Skip to main content
Search
Ch. 2 KS 2.14
Full Chapter
KS • Chapter 2: Canto 2

KS 2.14

Canonical Ref: KS 2.14
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
त्वं पितॄणामपि पिता देवानामपि देवता । परतोऽपि परश्चासि विधाता वेधसामपि ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): त्वमिति ॥ हे भगवन्, त्वं पितॄणामाग्निष्वात्तादीनामपि पिता । तेषामपि तर्पणीय इत्यर्थः । परतोऽपि परश्चासि । सर्वोत्तरोऽसीत्यर्थः । `इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसश्च परा बुद्धिर्बुद्धेरात्मा महास्ततः ।महतः परमव्यक्तात्पुरुषः परः । पुरुषान्न परं किंचित्सा काष्ठा सा परा गतिः ॥` इति सर्वोत्तरत्वाभिधानात् । वेधसां दक्षादीनामपि विधाता स्त्रष्टासि अन्वयः: (हे भगवन् !) त्वं पितॄणाम् अपि पिता, देवानाम् अपि देवता, परतोऽपि परः, वेधसाम् अपि विधाता च असि ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
त्वं
Lemma: त्वद्
POS: pron
पितॄणाम्
Lemma: पितृ
POS: m
अपि
Lemma: अपि
POS: ind
पिता
Lemma: पितृ
POS: m
देवानाम्
Lemma: देव
POS: m
अपि
Lemma: अपि
POS: ind
देवता
Lemma: देवता
POS: f
परतो
Lemma: परतस्
POS: ind
ऽपि
Lemma: अपि
POS: ind
परश्
Lemma: पर
POS: pron
चासि
Lemma: च
POS: ind
चासि
Lemma: अस्
POS: 2. P. • Verb: असि
विधाता
Lemma: विधातृ
POS: m
वेधसाम्
Lemma: वेधस्
POS: m
अपि
Lemma: अपि
POS: ind
Canonical CTS URN Reference
Kumārasambhavam, KS 2.14. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 2.13) All Verses in Chapter 2 Next Verse (KS 2.15) →