` इति धातोर्लट् । `पाघ्राध्मास्थाम्ना-` इत्यादिना मनादेशः । प्रकृतिपुरुषभेदाग्रहणात्प्रकृतिपुरुषाभेदव्यपदेशः । त्वामेव तां प्रकृतिं साक्षित्वेन पस्यतीति तद्दर्शिनमुदासीनं कूटस्थं पुरुषं विदुर्विदन्ति । `विदो लटो वा` (पा.3|4|83) इति झेर्जुसादेशः । `अजामेकां लोहितशुक्लकृष्णाम्` इति श्रुतिरत्र प्रमाणम् अन्वयः: (हे भगवन् !) त्वां पुरुषाऽर्थप्रवर्तिनीं प्रकृतिम् आमनन्ति । त्वाम् एव तद्दर्शिनम् उदासीनं पुरुषं विदुः ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
त्वाम्
Lemma: त्वद्
POS: pron
आमनन्ति
Lemma: आम्ना
POS: 1. P. • Verb: आमनन्ति
प्रकृतिं
Lemma: प्रकृति
POS: f
पुरुषार्थप्रवर्तिनीम्
Lemma: पुरुष
POS: m
पुरुषार्थप्रवर्तिनीम्
Lemma: अर्थ
POS: mn
पुरुषार्थप्रवर्तिनीम्
Lemma: प्रवर्तिन्
POS: adj
तद्दर्शिनम्
Lemma: तद्
POS: pron
तद्दर्शिनम्
Lemma: दर्शिन्
POS: adj
उदासीनं
Lemma: उदासीन
POS: m
त्वाम्
Lemma: त्वद्
POS: pron
एव
Lemma: एव
POS: ind
पुरुषं
Lemma: पुरुष
POS: m
विदुः
Lemma: विद्
POS: 6. Ā. • Verb: विदुः
Canonical CTS URN Reference
Kumārasambhavam, KS 2.13. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 2.12) All Verses in Chapter 2 Next Verse (KS 2.14) →