Skip to main content
Search
Full Chapter
KS • Chapter 2: Canto 2

KS 2.1

Canonical Ref: KS 2.1
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
तस्मिन्विप्रकृताः काले तारकेण दिवौकसः । तुरासाहं पुरोधाय धाम स्वायंभुवं ययुः ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): तस्मिन्निति ॥ तस्मिन्काले पार्वतीशुश्रूषाकाले तारकेण तारकनाम्ना वज्रणखपुत्रेण केनचिदसुरेण विप्रकृता उपप्लुता दिवमोकः स्थानं येषां ते दिवौकसो देवाः । `दिवं स्वर्गेऽन्तरिक्षे च` इति विश्वः । द्यौरोक इति पक्षे पृषोदरादित्वात्साधुः । तुरं त्वरितं साहयत्यभिभवतीति तुराषाट् । साहयतेश्चौरादिकात्क्विप् । `नहिवृतिवृषि-` इत्यादिना पूर्वपदस्य दीर्धः । प्रकृतिग्रहणे प्रातिपदिकस्यापि ग्रहणात् । मुग्धबोधकारस्तु तुराशब्दष्टावन्त इत्याचष्टे । तं तुरासाहं देवेन्द्रम् । अजादिषु साङ्रूपत्वाभावात् । `सहेः साढः सः` इति षत्वं न भवति । पुरोधाय पुरस्कृत्य । स्वयंभुवो ब्रह्मण इदं स्वायंभुवम् । संज्ञापूर्वकविधेरनित्यत्वात् ओर्गुणः` इति गुणो न । धाम स्थानं ययुः । ब्रह्मलोकं जग्मुरित्यर्थः अन्वयः: तस्मिन् काले तारकेण विप्रकृताः दिवौकसः तुरासाहं पुरोधाय स्वायंभुवं धाम ययुः ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
तस्मिन्
Lemma: तद्
POS: pron
विप्रकृताः
Lemma: विप्रकृ
POS: 8. Ā.
काले
Lemma: काल
POS: m
तारकेण
Lemma: तारक
POS: m
दिवौकसः
Lemma: दिवौकस्
POS: m
तुरासाहं
Lemma: तुरासाह
POS: m
पुरोधाय
Lemma: पुरोधा
POS: 3. Ā.
धाम
Lemma: धामन्
POS: n
स्वायंभुवं
Lemma: स्वायम्भुव
POS: m
ययुः
Lemma: या
POS: 2. Ā. • Verb: ययुः
Canonical CTS URN Reference
Kumārasambhavam, KS 2.1. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 1.60) All Verses in Chapter 2 Next Verse (KS 2.2) →