Skip to main content
Search
Full Chapter
KS • Chapter 2: Canto 2

KS 2.5

Canonical Ref: KS 2.5
Metrical Form: अनुष्टुप्
Sanskrit (Devanāgarī)
यदमोघमपामन्तरुप्तं बीजमज त्वया । अतश्चराचरं विश्वं प्रभवस्तस्य गीयसे ॥
व्याख्या / Traditional Commentary & Notes Classical Exegesis
सञ्जीविनीटीका (मल्लिनाथः): यदिति ॥ न जायत इत्यजः । हे अज, अपां जलानामन्तस्त्वया यदमोघमवन्ध्यं बीजं वीर्यमुप्तं निक्षिप्तं । `मुक्तम्` इति पाठे विसृष्टमित्यर्थः । `शुक्रं तेजोरेतसी च बीजवीर्येन्द्रियाणि च` इत्यमरः (अ.को.2|6|62) । अतस्ते बीजाच्चराचरं स्थावरजङ्गमात्मकम् । समाहारे द्वन्द्वैकवद्भावः । विश्वं जगत् । उत्पन्नमिति शेषः । तस्य विश्वस्य । प्रभवत्यस्मादिति प्रभवः कारणं गीयसे । `अदश्चराचरं विश्वं प्रसवस्तस्त गीयते` इति पाठे अद इदं चराचरं विश्वं तस्य बीजस्य प्रसवो गीयते । लोक इति शेषः । अत्र मनुः- अप एव ससर्जादौ तासु बीजमवासृजत् । तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ॥ इति ॥ २.५. ॥ अन्वयः: हे अज ! अपाम् अन्तः यत् अमोघं बीजम् उप्तम् । अतः चराऽचरं विश्वं, तस्य प्रभवो गीयसे ।

Linguistic & Morphemic Analysis (Padaccheda)

Grammatical Parsing
यद्
Lemma: यद्
POS: pron
अमोघम्
Lemma: अमोघ
POS: adj
अपाम्
Lemma: अप्
POS: m
अन्तर्
Lemma: अन्तर्
POS: ind
उप्तं
Lemma: वप्
POS: 1. Ā.
बीजम्
Lemma: बीज
POS: mn
अज
Lemma: अज
POS: m
त्वया
Lemma: त्वद्
POS: pron
अतश्
Lemma: अतस्
POS: ind
चराचरं
Lemma: चराचर
POS: n
विश्वं
Lemma: विश्व
POS: pron
प्रभवस्
Lemma: प्रभव
POS: m
तस्य
Lemma: तद्
POS: pron
गीयसे
Lemma: गा
POS: 2. P. • Verb: गीयसे
Canonical CTS URN Reference
Kumārasambhavam, KS 2.5. Poorvam Open Research Engine (PORE) Corpus.
← Previous Verse (KS 2.4) All Verses in Chapter 2 Next Verse (KS 2.6) →